मेथि
methiपुं · masc.In 7 kośas: 10 synonym verses.
genderपुंmasc.
खलमध्यगते कीले मेढिर्मेथिरुभे स्त्रियौ ।अथ स्याद्द्विविधं धान्यं शूकशिम्बिसमुद्भवम् ॥ १७ ॥
अनुष्टुप्
genderस्त्रीfem.
विघसस्य वृत्तिकुटिवितस्तीनां कुटेरपि ।ऊमीशमीमेथिमेधिमसीनां पाटलेरपि ॥ १२२ ॥
metre not recognisednearly अनुष्टुप्
genderपुंस्त्रीm. f.
उकारश्च निकारश्च द्वौ धान्य[127b]क्षेपणार्थकौ ।खलेवाली स्त्रियां द्वंद्वे मेथिर्मेधिरुभे मते ।खले गोबन्धकाष्ठेऽथ धान्यादिक्षेपणार्थके ॥ २७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
आदि ना किरणे समुद्भेपतितगवाद्युद्धरणयष्टौ च ।ईतिश्च गर्मुन्निरये तु दुर्गति-र्हस्तस्तु भे मेथितिथी रथस्तथा ।तथाजमोदोपि च कन्दुरीरितोनेमौ प्रधिः स्यादिषुधिर्विधोपि च ॥ २५ ॥
upajati 12metre not read in every line
genderपुंस्त्रीm. f.
मेधिर्मेथिः खले काष्ठं पशुबन्धाय निर्मितम् ।वल्मीको वामलूरश्च नाकुः कृमिगिरिस्तथा ॥ २५४ ॥
अनुष्टुप्
genderस्त्रीfem.
लव्यवीची शलिर्यष्टिमुष्टी शाल्मलिपाटली ।जाटलिर्मेथिमेधी च श्रोण्यरण्यौ सृणिर्मणिः ॥ ११४ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
काष्ठस्य मुद्गरो नाम कथ्यते लोष्ठभेदके ।मेथिर्मेधिः खलेवाली खलशङ्कुर्निगद्यते ॥ १५०४ ॥
अनुष्टुप्
genderपुंmasc.
कोटिशः खलवाल्यां तु मेधिर्मेथिश्च शूद्रके ।पद्य-पज्जौ क्षत्र-वैश्याजातौ माहेष्यवन्मतः ॥ ३३४ ॥
अनुष्टुप्
genderपुंmasc.
न स्त्री मेथिः खले पाली खलधानं पुनः खलः ।व्रीहिर्वरेणुको वीज्यो धान्यं सस्यं लवेटिका ॥ ३१ ॥
अनुष्टुप्
genderपुंक्लीm. n.