All kośas › Nānārthārṇavasaṃkṣepa
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa
5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)
नानालिङ्गाध्यायः (1/18)
इति त्र्यक्षरकाण्डे वाच्यलिङ्गाध्यायः ।
अथ त्र्यक्षरकाण्डे नानालिङ्गाध्यायः ।
अमृतं व्योम्नि देवान्ने यज्ञशेषे रसायने ।अयाचिते जले जग्धौ मोक्षेऽन्ने हेम्नि गोरस ॥ १ ॥
4.1 · p. 47
अनुष्टुप्
धारोष्णदुग्धेऽप्यमृतो क्षीरमात्रे धनञ्जयः ।एतेष्वर्थेषु जानीयात् क्लीबं वेदे तु पुंस्ययम् ॥ २ ॥
4.2 · p. 47
अनुष्टुप्
देवे तु द्वे स्त्रियां तु स्यादमृता मद्यभिक्षयोः ।आमलक्यां हरीतक्यां गुडूच्यां रभसः पुनः ॥ ३ ॥
4.3 · p. 47
अनुष्टुप्
मागध्यां चाह सूर्यस्य पुनस्तेषु गभस्तिषु ।ये वृष्टिसर्जने प्रोक्ता येषा सङ्ख्या चतुःशती ॥ ४ ॥
4.4 · p. 47
अनुष्टुप्
त्रिस्त्वप्र(ती?मी)त एकान्तसुन्दरे स्वादुनित्ययोः ।हृद्ये चाथाक्षरः पुंसि विरिञ्चे विष्णुखड्गयोः ॥ ५ ॥
4.5 · p. 47
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 त्रि (syllables merged)
क्ली तु वाचि विधौ धर्मे वर्णेऽम्बुतमसो क्रतौ ।अक्षराख्ये सामभेदे खे मोक्षे मूलकारणे ॥ ६ ॥
4.6 · p. 47
अनुष्टुप्
परमाणौ ब्रह्माणि च प्रणवे तु नृशण्डयोः ।त्रिस्त्वक्षरितरि स्याच्चाविद्यमानक्षरे तथा ॥ ७ ॥
4.7 · p. 47
अनुष्टुप्metre not read in every line
अनन्तः पुंसि विष्णौ स्यान्नागराजे हलायुधे ।क्लीबं तु व्योम्न्यनन्ता तु पौर्णमास्यां मरुद्दिशि ॥ ८ ॥
4.8 · p. 47
अनुष्टुप्
शारिवाभूमिदूर्वासु विशल्यानाम्नि चौषधौ ।दुःस्पर्शे च स्त्रियां भेद्यलिङ्गं त्वन्तवि(स?व)र्जिते ॥ ९ ॥
4.9 · p. 47
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अन्तरं तु नपि प्रत्यासत्तौ मध्यावकाशयोः ।तादर्थ्यऽवसरे कालभेदे मन्वन्तराह्वये ॥ १० ॥
4.10 · p. 47
अनुष्टुप्
विशेषविवरान्तर्धिष्ववसानविनार्थयोः ।अवधौ च त्रिषु पुनस्तुल्येऽल्पपरिधानयोः ॥ ११ ॥
4.11 · p. 47
अनुष्टुप्
बाह्ये स्वीये प्रतिभुवि नृनपोस्त्वन्तरात्मनि ।अर्जुनस्तु पुमान् कार्तवीर्ये मध्यमपाण्डवे ॥ १२ ॥
4.12 · p. 48
अनुष्टुप्
मातुरेकसुते शौक्ल्ये यमे दृष्टिरुजान्तरे ।ककुभाख्यद्रुमे क्ली तु तृणे रूपे च हेम्नि च ॥ १३ ॥
4.13 · p. 48
अनुष्टुप्
स्त्रियां तु सुरभौ रात्रावुषस्यप्यापगान्तरे ।बाहुदाख्येऽर्जुनी च स्यात् त्रि तु स्यादग्र्यशुक्लयोः ॥ १४ ॥
4.14 · p. 48
अनुष्टुप्
रभसस्तु द्वयोराह केकिनि क्ली तु दृग्रुजि ।अरिष्टस्तु पुमान्निम्बे फेनिलाख्ये महीरहे ॥ १५ ॥
4.15 · p. 48
अनुष्टुप्
लशुने दैत्यभेदे च कृष्णेन विनिपातिते ।स्याद्दशबन्धने चाथ क्लीबं मरणलाञ्छने ॥ १६ ॥
4.16 · p. 48
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 श (wrong syllable)
अप्यारण्यकयोः साम्नोः 'पवित्र त'ऋगुत्थयोः ।अशुभे च शुभे वर्णविकारे सज्जनः पुनः ॥ १७ ॥
4.17 · p. 48
अनुष्टुप्
अञ्जनाभे वर्ण इति निकार इति चापठीत् ।सुरायां सूतिकागेहे स्त्रियां त्वेकोऽपठीद्भिषक ॥ १८ ॥
4.18 · p. 48
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 व (wrong syllable)
कटुकानागबलयोस्तक्रे तु नृनपोस्तथा ।भेषजद्रवभेदे च द्वे तु काके त्रिषु त्वयम् ॥ १९ ॥
4.19 · p. 48
अनुष्टुप्
अहिंसिते तथा व्याधिनिर्मुक्ते निरुपद्रवे ।अदृष्टं वह्नितोयादिदैवभीतौ महीभुजाम् ॥ २० ॥
4.20 · p. 48
अनुष्टुप्
क्ली त्रि त्वनीक्षितेऽथ स्यादक्षतं क्लीबलिङ्गकम् ।धान्येऽपि तण्डुलेऽथ स्त्रीनपोर्लाजेषु ना यवे ॥ २१ ॥
4.21 · p. 48
अनुष्टुप्
अन्यस्मिंस्तु क्षतात् त्रि स्यादक्षितं तु जले नपि ।सङ्ख्याविशेषे चान्यस्मिन् क्षितात् त्रि स्यादथाच्युतः ॥ २२ ॥
4.22 · p. 48
अनुष्टुप्
पुमान् विष्णौ त्रिषु पुनश्च्युतादन्यत्र वस्तुनि ।अन्तस्था तु स्त्रियां प्रोक्ता यरलेषु वकारके ॥ २३ ॥
4.23 · p. 48
अनुष्टुप्
तथा छन्दोविचित्यां च द्व्यक्षरप्रभृतिष्वपि ।षड्विंशतौ चच्छन्दः सु चतुर्वृद्धेषु दृश्यते ॥ २४ ॥
4.24 · p. 49
अनुष्टुप्
प्रयोगे ब्राह्मणेनोपोस्थानीया जीयके तथा(?) ।त्रिष्वन्तावस्थिते चापि तथैवान्तरवस्थिते ॥ २५ ॥
4.25 · p. 49
अनुष्टुप्
अरुणा स्त्री विषायां च मञ्जिष्ठात्रिवृतोरपि ।क्ली तु ताने पुमांस्तु स्यात् सूर्ये सूर्यस्य सारथौ ॥ २६ ॥
4.26 · p. 49
अनुष्टुप्
शशिजे चाप्युषसि च काण्डर्षिष्वपि केषुचित् ।अव्यक्तरागवर्णे च सन्ध्यारागे तु केचन ॥ २७ ॥
4.27 · p. 49
अनुष्टुप्
लोहितेऽन्यस्तु कपिले त्रि त्वत्र कथिता गुणाः ।अव्यक्तरागादयो ये तेषामन्यतमेन यत् ॥ २८ ॥
4.28 · p. 49
अनुष्टुप्
युक्तं वस्तु भवेत् तत्र निःशब्दे चाजयादयः ।अजिरं क्ली शरीरे च विषये चाङ्गणेऽपि च ॥ २९ ॥
4.29 · p. 49
अनुष्टुप्
शैघ्र्ये च नगरे चास्य प्रयोगोऽर्थान्तरेऽपि च ।दृश्यते भारते क्रौञ्चधरणीधरवर्णने ॥ ३० ॥
4.30 · p. 49
अनुष्टुप्
कुरङ्गारुतनिर्घोषमुद्भ्रान्तसृमराजिरम् ।इत्यत्रार्थश्चिन्तनीयोऽथ नद्यामजिरा स्त्रियाम् ॥ ३१ ॥
4.31 · p. 49
अनुष्टुप्
उमायामपि च प्राह रभसः शब्दवित्तमः ।त्रि तु शीघ्रे जर्जरे च स्थादथो अमरा स्त्रियाम् ॥ ३२ ॥
4.32 · p. 49
अनुष्टुप्
गुडूचीन्द्रपुरीस्थूणास्वमर्तरि तु वाच्यवत् ।द्वे तु देवेऽथ पुंसि स्यादररः सोमसंज्ञके ॥ ३३ ॥
4.33 · p. 49
अनुष्टुप्
यज्ञाङ्गेऽग्नौ च युद्धे तु लोहलोहशलाकयोः ।अपि क्लीबं कवाटे तु स्यात् स्त्रीशण्डेऽररी इति ॥ ३४ ॥
4.34 · p. 49
अनुष्टुप्
आरायामररा स्त्र्येव शीघ्र स्याद्भेद्यलिङ्गकम् ।अर्गला तु न ना द्वारकवाटद्वयबन्धने ॥ ३५ ॥
4.35 · p. 49
अनुष्टुप्
क्लीबं तु द्वारपटले विदण्डे तु त्रिलिङ्गिका ।रभसस्त्वाह कल्लोले दण्डिकान्तःकपोलयोः ॥ ३६ ॥
4.36 · p. 50
अनुष्टुप्
अचलो ना गिरौ विष्णौ पृथिव्यां त्वचला स्त्रियाम् ।देव्यां च काञ्चिकस्थालमधितिष्ठति या सदा ॥ ३७ ॥
4.37 · p. 50
अनुष्टुप्
निश्चले तु त्र्यमात्यस्तु राज्ञो धीसचिवे पुमान् ।त्रिस्त्वमाभवजातादावहतं त्रिर्नवांशुके ॥ ३८ ॥
4.38 · p. 50
अनुष्टुप्
अहिंसितेऽप्यहिंसायां पुनः क्लीबेऽहितः पुनः ।ना रिपौ त्रि त्वपथ्येऽथ स्यादषाढा स्त्रियामियम् ॥ ३९ ॥
4.39 · p. 50
अनुष्टुप्
अब्देवते च नक्षत्रे वैश्वदेवे च भे तथा ।तद्युक्ते कालसामान्ये ताभ्यां यज्ञद्विजन्मनाम्(?) ॥ ४० ॥
4.40 · p. 50
अनुष्टुप्
अग्निचित्येष्टकाभेदेऽप्यथ स्याद्भेद्यलिङ्गकम् ।असोढरि तथाषाढायुक्तकालजवस्तुनि ॥ ४१ ॥
4.41 · p. 50
अनुष्टुप्
अभिज्ञा तु स्त्रियां स्मृत्यां निपुणे त्वभिधेयवत् ।अन्नादो ना व्रतान्ताग्नावन्नस्यात्तरि तु त्रिषु ॥ ४२ ॥
4.42 · p. 50
अनुष्टुप्
मनुष्ये तु द्वयोराह शब्दवेदी धनञ्जयः ।अजितस्तु पुमान् विष्णौ दूर्वायामजिता स्त्रियाम् ॥ ४३ ॥
4.43 · p. 50
अनुष्टुप्
अनिर्जिते पुनस्त्रि स्यादव्यक्तस्तु पुमान् हरौ ।परमात्मनि च क्ली तु साङ्ख्यतत्त्वान्तरेऽपि च ॥ ४४ ॥
4.44 · p. 50
अनुष्टुप्
प्रधानाख्ये त्रिषु पुनरस्पष्टे मूर्ख एव च ।रभसस्तु प्रमाद्याह परमात्मन्यमुं नपि ॥ ४५ ॥
4.45 · p. 50
अनुष्टुप्
अव्ययोऽस्त्री स्वराद्याद्येष्वीश्वरस्य दशस्वपि ।ज्ञानं वैराग्यमैश्वर्यं तपः सत्यं क्षमा धृतिः ॥ ४६ ॥
4.46 · p. 50
अनुष्टुप्
स्रष्टृत्वमात्मसम्बोधो ह्यधिष्ठातृत्वमित्यपि ।एतेषु त्रि तु यस्यास्ति न व्ययस्तत्र वस्तुनि ॥ ४७ ॥
4.47 · p. 50
अनुष्टुप्
पार्वत्यां त्वद्रिजा स्त्री स्यात् क्ली शिलाजतुनामनि ।धातुभेदे त्रिषु पुनरद्रिजाते नपि त्वदः ॥ ४८ ॥
4.48 · p. 51
अनुष्टुप्
शिलाजतुन्यश्मजं स्यादश्मजाते पुनस्त्रिषु ।अनीकं तु नृशण्डे स्यात् सेनायां समरेऽपि च ॥ ४९ ॥
4.49 · p. 51
अनुष्टुप्
गते जन्मनि नाथ स्यादन्पो महिषे द्वयोः ।जलप्राये तु देशे त्रिरथाहीनो नृलिङ्गकः ॥ ५१ ॥
4.51 · p. 51
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
द्विरात्रादिषु यज्ञेषु प्राक् त्रयोदशरात्रतः ।अथ त्रिषु स्यादन्यूने स्यादहीनामिनेऽपि च ॥ ५२ ॥
4.52 · p. 51
अनुष्टुप्
अक्षीबं त्वब्धिजे क्लीबं लवणे ना तु शिग्रुके ।अमत्ते तु त्रिरमतः पुनर्मृत्यौ नृलिङ्गकः ॥ ५३ ॥
4.53 · p. 51
अनुष्टुप्
द्वे तु मर्येऽधरस्तु स्यादोष्ठे पुंस्यथ भेद्यवत् ।अवाचीने च हीने क्ली त्वध्वरं खे मखे तु ना ॥ ५४ ॥
4.54 · p. 51
अनुष्टुप्
अत्वरस्तु त्वराहीने त्रि द्वे तु महिषे स्मृतः ।अधृष्या तु नदीभेदे स्त्री त्रिषु त्वप्रधृष्यके ॥ ५५ ॥
4.55 · p. 51
अनुष्टुप्
नाद्भुतो वैश्वदेवाग्नौ महदाश्चर्ययोस्त्रिषु ।अखातं क्ली देवखातजलाधारेऽथ भेद्यवत् ॥ ५६ ॥
4.56 · p. 51
अनुष्टुप्
खातादन्यत्र पुंल्लिङ्गस्त्वपायोऽपगमे तथा ।पलायनेऽथापेताये त्रिरपाङ्गः पुनः पुमान् ॥ ५७ ॥
4.57 · p. 51
अनुष्टुप्
नेत्रान्तेऽपगताङ्गे तु त्रिरलिङ्गं तु नप्यदः ।प्रधानाख्ये साङ्ख्यतत्त्वे निर्लिङ्गे त्वभिधेयवत् ॥ ५८ ॥
4.58 · p. 51
अनुष्टुप्
त्रिस्त्वनङ्गोऽङ्गरहिते क्ली तु व्योम्नि स्मरे तु ना ।अङ्गनाशब्द आख्यातः कल्याणाङ्ग्यां स्त्रिया स्त्रियाम् ॥ ५९ ॥
4.59 · p. 51
अनुष्टुप्
गतिप्राङ्गणयोस्त्वन्ये कथयन्त्यङ्गनं बुधाः ।ग्रन्थावच्छेदभेदे तु नाध्यायोऽध्ययनेऽपि च ॥ ६० ॥
4.60 · p. 52
अनुष्टुप्
ध्यातुरन्यत्र तु त्रिः स्यादव्यथा तु स्त्रियामियम् ।हरीतक्यां स्तम्बभेदे यस्याख्या पद्मचारिणी ॥ ६१ ॥
4.61 · p. 52
अनुष्टुप्
महाश्रावणिकायां च वैद्यः कश्चिदभाषत ।पीतझिण्ट्यां तु पुंस्येष निर्व्यथे त्वभिधेयवत् ॥ ६२ ॥
4.62 · p. 52
अनुष्टुप्
पन्नगेऽपि पठत्येनं रभसस्तद्विचार्यताम् ।अश्वत्थस्तु नृलिङ्गं स्याद् वृक्षे पिप्पलसंज्ञके ॥ ६३ ॥
4.63 · p. 52
अनुष्टुप्
अश्विनीसंज्ञनक्षत्रे स्यान्मुहूर्तान्तरेऽपि च ।पौर्णमास्यां त्वाश्वयुज्यामश्वत्था स्यात् स्त्रियामियम् ॥ ६४ ॥
4.64 · p. 52
अनुष्टुप्
अशोकः पुंसि कङ्केलिसंज्ञवृक्षे स्त्रियां पुनः ।अशोका कटुरोहिण्यां वीतशोके तु भेद्यवत् ॥ ६५ ॥
4.65 · p. 52
अनुष्टुप्
पथ्याविडङ्गयोः स्त्री स्यादमोघा सफले त्रिषु ।अर्शोघ्नः सूरणे पुंसि तक्रे तु स्यान्नपुंसकम् ॥ ६६ ॥
4.66 · p. 52
अनुष्टुप्
अर्शोघ्नी मुसलीसंज्ञस्तम्बे स्त्री भेद्यवत् पुनः ।अर्शसो घातकेऽथ स्यादयोगः पुंसि कीर्तितः ॥ ६७ ॥
4.67 · p. 52
अनुष्टुप्
वियोगे विधुरे तु त्रिर्योगहीनेऽपि लोहगे ।अन्तिका तु स्त्रियां चुल्ल्यां समीपे भेद्यलिङ्गिका ॥ ६८ ॥
4.68 · p. 52
अनुष्टुप्
अण्डजस्तु द्वयोर्मत्स्ये कृकलासपतत्त्रिणोः ।स्त्री त्वण्डजा स्यात् कस्तूर्यामण्डजाते पुनस्त्रिषु ॥ ६९ ॥
4.69 · p. 52
अनुष्टुप्
अब्धिजा तु स्त्रियां लक्ष्म्यां भेद्यवत् तु समुद्रजे ।अञ्जनः पुंसि वरुणदिग्गजेऽथाञ्जना स्त्रियाम् ॥ ७० ॥
4.70 · p. 52
अनुष्टुप्
हालाहलाख्यजन्तौ स्याद् जनन्यां च हनूमतः ।लेप्यनार्यां तु रभस ईदन्तामाह चाञ्जनीम् ॥ ७१ ॥
4.71 · p. 52
अनुष्टुप्
क्ली त्वनक्तिक्रियायां स्यान्नेत्रसंस्कारवस्तुनि ।रसाञ्जने च रभसो विशेषादिदमब्रवीत् ॥ ७२ ॥
4.72 · p. 53
अनुष्टुप्
नप्स्त्रियोस्त्वञ्जयत्यर्थे त्रिषु त्वञ्जनसाधने ।अम्बुजं पङ्कजे क्लीबं पुंस्यपि स्माह वाक्पतिः ॥ ७३ ॥
4.73 · p. 53
अनुष्टुप्
अनाप्तत्वादनादृत्य तन्ना निचुलशङ्खयोः ।अम्बुजा तु स्त्रियां लक्ष्म्यामिति केचित् त्रिषु त्वदः ॥ ७४ ॥
4.74 · p. 53
अनुष्टुप्
जलजाते नपि त्वेष सङ्ख्याभेदे च सेदृशी ।कोटेरारभ्यः याः सङ्ख्याः क्रमाद्दशगुणोत्तराः ॥ ७५ ॥
4.75 · p. 53
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भ्यः (wrong syllable)
सप्तमी तासु या सङ्ख्या सा ज्ञेयाथाङ्गजः स्मरे ।केशे च ना द्वे तु पुत्रे क्ली तु रोगेऽपि शोणिते ॥ ७६ ॥
4.76 · p. 53
अनुष्टुप्
त्रिस्त्वङ्गजातेऽथाबद्धस्त्रिर्निरर्थकवाचि च ।अनन्यबन्धेऽबन्धे तु क्लीबेऽथ स्यात् स्त्रियामियम् ॥ ७७ ॥
4.77 · p. 53
अनुष्टुप्
अपर्णा गिरिजायां स्यात् पर्णहीने तु भेद्यवत् ।असनो ना पीतसालसंज्ञवृक्षे नपि त्वदः ॥ ७८ ॥
4.78 · p. 53
अनुष्टुप्
क्षेपणे गतिदीप्त्योश्च स्यादादानेऽप्यथार्जकः ।सिते कठिञ्जरे पुंसि स्याहार्जयितरि त्रिषु ॥ ७९ ॥
4.79 · p. 53
अनुष्टुप्
अरूढस्तु यवे पुंसि त्रिषु त्वकृतरोहणे ।रूढादन्यत्र चास्थानं पुनस्त्रिषु जलाश्रये ॥ ८० ॥
4.80 · p. 53
अनुष्टुप्
अगाधे स्थानहीने च क्ली तु स्थानात् परत्र च ।अङ्गुलोऽस्त्री तिर्यगष्टयवमाने पुमांस्तु सः ॥ ८१ ॥
4.81 · p. 53
अनुष्टुप्
पक्षिलखामिसंज्ञर्षावङ्गुष्ठेऽश्वत्थपादपे ।हर्षनन्दी तु पर्यायमङ्गुलेरिममामनत् ॥ ८२ ॥
4.82 · p. 53
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ल (wrong syllable)
अङ्गारस्तु पुमान् भौमे स्यादुष्णगुण एव च ।त्रिस्तु तद्वति निर्वाणज्वाले त्वग्नौ नृशण्डयोः ॥ ८३ ॥
4.83 · p. 54
अनुष्टुप्
निर्वाणाग्नाविन्धने च स्यात् त्वपानं गुदेऽपि च ।वृषणे च पुमांस्तु स्याच्छारीरपवनान्तरे ॥ ८४ ॥
4.84 · p. 54
अनुष्टुप्
आरण्यके सामभेदेऽप्यथ स्यादक्षयो नरि ।विष्णोरकारवाच्यस्य गृहादौ च त्रिषु त्वयम् ॥ ८५ ॥
4.85 · p. 54
अनुष्टुप्
क्षयहीनेऽष्टका तु स्त्री मार्गशीर्ष्यां परत्र या ।तामिस्राष्टमिकास्तिस्रस्तासु तासु च कर्म यत् ॥ ८६ ॥
4.86 · p. 54
अनुष्टुप्
पितॄनुद्दिश्य कर्तव्यं तत्र च क्ली तु सूत्रके ।अष्टावयवके त्रिस्तु तस्याध्येतरि यस्य च ॥ ८७ ॥
4.87 · p. 54
अनुष्टुप्
सङ्घस्यावयवा अष्टौ तस्मिन्नध्ययनस्य च ।यस्याष्टावृत्तयस्तस्मिन्नष्टमी तु स्त्रियामियम् ॥ ८८ ॥
4.88 · p. 54
अनुष्टुप्
तिथौ रुद्रस्याष्टमः स्यादष्टानां पूरणे त्रिषु ।अम्बकं नयने क्लीबं पार्वत्यां त्वम्बिका स्त्रियाम् ॥ ८९ ॥
4.89 · p. 54
अनुष्टुप्
जनन्यामपि शब्दज्ञः पुनर्ब्रूते धनञ्जयः ।स्त्रीमात्रे चाप्यथागाधमतलस्पर्शवारिणि ॥ ९० ॥
4.90 · p. 54
अनुष्टुप्
त्रिः क्ली तु विवरेऽहार्यः पुनर्ना धरणीधरे ।अहर्तव्ये पुनस्त्रिः स्यादभ्यासो गुणने पुमान् ॥ ९१ ॥
4.91 · p. 54
अनुष्टुप्
द्विरुक्तधातुपूर्वार्धेऽप्यभीतस्त्रिस्तु निर्भये ।अम्लानस्तु पुमान् पुष्पस्तम्बे यस्य महासहा ॥ ९२ ॥
4.92 · p. 54
अनुष्टुप्
इति संज्ञान्तरं तस्य पुनः पुष्पे नपुंसकम् ।त्रिस्त्वम्लानवति त्रिस्तु स्यादभीकश्च निर्भये ॥ ९३ ॥
4.93 · p. 54
अनुष्टुप्
कमितर्यपि ना तु स्यादृषिभेदे च सामगे ।रभसस्तु कवौ चाह पुंस्येवैनं बहुश्रुतः ॥ ९४ ॥
4.94 · p. 55
अनुष्टुप्
अजिनं चर्मणि क्लीबं जिनहीने तु भेद्यवत् ।अजपस्त्वसदध्येतर्ययं ना निर्जपे त्रिषु ॥ ९५ ॥
4.95 · p. 55
अनुष्टुप्
अजस्य पातर्यपि च क्लीबं त्वर्दितमामये ।वातजे हिंसने गत्यां याचने च त्रिषु त्वदः ॥ ९६ ॥
4.96 · p. 55
अनुष्टुप्
गते हते याचिते च स्यादथो अर्बुदोऽस्त्रियाम् ।मासकीलाह्वये रोगभेदेऽन्ये त्वाहुरक्षिजे ॥ ९७ ॥
4.97 · p. 55
अनुष्टुप्
रुग्भेद इति शण्डस्तु सङ्ख्यायां कोटिनामनि ।ना तु सर्पान्तरे सर्पसत्रयाजिफणाभृताम् ॥ ९८ ॥
4.98 · p. 55
अनुष्टुप्
एकस्मिन्नपरे त्वेनं शैलभेदेऽपि चामनन् ।अविषस्तु पुमानब्धौ गिरौ स्त्रीपुंसयोः पुनः ॥ ९९ ॥
4.99 · p. 55
अनुष्टुप्
दिवि स्त्री त्वविषी भूमौ निर्विषे त्वभिधेयवत् ।तत्रापि स्यात् स्त्रियां वृत्तिर्यदा स्यादविषा तदा ॥ १०० ॥
4.100 · p. 55
अनुष्टुप्
अरुषस्तु पुमान् सूर्येऽरोषे वर्णेऽपरे पुनः ।रूपवत्याहुरश्वे तु द्वयोरुषसि तु स्त्रियाम् ॥ १०१ ॥
4.101 · p. 55
अनुष्टुप्
अरुषीत्यपुषस्त्वग्नौ नासारोगे पुनस्त्रिषु ।अर्पिषं बालवत्सायां दुग्धे स्यादग्रमांसके ॥ १०२ ॥
4.102 · p. 55
अनुष्टुप्
क्लीबमन्ये पुनः प्राहुर्हस्तिनि द्वे अथो नपि ।लाजेष्वभ्योषमाहान्यः साज्याम्भःपेयसक्तुषु ॥ १०३ ॥
4.103 · p. 55
अनुष्टुप्
पुमांसमङ्गषस्तु द्वे पक्षिजातौ च हस्तिनि ।धनञ्जयस्त्विमं प्राह पुमांसं हस्तवाचकम् ॥ १०४ ॥
4.104 · p. 55
अनुष्टुप्
अगस्त्यस्तु पुमान् कुम्भसम्भवे स्यान्महामुनौ ।अगस्तिसंज्ञवृक्षे च क्लीत्वस्य फलपुष्पयोः ॥ १०५ ॥
4.105 · p. 56
अनुष्टुप्
अजन्यं क्लीबमुत्पाते जन्यहीने तु तत् त्रिषु ।अरालो यक्षधूपाख्यनिर्यासे पुंसि कीर्तितः ॥ १०६ ॥
4.106 · p. 56
अनुष्टुप्
नटानां हस्तविन्यासभेदे भुग्ने तु भेद्यवत् ।अतिप्रमाणकाये तु गजभेदे द्वयोरयम् ॥ १०७ ॥
4.107 · p. 56
अनुष्टुप्
अलातमुल्मुके (क्लीब)मनात्ते त्वभिधेयवत् ।अङ्गदं नपि केयूरे वालिपुत्रे तु पुंस्ययम् ॥ १०८ ॥
4.108 · p. 56
अनुष्टुप्metre not read in every line
रभसो वामनाख्यस्य दिग्गजस्याह योषिति ।अर्दनं तु गतौ क्लीबं याचने चापरे पुनः ॥ १०९ ॥
4.109 · p. 56
अनुष्टुप्
अर्दना याचने स्त्रीत्वे हिंसायां त्वर्दना न ना ।अपटी स्त्री काण्डपटे पटहीने तु भेद्यवत् ॥ ११० ॥
4.110 · p. 56
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
तत्रापि च स्त्रियां वृत्तिर्यदा स्यादपटा तदा ।अवटस्तु पुमान् गर्ते कूपे मानान्तरेऽपि च ॥ १११ ॥
4.111 · p. 56
अनुष्टुप्
चतुर्विंशत्यङ्गुलके वटहीने तु स त्रिषु ।अगमस्तु गिरौ वृक्षे गतिहीने तु भेद्यवत् ॥ ११२ ॥
4.112 · p. 56
अनुष्टुप्
अनृतं तु कृषौ क्लीबमसत्ये(तु च) त्रिषु त्वदः ।असत्ययुक्तेऽप्यनृतेऽप्यपुंस्त्वे त्वनृता स्त्रियाम् ॥ ११३ ॥
4.113 · p. 56
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
असुरस्तु पुमान् मेघे वास्तुदेवान्तरेऽपि च ।कोष्ठपङ्क्तौ पश्चिमायां षष्ठे दक्षिणतः स्थिते ॥ ११४ ॥
4.114 · p. 56
अनुष्टुप्
द्वे तु दैत्ये गजे च क्ली पुनः कांस्याख्यलोहके ।असितस्तु पुमान् ज्ञेय इक्ष्वाकुकुलजे नृपे ॥ ११५ ॥
4.115 · p. 56
अनुष्टुप्
शनैश्वरे च वर्णे च कृष्णे तद्वति तु त्रिषु ।अबद्धे चाप्यथासाध्यजिह्वारोगान्तरेऽलसः ॥ ११६ ॥
4.116 · p. 57
अनुष्टुप्
पादरोगविशेषे च स्यादुष्ट्रस्य ज्वरेऽपि च ।आलस्यवति तु त्रि स्यादलसा तु स्त्रियामियम् ॥ ११७ ॥
4.117 · p. 57
अनुष्टुप्
हंसपाद्यामथाध्वर्यावविनः पुंसि पावके ।तथाविधाने गुप्तावप्युदकेऽपि नपुंसकम् ॥ ११८ ॥
4.118 · p. 57
अनुष्टुप्
द्वयोस्तु विहगे भासे मृगे चाथाकृतं नपि ।यवव्रीह्यादिसतुषहविष्यजनिते त्रिषु ॥ ११९ ॥
4.119 · p. 57
अनुष्टुप्