कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

लवण

lavaṇaपुं · masc.

In 18 kośas: 31 synonym verses, 7 as a nānārtha head word, 39 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य जलकायः Abhidhānacintāmaṇi 4.2.7 · p. 42
लवणक्षीरदध्याज्यसुरेक्षुस्वादुवारयः ।
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.32 · p. 53
अम्लस्तु पाचनो दन्तशठोऽथ लवणं सरः ॥ १३८८ ॥सर्वरसोऽथ कटुः स्यादोषणो मुखशोधनः ।
अनुष्टुप्metre not read in every line
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह धीवर्गः Amarakośa 1.5.9
तुवरस्तु कषायोऽस्त्री मधुरो लवणः कटुः ।तिक्तोऽम्लश्च रसाः पुंसि तद्वत्सु षडमी त्रिषु ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.317 · p. 168
क्षारोपि लवणः सोपि प्रलिम्पन्विदहन्मुखम् ।विष्यन्दयन्लाघवयन् क्लेदयन्सैन्धवादिषु ॥ ३१७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.412 · p. 178
ग्रन्थिलोङ्गारग्रन्थिः स्यात्सुवर्चास्तु सुवर्चिकः ।स्वर्जिकः स्वर्चिकक्षारो लवणासुरमेदजे ॥ ४१२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र (wrong syllable)
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.77 · p. 469
क्लोमधौतेयकद्वारफेनानां लवणस्य च ।प्रसूनव्यजनस्थानद्रवन्नामानि यानि च ॥ ७७ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.94 · p. 471
पिङ्गाणतीक्ष्णद्रविणपुराणानामृणस्य च ।घ्राणपर्याणहरिणलवणानां शणस्य च ॥ ९४ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.49 · p. 58
लवणः स्यात्सर्वरसः * * पटुरथास्य मृट् (?) ।कटूषण-कटोलाश्च मुखभेदी तु तिक्तकः ।तीक्ष्णः क्षारश्च सकटु लवणात्मक उच्यते ।तुबरस्तूबरश्चास्त्री कषायस्तद्वति त्रिषु ॥ ४९ ॥
अनुष्टुप्metre not read in every line
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शैलवर्गः Koṣakalpataru 2.2.20 · p. 129
रुमण्वाल्लँवणाद्रिः स्यात्कबरं लवणं रुम ।तीक्ष्णं क्षारं च न द्वंद्वे पटु वारिरसं तथा ॥ २० ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शैलवर्गः Koṣakalpataru 2.2.28 · p. 129
धूर्तं तु खण्डलवणं संसृष्टे लवणस्त्रिषु ।सैन्धवं रुचकं पाक्यं सामुद्रं चौद्भिदं तथा ।स्यात्पञ्चलवणं पांसूत्थेन षड्लवणं भवेत् ॥28 ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नपुंसकाधिकारः Koṣakalpataru 4.3.82 · p. 104
व्यञ्जनलवण सुवर्ण-प्रमुखानां सप्तलोहानाम् ।नान्तं लान्तं स्त्वन्तं तान्तं त्रान्तं च सामान्तम् ॥ ८२ ॥
metre not recognised
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नपुंसकाधिकारः Koṣakalpataru 4.3.99 · p. 106
घ्राणं कार्मण-कारणोष्ण-लवण-श्रीपर्ण-पारायणंशिङ्घाणं शरण-प्रमाण-करणक्षुस्माणदौर्वीणवत् ।श्राणं कौङ्कण-पूरणे च हरिणं स्याद्धोरणं बृंहणंप्रादेशान्तनितान्तवृत्तसुरतामन्तानि भूतं तथा ॥ ९९ ॥
शार्दूलविक्रीडितम्
genderक्लीneut.
त्रिष्वप्यक्षेषु मध्ये इन्द्रियसञ्ज्ञकमक्षं नपुंसके विद्धि । इदमक्षमिन्द्रियं शेषास्त्वक्षाः पुंसि प्रोक्ताः । अयं देवानामक्षः कटाक्षः । श्रीपिष्टाद्या[धा] निर्यासाश्च पुंसि भवन्ति । अयं श्रीपिष्टः सर्जरसः गुगुल इत्येवमादयः ।विंशतिरानवतेः स्त्री नपुंसके तालुहृदयकुड्यानि ।पार्श्वकुकुन्दरविण्यतलध[धा]नलवणराष्ट्राणि चावैहि ॥ ४९ ॥
metre not recognised
genderक्लीneut.
विंशतिप्रभृतयो नवतिपर्यन्ताः स्त्रियां भवन्ति । इयं विंशतिः त्रिंशत् चत्वारिंशत् पञ्चाशत् षष्ठिः सप्ततिः अशीतिः नवतिः ।एतानि नपुंसके भवन्ति । इदं तालु वदनैकदेशः । हृदयं जीवनस्थानम् । कुड्यं भित्तिः । एतानि नपुंसकान्यवैहि अवग[म]च्छेत्यर्थः । इदं पार्श्वं शरीरस्य । कुकुन्दरं नितम्बकूपद्वयम् । विण्यं द्रव्यम् । तलमधः । धनं द्रविणम् । लवणं रसविशेषः । राष्ट्रं जनपदस्थानम् ।क्रोडाघाटाजिह्वाशिरोधराशष्कुलीस्पृहामाया स्त्रियां विद्धि ।शाखाशिखाकलामेखला रेखाराजिपङ्क्ती च ॥ ५१ ॥
metre not recognised
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.231 · p. 33
मृत्सा मृत्स्ना च रम्या मृत्खिलं क्षेत्राहतं पदम् ।लवणं वशिरोऽक्षीवं यत्समुद्रसमुद्भवम् ॥ २३१ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.282 · p. 87
ओषणो वक्त्रभेदी च कटुतिक्तौ समावुभौ ।सरः सर्वरसश्चैव लवणोऽपि तथोच्यते ॥ २८२ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास नपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.3.75 · p. 220
वल्कलान्तिकदुःखानां वाससो लवणस्य च ।रत्नादीनां सभेदानां नामानि स्युर्नपुंसके ॥ ७५ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास नपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.3.89 · p. 222
करोटं मोरटं भाण्डं तुण्डाण्डे शरणेरणे ।लवणं द्रविणशृङ्गाटपिटपारायणानि च ॥ ८९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त भूमिभानुः Pañcatattvaprakāśa 2.250 · p. 18
बाह्लीकं रामठं हिङ्गुः कर्पूरं चन्द्रनामकम् ।सर्वस्वादुरसं क्षारं लवणं रोचकं बलम् ॥ २५० ॥
अनुष्टुप्
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त जलभानुः Pañcatattvaprakāśa 3.306 · p. 21
सुस्वादो मधुरो मिष्टः चुक्रोऽम्लः कटुकः कटुः ।कषायस्तूबरः क्षारी लवणः तिक्ततीक्ष्णकौ ॥ ३०६ ॥
अनुष्टुप्
genderविadj.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.80 · p. 42
स्याल्लवणः सर्वरसः क्षारस्तिक्तं तु तीक्ष्णवत् ।रक्तः शोणोऽरुणस्ताम्रो लोहितः पाटलोऽपि च ॥ ८० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 ल्ल (wrong syllable)
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.125 · p. 46
लवणक्षीरदध्याज्यसुरेक्षुस्वादुसागराः ।भारताख्यं किंपुरुषं हरिवर्षमिलावृतम् ।रम्यकाख्यं पञ्चमकं खण्डं षष्ठं हिरण्मयम् ॥ १२५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 किं (wrong syllable); pāda 3, syllable 5 प (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.60 · p. 409
प्रसिद्धो लवणश्चैव रसः सर्वरसस्तथा ।
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.332 · p. 23
अस्त्री कषायो मधुरो लवणः कटुरेव च ।तिक्तोऽम्लश्च षट्पुमांसो रसाः स्युर्गुणवाचकाः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 श्च (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.38 · p. 39
समुद्रभेदाः सप्त स्युः क्षीरोदलवणादयः ।आपः स्त्रियां बहुत्वे तु जलं कमलपुष्करम् ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 3.1.32 · p. 48
लवणेक्षुसुरासर्पिर्दधिदुग्धजलैरमी ।समुद्राः सप्त विख्याताः सप्तद्वीपसमावृताः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चित्ताध्यायः Śabdaratnākara 1.9.294 · p. 40
कषाये तुवरः स्वादौ मधुरो लवणः कटुः ।अम्लस्तिक्तो रसाः पुंसि षडेते तद्वति त्रिषु ॥ २९४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.317 · p. 43
लवणेक्षुसुरासर्पिर्दधिक्षीरोदकात्मकाः ॥ ३१७ ॥
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव भूमिवर्गः Trikāṇḍaśeṣa 2.1.5 · p. 30
द्वीपाः सप्ताथ सप्तैव समुद्रा अपि कीर्तिताः ।लवणेक्षुसुरासर्पदधिदुग्धपयोमयाः ॥ ५ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.93 · p. 166
गुणौदनिकसूपाश्च लवणो लवणोत्कटः ।पक्वं तु रन्धितं सिद्धं भृष्टं पक्वं विनांबुना ॥ ९३ ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश गुणाध्यायः Vaijayantī 5.3.26 · p. 198
अम्लस्तु पाचनः शुक्तो लवणस्तु पटुः सरः ।ऊषणस्तु कटुस्तीक्ष्णस्तिक्तस्तु विसरः कटुः ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास णार्धश्लोकः Dharaṇikośa 14.2.18 · p. 53
धिषणस्त्रिदशाचार्ये धिषणा धीरपि स्मृता ।लवणाः कथिता भेदाः समुद्ररसरक्षसाम् ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ णान्ताः Koṣakalpataru 6.15.19 · p. 197
स्वर्लोके परमेष्ठिनीह वरुणो गोत्रे तु मूले पदेशाखादौ भ्रमणे स्त्रियां न चरणोऽन्त्ये रासभे च ध्वनौ ।रक्षोभिद्रसयोस्तु पुंसि लवणः कान्तौ स्त्रियामन्यव-त्तद्युक्ते करणस्तु वैश्यवृषलीपुत्रे च काये कृतौ ॥ १९ ॥
शार्दूलविक्रीडितम्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1549 · p. 182
जिह्वायां नाडिभेदे च लवणस्तु पुमानयम् ।दैत्यभेदे पटुरसे त्रि तु तद्वति वस्तुनि ॥ १५४९ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1550 · p. 182
लवणद्रव्यसंसृष्टेऽप्यथ क्ली सैन्धवादिषु ।लताभेदे तु लवणी स्त्रियां स्यादथ लक्षणम् ॥ १५५० ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश णान्ताः Śabdaratnāvalī 7.15.58 · p. 211
रोहिणी कण्ठरुग्तारासोमवल्ककटम्भरेः ।लवणं सैन्धवादौ तु ना सिन्धौ रसरक्षसोः ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश णान्ताः Śabdaratnāvalī 7.15.59 · p. 211
नदीभेदे च दीप्तौ च स्त्रियां तत्संयुते त्रिषु ।लक्षणः स्याद्दाशरथौ लक्षणं नामचिह्णयोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्दा (wrong syllable)
doubtful
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2157 · p. 261
लवणस्तु रसे दैत्ये लवणं सैन्धवादिके ।गमने चोपवासे च लङ्घनं लालसा द्वयोः ॥ २१५७ ॥
अनुष्टुप्

लवण as a meaning in nānārtha verses