All kośas › Dharaṇikośa
धरणिकोश Dharaṇikośa
1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)
सान्ताः · सार्धश्लोकः
॥ सार्धश्लोकः ॥
रासः स्याद्गोदुहां क्रीडा रासो ध्वनिरुदाहृतः ।वत्सं वक्षसि वत्सस्तु शिशुके वत्सरेऽपि च ॥
31.2.1 · p. 220
अनुष्टुप्
वासोऽवस्थितौ गेहे वासो वासक इष्यते ।गोसः प्रभात आख्यातो गोसो गन्धरसः स्मृतः ॥
31.2.2 · p. 221
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 वा (syllables merged)
मांसं पिशि[104]तमुद्दिष्टं मांसी तु मांसिकौषधिः ।मिसिर्मधुरिकायां स्याच्छतपुष्पा मिसिः स्मृता ॥
31.2.3 · p. 221
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
नासा च नासिका ज्ञेया नासा द्वारोर्ध्वदारु च ।धनुश्चापे राशिभेदे प्रियालाख्यद्रुमो धनुः ॥
31.2.4 · p. 221
अनुष्टुप्
तमो ध्वान्तं तमो राहुस्तमः शोकस्तमो गुणः ।रजो गुणं रजो रेणुर्योषितामार्तवं रजः ॥
31.2.5 · p. 221
अनुष्टुप्
वयो बाल्यादि पक्षी च यौवनं च क्वचिद्वयः ।सहो बलं सहो मार्गो हेमन्तश्च सहाः स्मृतः ॥
31.2.6 · p. 221
अनुष्टुप्
ओजो बलमवष्टम्भ ओजो रश्मिप्रकाशयोः ।छन्दः पद्ये च वेदे च छन्दश्छन्दानुवर्तनम् ॥
31.2.7 · p. 221
अनुष्टुप्
तेजो बले च शुक्रे च प्रभावे किरणेऽपि च ।वासो वस्त्रे समाख्यातमोष्ठे दन्तादिपूर्वकम् ॥
31.2.8 · p. 222
अनुष्टुप्
ज्योतिर्वह्नौ रवौ नेत्रे दीप्तौ च तारकासु च ।ज्यायान् श्रेष्ठे च वृद्धे च प्रशस्येऽतितरामपि ॥
31.2.9 · p. 222
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
विद्वान् ज्ञानिनि धीरे च विद्वानध्यात्मवेदकः ।भूयान्बहुतरार्थः स्यात्पुनरर्थे तदव्ययम् ॥
31.2.10 · p. 222
अनुष्टुप्
आशीरभीप्सिताशंसा दंष्ट्राशीरनिलाशिनाम् ।पनसः कण्टकीफलः पनसो वानरान्तरम् ॥
31.2.11 · p. 222
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 फ (wrong syllable)
सारसो विहगे चन्द्रे सारसं सरसीरुहम् ।कीकसाः कृमयः सूक्ष्मा अस्थि कीकसमिष्यते ॥
31.2.12 · p. 222
अनुष्टुप्
लालसं विदुरौत्सुक्ये याच्ञातृष्णातिरेकयोः ।साहसं तु बलात्कारकृतं कर्म दमस्तथा ॥
31.2.13 · p. 222
अनुष्टुप्
वरासिः स्यात्खड्गधरो वरासिः स्थूलशाटकः ।समासोऽप्युक्तः संक्षेपः समासः स्यात्समर्थनम् ॥
31.2.14 · p. 223
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क्तः (wrong syllable)
आश्वासः स्यात्समाश्वासे गद्यबन्धगुणोऽपि च ।उत्तंसोऽप्यवतंसश्च कर्णपूरे च [105] शेखरे ॥
31.2.15 · p. 223
अनुष्टुप्
प्रहासः स्यान्नटबटौ हास्यतीर्थविशेषयोः ।कुल्मासश्च यवे प्रोक्तः काञ्चिके यवपिष्टके ? ॥
31.2.16 · p. 223
अनुष्टुप्
साधीयानतिबाढः ? स्यात्साधीयानतिशोभनः ।वरीयानतिविस्तीर्णो हेति ? सत्तमयोगयोः ॥
31.2.17 · p. 223
अनुष्टुप्
कनीयाननुजे प्रोक्तो यूनि चाल्पे च कीर्तितः ।विहायसं विदुर्व्योम पक्षिणश्च विहायसः ॥
31.2.18 · p. 223
अनुष्टुप्
सुमनसः स्मृताः पुष्पमालतीसुरपण्डिताः ।प्रचेतसस्त्रयः कृष्णमुनिभेदजलेश्वराः ॥
31.2.19 · p. 223
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 न (wrong syllable)
सप्तार्चिर्वह्निराख्यातः सप्तार्चिश्च शनैश्चरः ।अगौकाश्च नगौकाश्च शरभे सिंहपक्षिणोः ॥
31.2.20 · p. 224
अनुष्टुप्
विभावसुः स्मृतः सूर्ये हारभेदे च पावके ।पुनर्वसुः ऋक्षभेदे कात्यायनः पुनर्वसुः ॥
31.2.21 · p. 224
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 य (wrong syllable)
विश्वावसुर्निशायां स्याद्देवानां गायनेऽपि च ।अधिवासो निवासे स्यात्संस्कारे धूपनादिना ॥
31.2.22 · p. 224
अनुष्टुप्
चन्द्रहासो रावणासिरसिमात्रे च कीर्तितः ।अवध्वंसः परित्यागे निन्दनेऽप्यवचूर्णने ॥
31.2.23 · p. 224
अनुष्टुप्
अपभ्रंसस्तु पतने भाषाभेदापशब्दयोः ।दिव्यचक्षुः सुगन्धः स्यादन्धो यश्च सुलोचनः ॥
31.2.24 · p. 224
अनुष्टुप्
हिङ्गुनिर्यासशब्दोऽयं निम्बे हिङ्गुरसेऽपि च ।हिरण्यरेतसौ प्रोक्तौ दिवाकरहुताशनौ ॥
31.2.25 · p. 224
अनुष्टुप्