All kośas › Śivakoṣa
शिवकोष Śivakoṣa
587 verses · 4,629 words tagged · 786 marked doubtful (dashed)
षान्ताः · षच
अलम्बुषश्छर्दता स्त्री मुण्डीर्यां च खरत्वचि ।ऋषभाक्षी द्रवारुण्यामृषभाक्षस्तु मुस्तके ॥ ५२१ ॥
26.3.521 · p. 48
अनुष्टुप्
कालमेषी समङ्गायां वाकुच्यां त्रिवृताभिदि ।देववृक्षः पुरे पर्णे मन्दारादौ स्त्रुवोद्रुमे ॥ ५२२ ॥
26.3.522 · p. 48
अनुष्टुप्
नन्दीवृक्षस्तु काश्मर्यां कुबेरे च प्ररोहिणि ।पलङ्कषा रसामुण्डीलाक्षास्वथ पुरे क्षुरे ॥ ५२३ ॥
26.3.523 · p. 48
अनुष्टुप्
किंशुके च पुमान् वीरवृक्षो भल्लातकेऽर्जुने ।भूतवृक्षस्तु शाखोटे श्योनाके च विभीतके ॥ ५२४ ॥
26.3.524 · p. 48
अनुष्टुप्