कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पद्य

padyaपुं · masc.

In 15 kośas: 13 synonym verses, 5 as a nānārtha head word, 20 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.748 · p. 36
शूद्रान्त्यवर्णौ वृषलः पद्यः पज्जो जघन्यजः ॥ ८९४ ॥ते तु मूर्धाभिषिक्ताद्यारथकृन्मिश्रजातयः ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.586 · p. 66
शूद्रोऽन्त्यवर्णो वृषलः पद्यः पज्जश्च कथ्यते ।लेखकः स्याल्लिपिकरः कायस्थोऽक्षरजीवकः ॥ ५८६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.12 · p. 66
तद्दृश्यमभिनेयं यच्छ्रव्यं तु श्रवणार्थकम् ।वृत्तबन्धः पद्यमन्त्ये श्लोकः पुंस्यत्र[43a] सम्मतः ॥ १२ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शूद्रवर्गः Koṣakalpataru 2.4.1 · p. 295
शूद्रो जघन्यजः पज्जो वृषलोऽवरवर्णकौ(कः) ।पद्योऽन्त्यवर्णोऽप्युक्तोऽथ ग्रामकूटो महत्तरः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नपुंसकाधिकारः Koṣakalpataru 4.3.6 · p. 107
चित्यं चैत्यं माल्यं गद्यं पद्यं कवेः काव्ये ।क्षेत्रं सत्रं शिबिरं स्फारमगारं कलत्रमभ्रं च ॥ ६ ॥
उद्गीतिः
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.25 · p. 2
अर्णःशब्दोऽक्षरं वर्णः श्लोकः पद्यं सुभाषितम् ।मसीधेनुर्मषीपात्रं लेखनी वर्णतूलिका ॥ २५ ॥
अनुष्टुप्
genderक्लीneut.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण शूद्रप्रकरणम् Śabdacandrikā 5.4.41 · p. 45
शूद्रोऽन्त्यवर्णो वृषलो द्विजपोतो जघन्यजः ।पज्जः पद्यश्च पज्जातः पादजो जन्तुसूदनः ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1505 · p. 239
अन्त्यवर्णस्तथा शूद्रः पद्यः पञ्जो जघन्यजः ।वृषलश्चेति नामानि शूद्रस्य संभवन्ति वै ॥ १५०५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्य (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.334 · p. 216
कोटिशः खलवाल्यां तु मेधिर्मेथिश्च शूद्रके ।पद्य-पज्जौ क्षत्र-वैश्याजातौ माहेष्यवन्मतः ॥ ३३४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शकुन्ताध्यायः Śabdaratnākara 2.5.813 · p. 103
चकोरो वरकः शारी पद्यो वातीकतित्तिरी ।रक्तवर्त्मक इन्द्राह्वो वराटश्चेति विष्किराः ॥ ८१३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शूद्राध्यायः Śabdaratnākara 3.5.1509 · p. 183
शूद्रोऽन्त्यवर्णो वृषलः पज्जः पद्यो जघन्यजः ।चण्डालवर्जिता एते शूद्राः संकरजा अपि ॥ १५०९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश देशाध्यायः Vaijayantī 3.1.47 · p. 38
स्यान्नदीमातृको देशो नद्यम्बूत्पाद्यसस्यकः ।पद्यः पदांकयोग्यः स्यात्विप्वेते पंकिलादयः ॥ ४७ ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.1 · p. 136
शूद्रोऽन्त्यवर्णो वृषलो द्विजपोतो जघन्यजः ।पज्जः पद्योऽप्येकजातिः शूद्राः संकरजा अपि ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास यपादः Dharaṇikośa 25.1.6 · p. 148
भृत्यो दासे भूतिर्भृत्या पुष्यः कलियुगर्क्षयोः ।पद्यं श्लोके सृतिः पद्या लभ्यं लब्धव्ययुक्तयोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भू (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ यान्ताः Koṣakalpataru 6.26.27 · p. 290
श्लोके तु पद्यं पथि योषिति स्यात्पुमांस्तु शूद्रे पदवेधके तु ।दृश्यं पदं यत्र च तत्र भेद्येबन्ध्यस्तु पूज्ये हठतोधृतेऽपि ॥ २७ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.713 · p. 104
छन्दःसु नप्यथो पद्या स्त्री मार्गे वृषले द्वयोः ।क्ली पादबद्धग्रन्थे स्यात् त्रिः पद्यं पदसाधुनि ॥ ७१३ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.714 · p. 104
पदाङ्कयोग्यदेशे च यच्चाकरणकं स्वयम् ।पादस्य वेधकं तत्र शर्करादावयो नपि ॥ ७१४ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश यान्ताः Śabdaratnāvalī 7.26.18 · p. 258
भेषजे द्रुविकारे च भव्ये भाविनि वाच्यवत् ।दस्युश्चौरे रिपौ पुंसि महासाहसिकेऽपि च ॥दायः सोल्लुण्ठभाषायां भक्तव्यपितृवस्तुति ।दाने च हरणे स्थाने खण्डनेऽपि च कुत्रचित् ॥दिव्यं लवङ्गे स्त्रीधात्र्यां चारौ दिविभवे त्रिषु ।दूष्यं वस्त्रगृहे क्लीबं दूषणीये तु वाच्यवत् ॥दूत्यं दूतस्वभावे च भावे कर्मणि न द्वयोः ।दैत्योऽसुरे स्त्रियां गन्धकूट्यां चण्डौषधावपि ॥धन्याधात्र्यामामलक्यां धन्यं पुत्रवति त्रिषु ।धान्यं त व्रीहिधन्याकनीवारादिषु द द्वयो ॥धिष्ट्यं स्थाने गृहे शक्तावृक्षे च न द्वयोः ।नाट्यं तौर्यत्रिके लास्ये ताण्डवेऽपि च न द्वयोः ।नित्यन्तु सतते क्लीबं शाश्वते त्रिषु कीर्त्यते ॥पथ्या स्त्रियां हरीतक्यां हिते पथभवे त्रिषु ।पद्यं श्लोके तु शूद्रे ना स्त्रियां पद्या तु वर्त्मनि ॥पाक्यं विड्लवणे क्लीबं यवक्षारे भवेत्पुमान् ॥
अनुष्टुप्metre not read in every line

पद्य as a meaning in nānārtha verses