विहायस्
vihāyasपुं · masc.In 17 kośas: 26 synonym verses, 7 as a nānārtha head word, 4 as a meaning of another word.
व्योमान्तरिक्षं गगनं घनाश्रयो विहाय आकाशमनन्तपुष्करे ।अभ्रं सुराभ्रोडुमरुत्पथोऽम्बरं खं द्योदिवौ विष्णुपदं वियन्नभः ॥ १६३ ॥
upajati 12
genderक्लीneut.
विहगो विहंगमखगौ पतगो विहंगः शकुनिः शकुन्तिशकुनौ विवयः शकुन्ताः ।नभसंगमो विकिरपत्त्ररथौ विहायो द्विजपक्षिविष्किरपतत्रिपतत्पतङ्गाः ॥ १३१६ ॥पित्सन्नीडाण्डजोगौकाश्चञ्चुश्चञ्चू सृपाटिका ।त्रोटिश्च पत्त्रं पतत्रं पिच्छं वाजस्तनूरुहम् ॥ १३१७ ॥पक्षो गरुच्छदश्चापि पक्षमूलं तु पक्षतिः ।
metre not recognised
विहगपुंविहंगमपुंखगपुंपतगपुंविहंगपुंशकुनिपुंशकुन्तिपुंशकुनपुंविपुंवयस्क्लीशकुन्तपुंनभसंगमपुंविकिरपुंपत्त्ररथपुंविहायस्पुंद्विजपुंपक्षिन्पुंविष्किरपुंपतत्रिन्पुंपतत्पुंपतङ्गपुंपित्सत्पुंनीडजपुंअण्डजपुंचञ्चुस्त्रीचञ्चूस्त्रीसृपाटिकास्त्रीत्रोटिस्त्रीपत्त्रक्लीपतत्रक्लीपिच्छक्लीवाजपुंतनूरुहक्लीपक्षपुंगरुत्पुंछदपुंपक्षतिस्त्री
genderपुंmasc.
द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम् ।नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम् ॥वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी ।विहायसोऽपि नाकोऽपि द्युरपि स्यात्तदव्ययम् ॥तारापथोऽन्तरिक्षं च मेघाध्वा च महाबिलम् ।विहायाः शकुने पुंसि गगने पुन्नपुंसकम् ॥ १ ॥
अनुष्टुप्
genderपुंक्लीm. n.
खगे विहङ्गविहगविहङ्गमविहायसः ।शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः ॥ ३२ ॥पतत्रिपत्रिपतगपतत्पत्ररथाण्डजाः ।नगौकोवाजिविकिरविविष्किरपतत्रयः ॥ ३३ ॥नीडोद्भवाः गरुत्मन्तः पित्सन्तो नभसङ्गमाः ।
अनुष्टुप्
genderपुंmasc.
नभो मरुद्वर्त्म वियद्विहाय-स्तारापथः पुष्करमन्तरिक्षम् ।व्योमाम्बरं विष्णुपदं च खं द्यौ-र्विहायसा स्याद्गगनं तथा द्युः ॥ १३७ ॥
उपजातिः
genderक्लीneut.
पतन्पतङ्गः पतगः पतत्री,पत्त्री शकुन्तिः शकुनिः शकुन्तः ।वयो विहायो विहगो विहङ्गो,विहङ्गमः पत्त्ररथो गरुत्मान् ॥ २३७ ॥
उपजातिः
genderपुंmasc.
नभो नाभो स्त्री नभसं विहायः स्याद्विहायसम् ।अन्तरीक्षं चान्तरिक्षं स्फुर्जथुः स्फूर्जथुः समौ ॥ २१ ॥
अनुष्टुप्
genderक्लीneut.
पुंस्याकाशः क्लीबपुंसोर्विहायाः षण्नभोम्बरम् ।पुष्करं व्योम गगनमनन्तं खं दिवं वियत् ॥ २२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
स्यात् पत्राङ्गी पिपतिषन् नभसंगम इत्यपि ।पतत् वाजी विहायाः स्याच्छकुन्तिस्ते चतुर्विधाः ॥ ८४ ॥
अनुष्टुप्
genderपुंmasc.
अवपुर्वृजनं दिवं मुरा-रिपदं देवपथो घनाश्रयः ।भपथो द्युरिसाव्ययं [?] भुवर्-नरि चाकाशविहायसी उभे ॥ २ ॥
वियोगिनी
genderपुंक्लीm. n.
पक्षी पटाको विकिरः खजाकोनीडोद्भवः पत्ररथः सरण्डः ।वाजी शकुन्तः शकुनिः शकुन्तिः[69a]किरो नगौकाः शकुनो विहायाः ॥ ६४ ॥
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 2, syllable 1 कि (wrong syllable)
genderपुंmasc.
प्रडीनोड्डीन-संडीनान्येताः खगगतिक्रियाः ।तत्स्त्रीजातौ तु विहगी ल्वी विहाया द्विजा खगी ॥ ६८ ॥
अनुष्टुप्
genderस्त्रीfem.
खं विहायो वियद्व्योम गगनाकाशमम्बरम् ।द्यौर्नभोऽभ्रोऽन्तरीक्षं च मेघवायुपथोऽप्यथ ॥ ५३ ॥
अनुष्टुप्
genderक्लीneut.
स्त्रीलिङ्गे द्योदिवौ देववर्त्मानन्ते विहायसि ।अम्बरं तारकामार्गोऽभ्रमार्गोऽपि निरीक्ष्यते ॥ १५३ ॥
अनुष्टुप्
genderक्लीneut.
कृत्रिमं च विषं चारं गरश्चोपविषं च तत् ।विहंगो विहगः पक्षी पतगो विहायाः? खगः ॥ २१७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 हा (wrong syllable)
genderपुंmasc.
ब्रह्म कर्म धनुर्नामाष्ठीवत्पक्ष्मविहायसी ।शिग्रुर्भूममहिम्नी चेत्यादयः पुंनपुंसकाः ॥ १६६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
अन्तरिक्षं वियद्व्योम खं विहायो महाविलम् ।इन्द्रः शचीपतिर्वज्री सुत्रामा पाकशासनः ॥ ३३२ ॥
अनुष्टुप्
genderक्लीneut.
वियद्विहायोऽनन्तं च सुरवर्त्म घनाश्रयः ।आदित्यः सविता सूर्यो रविर्भानुर्दिनेश्वरः ॥ ६० ॥
अनुष्टुप्
genderक्लीneut.
विहायो विः पत्त्ररथो विकिरः पतगोऽण्डजः ।नगौका नीडनिलयः खचरो विष्किरो वयः ॥ ९९ ॥
अनुष्टुप्
genderपुंmasc.
वियद्विष्णुपदं खञ्च द्यौदिवौ च मरुत्पथः ।व्योमाऽनन्तं विहायश्च पुष्करं गगनं नभः ॥ १६४ ॥
अनुष्टुप्
genderक्लीneut.
ख्यातं नाम विहायाश्च कीकसमुख इत्यपि ।सर्वाण्येतानि नामानि मन्यन्ते पक्षिणां बुधैः ॥ २३८१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 क (wrong syllable)
genderपुंmasc.
सुरवर्त्म मरुद्वर्त्म मेघवर्त्म वियन्नभः ।द्वे स्त्रियौ द्यो-दिवौ वा तु पुंस्याकाश-विहायसी ॥
अनुष्टुप्
genderपुंmasc.
अण्डजो वाजि-विकिरौ व्योमचारी वि-विष्किरौ ।नाडीचरण-पित्सन्तौ नीडोद्भव-विहायसौ ॥
अनुष्टुप्
genderपुंmasc.
स्यादाकाशं विहायश्च दिव्यं दिवि भवे त्रिषु ।लोकबान्धव उष्णांशुर्मार्ताण्डोऽरुणसारथिः ॥ १६० ॥
अनुष्टुप्
genderपुंक्लीm. n.
पतत्रयः पतंगाश्च पित्सन्तश्च विहायसः ।शुक्लापाङ्गः शिखी केकी नीलकण्ठः शिखावलः ॥ ७८७ ॥
अनुष्टुप्
genderपुंmasc.
कुनाभिः स्याद्विहायस्तु खं भरुन्मेघवर्त्म च ।अक्षरं चाथ
अनुष्टुप्metre not read in every line
genderक्लीneut.
विहायस् as a meaning in nānārtha verses
- कोषकल्पतरु व्योमन्स्यात्सद्म गेहेऽम्भसि कैतवे तु छद्म प्रदिष्टं कुसृतौ तथैव । प्रेमास्त्रियां नर्मविधौ च हार्दे व्योमान्तिमे वारिविहायसोश्च ॥ ९३ ॥ Koṣakalpataru 6.21.93
- नानार्थार्णवसंक्षेप खजाकखजकस्तु पुमान् मन्थदण्डे द्वे रसपाचके । खजाकस्तु पुमान् मन्थदण्डे क्ली तु विहायसि ॥ ६१७ ॥ Nānārthārṇavasaṃkṣepa 4.617
- नानार्थार्णवसंक्षेप स्वयम्भूस्त्री तु + + + + + + + + + + + + + + । स्वयम्भूस्तु विरिञ्चे ना क्ली स्वयम्भु विहायसि ॥ १९३२ ॥ Nānārthārṇavasaṃkṣepa 4.1932
- शब्दरत्नावली खखं पुरेन्द्रियशून्येषु बिन्दुक्षेत्रविहायसि । सुखे संवेदने देवलोके दीप्तौ नपुंसकम् ॥ Śabdaratnāvalī 7.2.1