कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पतंग

pataṃgaपुं · masc.

In 6 kośas: 13 synonym verses, 4 as a nānārtha head word, 1 as a meaning of another word.

कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.28 · p. 29
सूर्यः स्यादरुणः सहस्रकिरणो भास्वान्विवस्वान्रविर्-भातुर्भानु-दिवाकरौ दिनमणिः प्रद्योतनो भास्करः ।आदित्यः सविताऽर्यमा यमपिता पीतुः पतंगः खगःपारुः पेरुरिनो हरिश्च तपनोऽर्क्कस्तापनः स्वर्मणिः ॥ २८ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.63 · p. 195
खगो विहंगो विहगो विहंगमःपतन्पतंगः पतगः पतंगमः ।पत्री पतत्री पतसो वि-पत्रिणौपित्सन्गरुत्मान्नभसंगमो द्विजः ॥ ६३ ॥
upajati 12
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.86 · p. 16
मार्तण्डोऽहर्पतिर्भानुः पतंगश्चक्रबान्धवः ।अर्यमा तपनः सूरो भास्वान्खरकरोऽपि च ॥ ८६ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.131 · p. 68
पतंगः शलभो द्योतिरिङ्गणश्च निगद्यते ।खद्योतोऽथ स्मृता क्षुद्रा सरघा मधुमक्षिका ॥ १३१ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.112 · p. 15
ग्रहः पतंगः स्वर्भानुराशी(शि?)रश्च प्रजापतिः ।ग्रहराजश्चित्रभानुर्गरीरङ्कुश्च पुष्पवान् ॥ ११२ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.61 · p. 7
अर्कः सूरः खगः पूषा पतंगो भास्करो भगः ।तपनस्तरणिर्मित्रश्चित्रभानुस्त्रयीतनुः ॥ ६१ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ग्रहाध्यायः Śabdaratnākara 1.4.161 · p. 22
भानुः सूर्यः पतंगस्तरणिरहिमगुर्भास्करो भानुमालीब्रध्नो हंसो विवस्वान् रविरयुगहयोऽहर्पतिः कर्मसाक्षी ।दीप्तांशुः सप्तसप्तिर्दिवसकर इनस्तिग्मभाश्चित्रभानुःसूरः पूषाब्जबन्धुर्ग्रहपतिररुणो द्वादशात्मार्यमार्कः ॥ १६१ ॥
स्रग्धरा
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शकुन्ताध्यायः Śabdaratnākara 2.5.787 · p. 100
पतत्रयः पतंगाश्च पित्सन्तश्च विहायसः ।शुक्लापाङ्गः शिखी केकी नीलकण्ठः शिखावलः ॥ ७८७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शकुन्ताध्यायः Śabdaratnākara 2.5.820 · p. 104
पतंगः शलभः क्षुद्रा सरघा मधुमक्षिका ।हालाहलस्त्वञ्जलिका पुत्तिका तु पतंगिका ॥ ८२० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1415 · p. 171
बालकः कृष्णशालिः स्यात् प्रवरः शालिषष्टिकः ।कलमसुगन्धिकहायनपारावतगौरलोहितपतंगाः ॥ १४१५ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश खगाध्यायः Vaijayantī 2.3.1 · p. 26
पक्षी पत्ररथः पत्री पित्सन् पिपतिषन् पतन् ।पतंगः पतगः प्लावी पतत्र्यंगुपतत्रयः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश खगाध्यायः Vaijayantī 2.3.43 · p. 29
इन्दिन्दिरो मधुकरश्चञ्चरीको मधुव्रतः ।शित्पुटः षट्पदश्चाथ पतंगः शलभः समौ ॥ ४३ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश सरीसृपाध्यायः Vaijayantī 4.1.40 · p. 151
सरीसृपास्तु सर्पाद्या दन्दशूकास्तु दंशकाः ।शलभाद्याः पतंगाः स्युर्यादांसि जलजन्तवः ॥ ४० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ गान्ताः Koṣakalpataru 6.3.19 · p. 167
कामे त्वनङ्गः खहृदोस्तु षण्ढेशालौ पतंगः शलभे खगेऽर्के ।स्यात्पारदेऽन्त्येऽथ वरण्डकेऽपिनरङ्ग ऊर्मौ चरमे शफे स्यात् ॥ १९ ॥
उपजातिः
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पकारादयः Paramānandīyanāmamālā 5.19.303 · p. 200
पट्टः चतुष्पथे पीठे व्रणस्यापि निबन्धने ।पतंगः शलभे सूर्ये पतंगं पारदे स्मृतम् ॥ ३०३ ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2118 · p. 256
पतंगः शलभे शालौ खगे कमलबान्धवे ।पुष्परेणौ च रेणौ च परागः परिघोऽर्गले ॥ २११८ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 7.1.40 · p. 242
प्रतिज्ञायन्त्रणाज्ञासु नियमो निश्चये व्रते ।पतंगः शलभे शालौ मार्जारेऽग्नौ रवौ खगे ॥ ४० ॥
अनुष्टुप्

पतंग as a meaning in nānārtha verses

  • कोषकल्पतरु कपोतभवेत्परेतो नरि भूतभेदे मृतेऽन्यवत्स्यादथ झल्लकण्ठे । पुमान्कपोतः कविकापतंगे । षण्ढे तु तन्मज्जननीचपक्त्योः ॥ ९ ॥ Koṣakalpataru 6.16.9