कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Paramānandīyanāmamālā

परमानन्दीयनाममाला Paramānandīyanāmamālā

1,849 verses · 15,356 words tagged · 1,353 marked doubtful (dashed)

अनेकार्थसंग्रहः · रकारादयः

[अथ] रकारादयो यथा ।

राका दृष्टरजःकन्यापूर्णमासीभिदोरपि ॥ ३४२ ॥
5.22.342 · p. 205
रङ्को मल्ले दरिद्रे च रागः संगीतरागयोः ।रोकं जले बिले रोको रश्मौ रोचिः स्पृहारुचोः ॥ ३४३ ॥
5.22.343 · p. 205
अनुष्टुप्
राधा गोप्यां भभेदे च राधो मासान्तरे मतः ।रमः कान्ते स्मरे रक्ताशोके रीढा विमानने ॥ ३४४ ॥
5.22.344 · p. 205
अनुष्टुप्
रुमा लवणखानौ स्यात्सुग्रीवस्य प्रियापि सा ।रामो हलायुधे जामदग्न्ये दाशरथावपि ॥ ३४५ ॥
5.22.345 · p. 205
अनुष्टुप्
रसस्तु पारदे वीर्ये घृते शृङ्गारिके तथा ।रथ्या प्रतोल्यां मार्गे च राशिर्मेषादिपूरयोः ॥ ३४६ ॥
5.22.346 · p. 205
अनुष्टुप्