कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पतग

patagaपुं · masc.

In 14 kośas: 15 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.138 · p. 50
विहगो विहंगमखगौ पतगो विहंगः शकुनिः शकुन्तिशकुनौ विवयः शकुन्ताः ।नभसंगमो विकिरपत्त्ररथौ विहायो द्विजपक्षिविष्किरपतत्रिपतत्पतङ्गाः ॥ १३१६ ॥पित्सन्नीडाण्डजोगौकाश्चञ्चुश्चञ्चू सृपाटिका ।त्रोटिश्च पत्त्रं पतत्रं पिच्छं वाजस्तनूरुहम् ॥ १३१७ ॥पक्षो गरुच्छदश्चापि पक्षमूलं तु पक्षतिः ।
metre not recognised
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सिंहादिवर्गः Amarakośa 2.5.48
खगे विहङ्गविहगविहङ्गमविहायसः ।शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः ॥ ३२ ॥पतत्रिपत्रिपतगपतत्पत्ररथाण्डजाः ।नगौकोवाजिविकिरविविष्किरपतत्रयः ॥ ३३ ॥नीडोद्भवाः गरुत्मन्तः पित्सन्तो नभसङ्गमाः ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.237 · p. 29
पतन्पतङ्गः पतगः पतत्री,पत्त्री शकुन्तिः शकुनिः शकुन्तः ।वयो विहायो विहगो विहङ्गो,विहङ्गमः पत्त्ररथो गरुत्मान् ॥ २३७ ॥
उपजातिः
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर चतुर्दशोपदेशः Bālaprabodhikā 14.289 · p. 92
पक्षी पतत्रिपतगौ विहङ्गो विर्विहङ्गमः ।पिल्लाकः पक्षिपोते स्यात् हंसो धूमललोचनः ॥ २८९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.83 · p. 326
विकिरो विष्किरः पत्रिर्नगौकाश्च नगौकसा ।शरडश्च सरण्डापि पतगश्च वयो द्वयोः ॥ ८३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.63 · p. 195
खगो विहंगो विहगो विहंगमःपतन्पतंगः पतगः पतंगमः ।पत्री पतत्री पतसो वि-पत्रिणौपित्सन्गरुत्मान्नभसंगमो द्विजः ॥ ६३ ॥
upajati 12
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.217 · p. 79
कृत्रिमं च विषं चारं गरश्चोपविषं च तत् ।विहंगो विहगः पक्षी पतगो विहायाः? खगः ॥ २१७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 हा (wrong syllable)
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त अण्डजमरीचिः Pañcatattvaprakāśa 6.3.365 · p. 26
पतङ्गः पतगः पक्षी खगः पत्ररथोऽण्डजः ॥ ३६५ ॥
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.99 · p. 11
विहायो विः पत्त्ररथो विकिरः पतगोऽण्डजः ।नगौका नीडनिलयः खचरो विष्किरो वयः ॥ ९९ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2378 · p. 384
पक्षी पत्री पतत्रिश्च पतत्री पतगः पतन् ।पत्ररथः पतङ्गश्च पित्रान् वयो द्विजः पुनः ॥ २३७८ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.90 · p. 88
शकुन्तिः पतगः पत्ररथः कण्ठाग्निरित्यपि ।पतङ्गः स्यादगौकाश्च नगौका अपि चञ्चुभृत् ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.293 · p. 130
समूहे स्यात् कवचिनामुक्तं कावचिकं बुधैः ।पत्तिः पदातिः पतगः पादातिकपदातिकौ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.344 · p. 246
पतन् पित्सन् पतङ्गश्च पतगो विहगो मतः ।विहङ्गमो विहङ्गोऽपि नगौकाश्च नगौकवत् ॥ ३४४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शकुन्ताध्यायः Śabdaratnākara 2.5.786 · p. 100
विहगविहंगमद्विजविविष्किरपक्षिपतद्-विकिरपतत्रिपत्रिपतगाण्डजपत्ररथाः ।शकुनगरुत्मदंशुनभसंगमनीडभवाःशकुनिशकुन्तिवोजितरुधामशकुन्तखगाः ॥ ७८६ ॥
metre not recognised
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश खगाध्यायः Vaijayantī 2.3.1 · p. 26
पक्षी पत्ररथः पत्री पित्सन् पिपतिषन् पतन् ।पतंगः पतगः प्लावी पतत्र्यंगुपतत्रयः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.