कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

गर्मुत्

garmutस्त्री · fem.

In 7 kośas: 7 synonym verses, 5 as a nānārtha head word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.165
नडादयस्तृणं गर्मुच्छ्यामाकप्रमुखा अपि ॥ १६५ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.20 · p. 186
तृणमस्त्री द्वयोगर्मुन्नीवारादि नडादि च ।विकारे गर्मुदादीनां गार्मुतं मौञ्जमन्यवत् ।तृणं तु न स्त्री पर्पं च यवसं चार्जुनं च तत् ॥ २० ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीपुंसलिङ्गाधिकारः Koṣakalpataru 4.4.25 · p. 110
आदि ना किरणे समुद्भेपतितगवाद्युद्धरणयष्टौ च ।ईतिश्च गर्मुन्निरये तु दुर्गति-र्हस्तस्तु भे मेथितिथी रथस्तथा ।तथाजमोदोपि च कन्दुरीरितोनेमौ प्रधिः स्यादिषुधिर्विधोपि च ॥ २५ ॥
upajati 12metre not read in every line
genderपुंस्त्रीm. f.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंलिङ्गसंग्रहः Paramānandīyanāmamālā 6.1.29 · p. 214
हाहाहूहूर्नग्नहूर्गर्मुदंह्रीपादश्मानौ ------ यक्ष्मतुल्याः ।पञ्चाहाद्या ये समाहारगम्याःपुंलिङ्गे स्यात्स्थेमशब्देऽपि नन्तः ॥ २९ ॥
शालिनीmetre not read in every line
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.308 · p. 80
मृणालं नलदं सेव्यं लाज-नामज्जकाभयम् ।तृणं नलादयो गर्मुच्छ्यामाककोद्रवादयः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.670 · p. 85
ऊर्ध्वमूलोलपौ चास्मिन् जूर्णा कृकणपत्रिका ।नडादिकं तृणं गर्मुछ्यामाकप्रमुखा अपि ॥ ६७० ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.59 · p. 127
स्त्री काककंगुश्चीनः स्यात्तृणकोलोऽप्युदारकः ।गर्मुत्पुनर्गर्मुटिका घुलुंछस्तु गवीधुका ॥ ५९ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ तान्ताः Koṣakalpataru 6.16.25 · p. 222
गर्मुत्स्वर्णलतार्थकोऽपि मिथुने भूभृन्नृपेऽद्रौ मतः ।पित्सन्पक्षिणि नान्यवत्तु पतनेच्छौ कुत्सिते त्वन्यवत् ।कुर्वत्कर्मकरेऽथ पुंसि तिल[296a]के श्रीमान्मनोज्ञेऽन्यव-ल्लक्ष्मीवत्यपि चार्वती तु हयिकायां कुम्भदास्यामपि ॥ २५ ॥
शार्दूलविक्रीडितम्metre not read in every line
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.341 · p. 72
गर्मुत् तु गरुडे सूर्ये तेजस्यपि पुमानथ ।द्वयोः स्यान्मक्षिकाभेदे पक्षिमात्रेऽप्यथ स्त्रियाम् ॥ ३४१ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.342 · p. 72
तृणधान्यविशेषेऽथ काञ्चने स्यान्नृशण्डयोः ।ग्राहोऽवहारसंज्ञे द्वे यादोभेदे पुमांस्तु सः ॥ ३४२ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश तान्ताः Śabdaratnāvalī 7.16.100 · p. 220
गर्म्मुत् धमनहेम्नोः स्त्री गीष्पतिर्गुरुसूरिणोः ।गोपतिर्नृपतौ सूर्ये षण्डे स्मरहरे पुमान् ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 6.1.18 · p. 215
कुंभो गजशिरोऽन्तेऽपि पक्ष्यर्केष्वनिलाः खगाः ।खरुः पुंस्मररुद्रेषु गर्मुद्रुक्मे खगे रवौ ॥ १८ ॥
अनुष्टुप्