पियाल
piyālaपुं · masc.In 12 kośas: 8 synonym verses, 1 as a nānārtha head word, 11 as a meaning of another word.
genderपुंmasc.
genderपुंmasc.
प्रियालः स्यात् पियालोऽपि गुग्गुलुर्गुर्गुलो भवेत् ।कादम्बः स्यात् कदम्बोऽपि वृक्षे स्यात् पिचुलः पिचुः ॥ १०५ ॥
अनुष्टुप्
genderपुंmasc.
भक्ष्यबीजः स्नेहबीजो वनद्रुस्तापसप्रियः ।धनुःपटः पियालश्च पटोऽपि च धनुर्द्धनू ॥ ७० ॥
अनुष्टुप्
genderपुंmasc.
किंपाकस्तु महाकालो मधुष्ठीलो मधूलकः ।पियालस्तु प्रियालः स्यात्तथा राजादानोऽपि सः ॥ ५४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 दा (wrong syllable)
genderपुंmasc.
राजादनः पियालश्च प्रियालश्च धनुः पटः ॥ २०२१ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
स्यात् पियालं पियालश्च सन्नकद्रूः द्रुमन्नकः ॥
genderपुंक्लीm. n.
उलूखलं च खलकं कुम्भोलूखलकं तथा ।चारे प्रियालः पियालो राजादन-राजातनौ ॥ १६१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 रा (wrong syllable)
genderपुंmasc.
पियालस्तु पुमाज्ञेयः सन्नकद्रुरिति श्रुते ।राजादनाख्यवृक्षे स्याद् क्ली तु तत्प्रसवेऽथ सा ॥ ११६४ ॥
अनुष्टुप्
पियाल as a meaning in nānārtha verses
- धरणिकोश मुनिमुनिर्यन्ताङ्गुदी बुद्धः पियालागस्तिकिंशुके । जिनो [बुद्धेऽति ?] वृद्धे च जिनः [55] स्यादर्हतीत्यपि ॥ Dharaṇikośa 19.2.2
- धरणिकोश वृक्षादनवृक्षादनः कुठारः स्यात्पियालाख्यो द्रुमो[64]ऽपि सः । वृक्षादनी स्मृता वन्दा विदारीगन्धिका च सा ॥ Dharaṇikośa 19.3.29
- कोषकल्पतरु पटकुटी द्वयोर्मन्दिरमद्यकुम्भ- दासीषु गुच्छे[270a]ऽथ पटः पियालौ । पुरस्कृतौ चैलवरे लटस्तु प्रमादवाग्दूषणयोर्निरुक्तः ॥ ४ ॥ Koṣakalpataru 6.10.4
- कोषकल्पतरु धनुस्धनुः पियाले नरि राशिभेदे- शरासनेऽसावपि शस्त्रमात्रे । धनुर्धरे तु त्रितये तनुस्तु त्वक्काययोः स्त्री विरले कृशेऽल्पे ॥ १ ॥ Koṣakalpataru 6.21.1
- कोषकल्पतरु राजादनराजादनः पियाले स्त्री न पलाशेऽथ षण्ढे स्यात् । क्रौञ्चादनं मृणालेऽथ समुल्लेखे तथोद्धृतौ * * ॥ १४ ॥ Koṣakalpataru 6.21.14
- शिवकोष मुनिधाना वितुन्नके भृष्टयवाद्यन्ने च सक्तुषु । मुनिः पियालदमनागस्त्यकोरककिंशुके ॥ २४४ ॥ Śivakoṣa 16.244
- शिवकोष ललनअथ रोदनी त्रिदण्डीगुञ्जानन्तानिकुम्भासु । ललना लतात्मगुप्तासर्जे योषित् पियाले ना ॥ २६७ ॥ Śivakoṣa 16.1.267
- शिवकोष नृपनृपं तगरशम्पाकपियालक्षीरिकासु च । नृपो भिङ्गारके पार्थे राजादनतरावपि ॥ २८९ ॥ Śivakoṣa 17.1.289
- शिवकोष वरपुण्ड्रं प्रपौण्ड्ररीके स्यात्पुण्ड्रो व्रीहीक्षुभेदयोः । अतिमुक्ते पुण्डरीके वरस्तिन्दुपियालयोः ॥ ३८२ ॥ Śivakoṣa 22.2.382
- शिवकोष राजवृक्षराजवृक्षस्तु शम्पाके पियाले क्षत्रिये प्लवे । Śivakoṣa 26.3.5
- शब्दरत्नावली धनुस्तेजः क्लीबं पराक्रान्तिप्रभाववीर्यदीप्तिषु । धनुः पियाले राशौ ना चापेऽस्त्री धन्वनि त्रिषु ॥ Śabdaratnāvalī 7.32.24