मधूलक
madhūlakaपुं · masc.In 12 kośas: 14 synonym verses, 2 as a nānārtha head word, 1 as a meaning of another word.
genderपुंmasc.
वञ्जुलश्चित्रकृच्चाथ द्वौ पीतनकपीतनौ ।आम्रातके मधूके तु गुडपुष्पमधुद्रुमौ ॥ २७ ॥वानप्रस्थमधुष्ठीलौ जलजेऽत्र मधूलकः ।
अनुष्टुप्
genderपुंmasc.
गुल्यस्तु मधुरो मिष्टः स्वादुज्येष्ठो मधूलकः ।व्याप्नुवल्लिम्पतीवास्यं सचेक्ष्वादावथाम्लकः ॥ ३१४ ॥
अनुष्टुप्
genderपुंmasc.
गुडपुष्पो रोध्रपुष्पो वनप्रस्थश्च माधवः ।मधुपुष्पस्तु मङ्गल्यो जलजाते मधूलकः ॥ ९० ॥
अनुष्टुप्
genderपुंmasc.
सोऽम्भोजो दीर्घपत्रः स्याद्ध्रस्वपुष्पफलस्तथा ।गौरवृक्षस्तीरवृक्षो गिरिकाख्यो मधूलकः ॥ ७७ ॥
अनुष्टुप्
genderपुंmasc.
किंपाकस्तु महाकालो मधुष्ठीलो मधूलकः ।पियालस्तु प्रियालः स्यात्तथा राजादानोऽपि सः ॥ ५४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 दा (wrong syllable)
genderपुंmasc.
गुल्यस्वादू च मधुरो रसज्येष्ठो मधूलकः ।अम्लो दन्तशठः प्रोक्तः पाचनोऽपि निरीक्ष्यते ॥ २८१ ॥
अनुष्टुप्
genderपुंmasc.
मधुरो मधुलः स्वादुः गुलयो मधूलकस्तथा ॥ २५२२ ॥
अनुष्टुप्metre not read in every line
genderविadj.
स्यान्मधूके तु जलजे गिरिजेऽपि मधूलकः ।पीलुर्गुट्टफलः स्रंसी पीलूः पीलुकोऽपि च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
पारिभद्रे तु मन्दारुर्मन्दारो मन्दरोऽपि च ।मधुद्रुमे मधूकः स्ताद् मधुकश्च मधूलकः ॥ १५९ ॥
अनुष्टुप्
genderपुंmasc.
वानप्रस्थो मधुष्ठीलो जलजेऽत्र मधूलकः ।गायत्री खदिरः शल्यः कुम्भाण्डो दन्तधावनः ॥ ४६६ ॥
अनुष्टुप्
genderपुंmasc.
गुडपुष्पोऽप्यद्रिजेऽस्मिन् गौरशाको मधूलकः ।पारिभद्रस्य भेदे च मन्दारः पारिजातकः ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
कृष्णरक्तसितः शारः क्रिमिरः सितलोहितः ।मधुरस्तु रसज्येष्टो गुली स्वादुर्भधूलकः ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.doubtful
सगरी नटने कृत्या त्वभिचारजदैवते ।मद्ये मधूलकं चेति क्वाप्यथाकर्मधारये ॥ ३३ ॥
अनुष्टुप्
genderस्त्रीक्लीf. n.
मधूलक as a meaning in nānārtha verses
- शिवकोष दीर्घपत्रतुण्डिकेरी पिचौ बिम्ब्यामपि तोयधरः पुमान् । सुनिषण्णे च मुस्तायां दीर्घपत्रो मधूलके ॥ ४२६ ॥ Śivakoṣa 22.4.426