All kośas › Dharaṇikośa
धरणिकोश Dharaṇikośa
1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)
मान्ताः · मश्लोकः
॥ मश्लोकः ॥
सोमः स्यादोषधौ चन्द्रे पितृदेवकुबेरयोः ।वसुदेवप्रभेदे च सोमः कर्पूरमुच्यते ॥
24.3.1 · p. 145
अनुष्टुप्
कामं काम्ये निकामे च कामस्तु मदनेच्छयोः ।यत्काममभ्यनुज्ञाने तदव्ययमुदाहृतम् ॥
24.3.2 · p. 145
अनुष्टुप्
रामा स्त्री जामदग्न्यश्च रामो रामौ सितासितौ ।रामो दाशरथिश्चासौ पशुभेदे हलायुधे ॥
24.3.3 · p. 145
अनुष्टुप्
ग्रामः संवसथे ज्ञेयो वृन्दे शब्दादिपूर्वकः ।ग्रामो गीतस्वरे चैव संपूर्वः संयुगः स्मृतः ॥
24.3.4 · p. 145
अनुष्टुप्
धर्माः पुण्ययमन्यायस्वभावाचारसो[70]मपाः ।विदुश्चापे धर्मशब्दमहिंसोपमयोरपि ॥
24.3.5 · p. 146
अनुष्टुप्
यमाः स्युर्यमजध्वाङ्क्षकृतान्ता यमुना यमी ।शरीरसाधनापेक्षं नित्यं यत्कर्म तद्यमः ॥
24.3.6 · p. 146
अनुष्टुप्
श्यामा रात्रौ शारिवायां श्यामौ च हरितासितौ ।श्यामा प्रियङ्गुराख्याता श्यामा च कापि कामिनी ॥
24.3.7 · p. 146
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 च (wrong syllable)
वामं निर्भरसुन्दरद्रविणयोर्वामं प्रतीपार्थकंवामं सव्यमुदाहृतं कविवरैर्वामः स्मृतः शंकरः ।वामः कामः पशौ पयोधरवरे वामा स्मृता कामिनीवामी स्याद्वडवा तथोष्ट्रकवधूर्वामी शिवा गर्दभी ॥
24.3.8 · p. 146
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्: pāda 1, syllable 4 मः (wrong syllable)
पद्मो दाशरथौ निधौ च गदितो व्यूहप्रभेदेऽप्यसौसंख्यानागविशेषयोरपि तथा पद्मकाष्ठौषधौ ।पद्मान्विद्धि गजास्यबिन्दुनिकराम्पद्मं सरोजं स्मृतंपद्मा ब्राह्मणयष्टिका हरिवधूः स्यात्पद्मधारिण्यपि ॥
24.3.9 · p. 146
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्
ललामं स्याद्ध्वजे शृङ्गे पुण्ड्रवालधिलक्ष्मसु ।भूषावाजिप्रभावेषु प्रधाने च प्रयुज्यते ॥
24.3.10 · p. 147
अनुष्टुप्
मध्यमो मध्यजे मध्ये नृपरागप्रभेदयोः ।पाणेमध्याङ्गुलिर्दुष्टरजाः कन्या च मध्यमा ॥
24.3.11 · p. 147
अनुष्टुप्