कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

नगौकस्

nagaukasपुं · masc.

In 10 kośas: 11 synonym verses, 3 as a nānārtha head word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सिंहादिवर्गः Amarakośa 2.5.48
खगे विहङ्गविहगविहङ्गमविहायसः ।शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः ॥ ३२ ॥पतत्रिपत्रिपतगपतत्पत्ररथाण्डजाः ।नगौकोवाजिविकिरविविष्किरपतत्रयः ॥ ३३ ॥नीडोद्भवाः गरुत्मन्तः पित्सन्तो नभसङ्गमाः ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.238 · p. 29
शकुनः खगो नगौकाः पक्षी विर्विष्किरस्तथा विकिरः ।अण्डजनीडजवाजिद्विजाश्च कथिताः समानार्थाः ॥ २३८ ॥
आर्या
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.5 · p. 318
पलंकषो महानादः पारीन्द्रो नखरायुधः ।अगौकाश्च नगौकाश्च केसरी करिमाचलः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.83 · p. 326
विकिरो विष्किरः पत्रिर्नगौकाश्च नगौकसा ।शरडश्च सरण्डापि पतगश्च वयो द्वयोः ॥ ८३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.64 · p. 195
पक्षी पटाको विकिरः खजाकोनीडोद्भवः पत्ररथः सरण्डः ।वाजी शकुन्तः शकुनिः शकुन्तिः[69a]किरो नगौकाः शकुनो विहायाः ॥ ६४ ॥
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 2, syllable 1 कि (wrong syllable)
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.65 · p. 33
शकुन्ते तु नगौकाः स्याद्गरुत्मान्विकिरोऽपि विः ।वाजी विविष्करः पत्रः पत्री पत्ररथः पतत् (न्?) ॥ ६५ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.99 · p. 11
विहायो विः पत्त्ररथो विकिरः पतगोऽण्डजः ।नगौका नीडनिलयः खचरो विष्किरो वयः ॥ ९९ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2379 · p. 384
शकुनः शकुनिश्चैव गरुत्मान् चञ्चुमान् खगः ।शकुन्तश्च शकुन्तिश्च नगौकाः नभसङ्गमः ॥ २३७९ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.2 · p. 82
हरिः शटाङ्गो मृगराट् मृगराजो मरुत्प्लवः ।हर्यक्षः केशरी केशी नगौकाः करिदारणः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.90 · p. 88
शकुन्तिः पतगः पत्ररथः कण्ठाग्निरित्यपि ।पतङ्गः स्यादगौकाश्च नगौका अपि चञ्चुभृत् ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.344 · p. 246
पतन् पित्सन् पतङ्गश्च पतगो विहगो मतः ।विहङ्गमो विहङ्गोऽपि नगौकाश्च नगौकवत् ॥ ३४४ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास सार्धश्लोकः Dharaṇikośa 31.2.20 · p. 224
सप्तार्चिर्वह्निराख्यातः सप्तार्चिश्च शनैश्चरः ।अगौकाश्च नगौकाश्च शरभे सिंहपक्षिणोः ॥
अनुष्टुप्
meanings
कोषकल्पतरु Koṣakalpataru · विश्वनाथ सान्ताः Koṣakalpataru 6.31.28 · p. 385
खगे विहाया नरि खे तु[91b] न स्त्रीसिंहे नगौकाः शरभे खगे च ।तादृक् त्वगौका अतियूनि बाल्ये-नुजे कनीयानपि भेद्यलिङ्गः ॥ २८ ॥
उपजातिःmetre not read in every line
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सान्ताः Śabdaratnāvalī 7.32.46 · p. 296
दीर्घायुः काकशाल्मल्योर्मार्कण्डे जीवकद्रुमे ।दिवौकाश्चातके देवे नगौकाः सिंहपक्षिणोः ॥
अनुष्टुप्