शव
śavaपुंक्ली · m. n.In 18 kośas: 19 synonym verses, 3 as a nānārtha head word, 13 as a meaning of another word.
इन्द्रियायतनमङ्गविग्रहौ क्षेत्रगात्रतनुभूघनास्तनूः ।मूर्तिमत्करणकायमूर्तयो वेरसंहननदेहसंचराः ॥ ५६३ ॥घनो बन्धः पुरं पिण्डो वपुः पुद्गलवर्ष्मणी ।कलेवरं शरीरेऽस्मिन्नजीवे कुणपं शवः ॥ ५६४ ॥मृतकं रुण्डकबन्धौ त्वपशीर्षे क्रियायुजि ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
genderपुंmasc.
genderपुंक्लीm. n.
परासुरुपसम्पन्नः प्रमीतः संस्थितो मृतः ।प्रेतः परेतश्च तथा कुणपः शवमुच्यते ॥ ६२९ ॥
अनुष्टुप्
genderक्लीneut.
स्त्रियां स्यादुपकार्याथ कुणपः क्षितिवर्द्धनः ।पञ्चावस्थः कटस्थालं शवोऽस्त्री प्रग्रहोऽपि च ॥ ३८४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
इरा जडं जीवनीयं चलोदे संवरं कुशम् ।शिवं शवं शरं क्लीबे वा स्त्रियां स्यादुडूरुडुः ॥ १४ ॥
अनुष्टुप्
genderक्लीneut.
गाण्डीवगाण्डिवोल्वानां पार्श्वत्रिदिवयोरपि ।भावारावपारशवशरावाणां शवस्य च ॥ १८७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 व (wrong syllable)
genderपुंक्लीm. n.
रुण्डः शरीरं विशिरस्तु मुक्तंन स्त्री कबन्धो यदि तत्क्रियावत् ।क्ष(श)वस्तु षण्ढे मृतकं तु पूति-विवर्धनोऽस्त्री कुणपः शवोऽस्त्री ॥ ७३ ॥
उपजातिः
genderपुंक्लीm. n.
भावारावशरावपल्लवशवक्लीवा अपूर्वं तथानिष्ठीवं च सदैवमर्थविषये स्वं सत्त्वमङ्गिन्यपि ।नल्वः स्याल्लवणे च सैन्धवमधो लोके तथा वाडवःपाशः कर्कशकोशवच्च कुलिशं चाकाश-काशाङ्कुशाः ॥ ७० ॥
शार्दूलविक्रीडितम्
genderपुंक्लीm. n.
एते शब्दाः पुंसि भवन्ति । अयं कललो गर्भाशयः । कफः श्लेष्मा । पूयः शोणितविकारः । कुल्माषः सस्यजातिः । कल्कः सर्षापादीनां चूर्णम् । कल्पः कालपरिमाणम् । गेहं गृहम् । मखो यज्ञः । लौहित्यो नदविशेषः । झर्झरो वादित्रविशेषः । पुङ्खः शरस्य । चषालो यूपाग्रम् । कटाहो लोहभाजनम् ।मत्स्यो मीनः ।शवपलकतल्पसद्मबलिशामिशनिमित्तपित्तचित्तानि ।किल्बिषवृजिनानि तथा नपुंसके पीठपापे च ॥ ५९ ॥
metre not recognised
genderक्लीneut.
रुण्डोऽशिराः कबन्धोऽस्त्री कुणपोऽरिशवोऽस्त्रियाम् ।शवयानं कटः कोटिश्चिता चित्या चिति स्त्रियाम् ॥ २०४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
शवः कुणपनामाथ कबन्धो रुण्डमित्यपि ।अपशीर्षं क्रियायुक्तं मृतकं तु विभाव्यताम् ॥ २३० ॥
अनुष्टुप्
genderपुंmasc.
काकोलकोलाहलतैलतूलंजम्बाललाङ्गूलकपालमुल्वः ।कङ्कालगाण्डीवशरावभावानिष्ठेवरावौ शवदैवपूर्वाः ॥ १६० ॥
इन्द्रवज्रा
genderपुंक्लीm. n.
विपत्तिरापद्दुःखाधिः कुणपः शवकः शवः ।प्रग्रहोपग्रहौ बन्धः कारा बन्धनमन्दिरम् ॥ २४२ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
श्मशानं स्यात् पितृवनं रुद्राक्रीडः शतानकम् ।अस्त्री शरं स्यात् कुनपः क्षितिर्वर्धन इत्यपि ॥
अनुष्टुप्
genderपुंक्लीm. n.doubtful
तनूः स्यात्तनु-तनुषी घनस्तद्वच्च भूघनः ।गात्रं गान्त्रं मूर्तिमच्च मूर्तिः स्यात्, कुणपे शवः ॥ १५३ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 त्त (wrong syllable)
genderपुंmasc.
प्रेतः परेतविगतासुमृतप्रमीत-प्राप्तान्तसंस्थितपरासुविलीननष्टाः ।एते दश त्रिषु कटः कुणपः शवोऽस्त्रीचित्या चिता चितिरथ प्रलयोऽत्ययोऽन्तः ॥ १०५६ ॥
वसन्ततिलका
genderपुंक्लीm. n.
निपातो भूमिलाभश्च मृत्युरप्यथ मारकः ।मरको मारिरुत्पाटः शवस्तु क्षितिवर्धनः ॥ ६० ॥
अनुष्टुप्
genderपुंmasc.
रुण्डोऽशिराः कबन्धोऽस्त्री कुणपस्तु शवोऽस्त्रियाम् ।शवयानं कटः खाटिश्चिता चित्या चितिः स्त्रियाम् ॥ २१६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
शव as a meaning in nānārtha verses
- धरणिकोश कटघटी वस्त्रस्यावसरे ? परीक्षा सुतुला घटः । कटः श्रोणौ कलिञ्जे च गजगण्डे शवे त्रिणे ॥ Dharaṇikośa 10.2.8
- कोषकल्पतरु कटकालक्रियाकारकपोलकेषु शवप्रकर्षद्विपगण्डकेषु । कटो भटः पामरवीरयोः स्याद् भटिस्तु भाटिः प्रगमे स्त्रियौ स्तः ॥ २ ॥ Koṣakalpataru 6.10.2
- कोषकल्पतरु कुणपअर्केऽनले स्यादुषपोऽथ मान- भेदे मुनौ ना कुटपस्तथैव । स्यान्निष्कुटेऽथो कुतपः स्त्रियां न दिनाष्टमांशे च[26b]कुशे च वाद्ये । स्यात्कम्बलेऽजस्य पुमांस्तु सूर्ये स्वसुश्च पुत्रेऽ प्युलपस्तु न स्त्री । वीरुद्गतो ना तु मृदौ तृणे स्या- च्चन्द्रे पुमान्स्यादुडुपः प्लवेऽस्त्री । विटाधिपे ना विटपोऽस्त्रियां तु स्कन्धोर्ध्वशाखासु तरोस्ततौ च । स्यात्पल्लवे चाथ निशाचरे ना स्याद्रक्तपः स्त्री नुवि( ? )पादपस्तु । स्यात्पादपीठे च तरौ च पुंसि स्त्री पादुकायां महिषे त्वनूपो ऽम्बुप्रायदेशे तु विशेष्यलिङ्गः । स्यात्पूतिगन्धे कुणपः शवेऽस्त्री न स्त्री तथावाप इहालवाले ॥ १३ ॥ Koṣakalpataru 6.22.13
- नानार्थार्णवसंक्षेप कटशवे शवरथे श्रोणिफलके कालकूटके । सज्जनस्त्वाह वलयेऽप्येष्वर्थेषु पुमानयम् ॥ १५७ ॥ Nānārthārṇavasaṃkṣepa 2.5.157
- नानार्थार्णवसंक्षेप कुणपहंसारिकायां त्वाचष्टे रभसः कुणपी स्त्रियाम् । कुणपोऽस्त्री शवे क्ली तु पूयेऽथो कुक्कुटो द्वयोः ॥ ५०१ ॥ Nānārthārṇavasaṃkṣepa 4.501
- नानार्थार्णवसंक्षेप कलेबरराजहंसेऽप्यथो पुंसि विज्ञेयः श्रेष्ठभूभुजि । कलेबरं तु क्ली काये शवे त्वन्ये स्त्रियां पुनः ॥ १३७ ॥ Nānārthārṇavasaṃkṣepa 6.137
- परमानन्दीयनाममाला कटक्रौञ्चो द्वीपे खगे शैले कक्षः शुष्कवने स्मृतः । बाहुमूले तृणे पापे कटः स्यात्समये शवे ॥ १०२ ॥ Paramānandīyanāmamālā 5.7.102
- शब्दरत्नावली कटइष्टिर्यज्ञेऽभिलाषे च संग्रहश्लोकयोः स्त्रियाम् । कटः कट्यां द्वयोर्ना तु सूक्ष्मकाष्ठे तृणे शवे ॥ Śabdaratnāvalī 7.11.3
- शब्दरत्नावली कुणपकुतपोऽस्त्री कुशे वाद्ये दौहित्रे छागकम्बले । दिवसस्याष्टमांशे च भवेद्दिनकरे पुमान् ॥ कुणपः पूतिगन्धौ स्याच्छवे स्त्री शारिकादिषे । जिह्वापः कुक्कुरे व्याघ्रे मार्जारे भल्लुकेऽपि च ॥ प्रतापः पुंसि तापे स्याच् शौर्ये तीक्ष्णांशुतेजसि । रक्तपा स्त्री जलोकायां डाकिन्यां राक्षसे पुमान् ॥ विटपोऽस्त्री वृक्षशाखाविस्तारे पल्लवेषु च ॥ Śabdaratnāvalī 7.21.18
- शब्दरत्नाकर कटकरिगण्डे शवे श्रोण्यां कलिञ्जे च भृशे कटः । मेघाश्मनि बलौ हस्ते करिहस्ते घृणौ करः ॥ १८८१ ॥ Śabdaratnākara 4.1.1881
- तन्त्राभिधान जजः शवो वानरः शूली भोगदा विजया स्थिरा । ललदेवो जयो जेता धातकी सुमुखी विभुः ॥ ७९ ॥ Tantrābhidhāna 2.25.79
- त्रिकाण्डशेष कुणपगुणवृक्षेऽपि कूपो विट्सार्य्यां स्त्री कुणपः शवे । जिह्वापः शुनि मार्ज्जारे त्रपुसीसकरङ्गयोः ॥ २७६ ॥ Trikāṇḍaśeṣa 3.3.276
- वैजयन्ती कटकर्पूः स्त्री तुषकोष्ठे कुल्यायां ना च ना करीषाग्नौ । श्रोण्यां भृशे किलिंजे गजगण्डे शवरथे शवे च कटः ॥ १८ ॥ Vaijayantī 6.5.18