कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

योग

yogaपुं · masc.

In 14 kośas: 12 synonym verses, 13 as a nānārtha head word, 50 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवाधिदेवकाण्डः Abhidhānacintāmaṇi 1.24 · p. 6
मोक्षोपायो योगो ज्ञानश्रद्धानचरणात्मकः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 यो (wrong syllable)
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.144 · p. 84
सौगतः शून्यवादी स्याद्वादिकोऽद्वयवाद्यपि ।अर्हतोप्याक्षपादः स्याद्योगो नैयायिकोऽपि च ॥ १४४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.173 · p. 87
एवं योगो यमाद्यङ्गैरष्टभिः सम्मतोऽष्टधा ।एषामभ्यासतो योगी भिक्षुः सांन्यासिको यतिः ॥ १७३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.100 · p. 428
प्रौढिः प्रगल्भतायोग उद्योगश्च समावुभौ ।उत्साह उद्यमोऽस्त्री स्यादध्यवसाय इत्यपि ॥ १०० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ परमात्मवर्गः Koṣakalpataru 1.1.34 · p. 4
मुमुक्षुः स्यान्मोक्षकामोऽपवृक्तस्तु स मुक्तिभाक् ।वैरङ्गिको विरागार्हो योगो मोक्षस्य साधनम् ।ब्रह्मभूयं ब्रह्मभावो ब्रह्मसायुज्यमित्यपि ॥ ३४ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कालवर्गः Koṣakalpataru 1.4.74 · p. 48
युग्मास्ताः पक्षरन्ध्रः स्याद्द्वितीयां दशमीं विना ।स्युर्विष्कंभादयो [31a] योगास्तिथ्यर्द्धं करणं भवेत् ॥ ७४ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.90 · p. 240
मोक्षोपायो भवेद्योगो नियमो व्रतमस्त्रियाम् ।पुण्यकं चाथ न स्त्री स्यादौपवस्त्रमुपोषणम् ॥ ९० ॥
अनुष्टुप्
genderपुंmasc.
ऊर्मिश्च ध्वनिश्च अञ्जलिश्च ऊर्म्मिध्वन्यञ्जलयः । एते शब्दाः पुंसि भवन्ति । अयमूर्म्मिस्तरङ्गः । अयं ध्वनिः शब्दः ।अयमञ्जलिः करपुटः । ओष्ठकपोलगुल्फसञ्ज्ञाश्च । सञ्ज्ञाशब्दः प्रत्येकमभिसम्बध्यते । ओष्ठश्च कपोलश्च गुल्फश्च ओष्ठकपोलगुल्फाः । एतेषां सञ्ज्ञाः पर्यायास्ते पुंसि भवन्ति । अयमोष्ठः अधरः दन्तच्छदः । अयं कपोलः गण्ड इत्येवमादयः । अयं गुल्फः पादग्रन्थिः घुठः घूंठ इत्येवमादयः । घञ्च एरच्च ऋदोरप्च । "पदरुजवेगस्पृशो घञि"त्येवमादिना प्रकरणे घञो विहित इति । "येन विधिस्तदन्तस्ये"ति घञ्प्रत्ययान्ताः शब्दाः पुंसि भवन्ति । तद्यथा । पादः रोगः वेगः स्पर्शः पाकः त्यागः योगः प्रसादः भेदः छेदः दाहः दोषः प्रकारविकार इत्येवमादयः । "एरजि"ति । एरजीवर्णान्तादच्प्रत्ययः स्यात् । अयं जयः नयः । तथा "ऋदोरप्" । ऋवर्णान्तादुवर्णान्ताच्च धातोरप्प्रत्ययः स्यात् । तत्र ऋवर्णान्तात् । अयं करः वरः भरः शरः नरः । इत्येवमादयः । उवर्णान्तात् । अयं प्लवः पवः भवः इत्येवमादयः । घञन्तादन्धकारशब्दस्यापि नित्यं पुंस्त्वं स्यादित्याह । बहुलमन्धकारश्च । अन्धकारो बहुलं पुंलिङ्गे भवति । विभाषा भवतीत्यर्थः । इदं अन्धकारम् । अयं अन्धकारः । तथा चोक्तम् । "नेहागमोऽस्ति शलभस्य न मारुतस्य स्नेहक्षयोऽपि न भवेत्प्रथमे प्रदोषे । अव्यक्तवस्तुपुरुषप्रतिबोधितेन पारावतेन पतता कृतमन्धकारम् ।"प्राण्यङ्गमिदन्तं वस्तिकुक्षिपाणीन्विमुच्य सर्वं स्त्री ।जङ्घा शिरा स्नुषा नासिका चूडा वसा चैव ॥ १७ ॥
वसन्ततिलकाmetre not read in every line
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.554 · p. 97
सिन्धूरं नागरं नागो नागसंभवमित्यपि ।सीसे तु नागं वप्रं च योगं सीसकमित्यपि ॥ ५५४ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवाधिदेवविभागः Suśīlanāmamālā 2.62 · p. 10
समाधिश्च तदेवार्थमात्राभासनरूपकम् ।एवं योगोऽष्टधा प्रोक्तः यमाद्यङ्गाष्टकेन च ॥ ६२ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चित्ताध्यायः Śabdaratnākara 1.9.274 · p. 37
ऊहोऽपोहोऽर्थविज्ञानं तत्त्वज्ञानमिति क्रमात् ।स योगो यस्तु संयोगो जीवात्मपरमात्मनोः ॥ २७४ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.208 · p. 100
ब्रह्मलोकः सत्यलोकस्तत्र पुर्यपराजिता ।योगस्त्वाध्यात्मिकोऽथासावष्टांगोंऽगैर्यमादिभिः ॥ २०८ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.22
योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु ॥ २२ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास गश्लोकः Dharaṇikośa 3.3.5 · p. 25
योगः स्यात्सदुपायसंनहनयोर्भैषज्यसंयोगयो-र्विष्कम्भादिषु योग आत्ममनसोः संनीलतायामपि ।संबन्धेऽपि च कार्मणेऽपि च तथा ध्याने च लाभेऽप्यसौयोगः सद्भिरुदीरितोऽथ वपुषः स्थैर्ये प्रयोगेऽपि च ॥
शार्दूलविक्रीडितम्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ गान्ताः Koṣakalpataru 6.3.97 · p. 164
पण्याङ्गनानां रतमूल्यके चयोगस्त्वलब्धाप्तिभिषग्जितेषु ।उपायसंनाहकसंगमेषुज्ञाने च युक्तावपि कार्मणे च ॥ ९७ ॥
उपजातिः
कोषकल्पतरु Koṣakalpataru · विश्वनाथ गान्ताः Koṣakalpataru 6.3.93 · p. 164
विष्कम्भकादौ वपुषः स्थिरत्वेरोगस्तु कुष्ठौषध आमये च ।वेगो महाकालफले प्रवाहेप्लवे च पूगः क्रमुके च वृन्दे ।चङ्गस्तु दक्षे रुचिरेऽन्यलिङ्गो-ऽथेङ्गोऽद्भुतज्ञानस[263a]मिङ्गितेषु ।स्याज्जङ्गमे चाथ कृपाणभेद-जङ्घाखनित्रेष्वपि टङ्गमस्त्री ॥ ९३ ॥
उपजातिःtwo metres in one verse
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुल्लिँङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.2.100 · p. 29
रागद्रव्ये च योगस्तु ध्यानयोजनकर्मणि ।भेषजे सङ्गतौ प्राप्तौ जवे विस्रब्धघातिनि ॥ १०० ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुल्लिँङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.2.101 · p. 29
केचित् सन्नहनोपाय इत्येकार्थं प्रचक्षते ।अन्ये सन्नहनेऽप्याहुरुपाये चेति केचन ॥ १०१ ॥
अनुष्टुप्
doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास यकारादयः Paramānandīyanāmamālā 5.21.340 · p. 204
युगं रथाङ्गे युग्मे च कृतादौ विवसान्तरे ।योगोऽलब्धस्य लाभे स्यात्कार्मणे संगतावपि ॥ ३४० ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश गान्ताः Śabdaratnāvalī 7.3.19 · p. 192
बृद्धिनामौषधेऽपि स्याद् युग्मे हस्तचतुष्टये ।योगोऽपूर्वार्थसंप्राप्तौ विष्कम्भादिषु भेषजे ।देहस्थैर्यप्रयोगे च सङ्गतिध्यानयुक्तिषु ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश गान्ताः Śabdaratnāvalī 7.3.20 · p. 192
वस्तूपायसन्नहने विश्रब्धघातकेऽपि च ॥
doubtful
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1983 · p. 241
यतिर्यतिनि पुंसि स्यात् कारसंयमयोः स्त्रियाम् ।ध्यानसंनहनोपाययुक्तिविस्रब्धघातिषु ॥ १९८३ ॥
अनुष्टुप्
doubtful
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1984 · p. 241
प्राप्तौ च संगतौ योगो यासो दुःस्पर्शयत्नयोः ।गमने वर्तने यात्रा यानमश्वादिके गतौ ॥ १९८४ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.67 · p. 114
योगश्चारेऽपूर्वलाभे सूत्रे विश्रब्धघातिनि ।उपाये सङ्गतौ ध्यानौषधसन्नाहयुक्तिषु ॥ ६७ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 6.1.48 · p. 218
ययुरश्वेऽश्वमेधाश्वे योगो विस्रब्धघातिनि ।प्राप्तौ सन्नहनोपायध्यानसंगतियुक्तिषु ॥ ४८ ॥
अनुष्टुप्

योग as a meaning in nānārtha verses

  • धरणिकोश हर्षणमत्कुणोऽश्मश्रुपुरुष उद्दंशादन्तदन्तिनोः । हर्षणोऽक्षिरुजां भेदे हर्षणौ [योग?]हर्षकौ ॥ Dharaṇikośa 14.2.8
  • धरणिकोश व्यतीपातसमाघातो वधे युद्धे परिघातोऽस्त्रघातयोः । पुरस्कृतेऽर्चितान्यूने व्यतीपातोऽक्षययोगयोः ॥ Dharaṇikośa 15.1.29
  • धरणिकोश धृतियतिः श्लोकपदच्छेदे यतिः कारे ? यतिर्यती । धृतिधैर्ये च योगे च धारणे च सुखेऽपि च ॥ Dharaṇikośa 15.2.13
  • धरणिकोश सिद्धशुद्धं शुक्रे च पूते च केवले च प्रयुज्यते । सिद्धो योगे समुत्पन्ने सिद्धाः स्युर्देवयोनयः ॥ Dharaṇikośa 18.2.7
  • धरणिकोश वृद्धिश्राद्धं श्रद्धान्विते श्राद्धं हव्यकव्यविधौ स्मृतम् । वृद्धिः स्याद्वर्धने ऋद्धौ वृद्धिर्योगकुरुण्टयोः ॥ Dharaṇikośa 18.2.10
  • धरणिकोश ब्रह्मन्ब्रह्म तत्त्वं तु ब्रह्मा च ब्रह्माणौ विप्रवेधसौ । वेदेऽपि च स्मृतं ब्रह्म ब्रह्मा योगो रवीन्दुजः ॥ Dharaṇikośa 19.3.7
  • धरणिकोश शुभशुभो योगे शुभं क्षेमे डिम्भः शिशौ च बालिशे । शम्भुरर्हच्छिवो ब्रह्मा स्तम्भः स्थूणाजडत्वयोः ॥ Dharaṇikośa 23.1.2
  • धरणिकोश विष्कम्भविष्कम्भं स्यात्परिष्टम्भे योगे च चन्द्रसूर्ययोः । विष्टम्भः प्रतिबन्धे स्याद्विस्तारे च प्रकीर्तितः ॥ Dharaṇikośa 23.2.3
  • धरणिकोश साध्यसौम्यः सोमसुते मुग्धेऽभास्वरे सोमदैवते । साध्यो योगे साधनीये साध्याः स्युर्दशदेवताः ॥ Dharaṇikośa 25.2.2
  • धरणिकोश इन्द्रइन्द्रः शक्रे च योगे च कुटजादित्यरात्रिषु । वक्रः शनैश्चरो ज्ञेयो वक्रमनृजुदुष्टयोः ॥ Dharaṇikośa 26.2.14
  • धरणिकोश शुक्लशुक्लौ योगावदातौ स्तः स्थूलौ निष्प्रज्ञपीवरौ । भल्लो भाल्लुकबाणौ स्त ओल्ल आर्द्रे च सूरणे ॥ Dharaṇikośa 27.1.1
  • धरणिकोश शूलशूलं प्रहरणे योगे शूलो व्याधिसुतीक्ष्णयोः । शूलौ मृत्युध्वजौ चायःकीलः शूलास्तु दारिकाः ॥ Dharaṇikośa 27.3.11
  • धरणिकोश उपप्लवपराभवौ नाशावज्ञे परिप्लवौ चपलाकुलौ । उपप्लवौ राहुयोगौ जीवंजीवौ द्रुपक्षिणौ ॥ Dharaṇikośa 28.1.6
  • धरणिकोश वरीयस्साधीयानतिबाढः ? स्यात्साधीयानतिशोभनः । वरीयानतिविस्तीर्णो हेति ? सत्तमयोगयोः ॥ Dharaṇikośa 31.2.17
  • कोषकल्पतरु युनक्तिसंय[204b]मे स्याद्योजयति योजत्यपि च पर्चति । तथा पर्च्चयति प्रोक्तमथ योगे युनक्ति च ॥ २१ ॥ Koṣakalpataru 3.5.21
  • कोषकल्पतरु शोभननाभिस्थवायौ तु समानमस्त्री समैकसत्सु प्रथितं त्रिलिङ्गम् । योगे तु ना सुन्दरवाचि भेद्ये स्याच्छो[13b]भनं शासनमस्ति शास्तेः ॥ Koṣakalpataru 6.21.43
  • कोषकल्पतरु योजनन्यासे लिपेर्वाद्यगतं च तद्व- त्स्याद्योजनं क्रोशचतुष्टयेऽपि । योगे परात्मन्यथ गर्जनं स्या- त्कोपे च हस्त्यम्बुदवाद्यशब्दे ॥ ५९ ॥ Koṣakalpataru 6.21.59
  • कोषकल्पतरु सुकर्मन्उपासनं सेवनहिंसयोश्च निर्वासनं त्वत्र विहिंसने स्यात् । बहिष्कृतौ स्याच्च पुरादितोऽथ योगेऽद्य शिल्पिन्युदितः सुकर्मा ॥ २९ ॥ Koṣakalpataru 6.21.29
  • कोषकल्पतरु शुभयोगे शुभं स्यात्कुशले तु षण्ढे व्याजे निभोऽस्त्री सदृशेऽन्यवच्च । दम्भस्तु कल्के नरि कैतवे च डिम्भोऽर्भके बालिशके तथैव ॥ ३९ ॥ Koṣakalpataru 6.24.39
  • कोषकल्पतरु विष्कम्भविश्रम्भः प्रणये च केलिकलहे विश्वासहिंसार्थयो- र्विष्कम्भः प्रतिपन्नविस्तृतिगतः स्यान्नाटकाङ्कादिगे । योगे योगसमाधिबन्धभिदि वाथास्त्री च वीणाङ्गके पार्थद्रौ ककुभोऽथ दर्पवधयोरुद्योगसंभ्रान्तिषु ॥ ५१ ॥ Koṣakalpataru 6.24.51
  • कोषकल्पतरु साध्यमेध्यं शुचौ मेदुर आश्रमे च साध्यो नरि स्याद्गणदैवते च । योगेऽन्यवत्साधयितुं तथार्हे- ऽथाघ्न्यः प्रजापत्यबलार्थको ना ॥ २४ ॥ Koṣakalpataru 6.26.24
  • कोषकल्पतरु शूलशूलं च न स्त्री मतमायुधार्त्यो- र्योगे च मृत्यावपि केतने च । स्त्रियां तु पण्यप्रमदार्थके स्या- त्कीले तथा दुष्टवधार्थकेऽपि ॥ ७० ॥ Koṣakalpataru 6.28.70
  • कोषकल्पतरु शुक्लस्थूलं तु कूटे [त्रिषु] पीव्नि मूर्खे थाम्लो[67a]ऽम्लवत्पुंसि रसान्तरे स्यात् । चाङ्गेरिकायां पुनरीरिता स्त्री शुक्लस्तु योगे धवले पुमान्स्यात् ॥ ७१ ॥ Koṣakalpataru 6.28.71
  • कोषकल्पतरु ध्रुवनवः स्तवे ना तरुणेऽन्यवत्स्याद्- ध्रुवः शिवे भान्तरयोगयोश्च । मुनौ वसौ स्याद्वटशङ्कुकीले स्त्री शालिपर्ण्यां स्रुचि गीतिभेदे ॥ ९३ ॥ Koṣakalpataru 6.29.93
  • कोषकल्पतरु आहवस्यादाहवः संगरयोगवाची स्याद्राघवो दाशरथौ च मत्स्ये । स्यात्ताण्डवोऽस्त्री तृणभेदनृत्ये- ऽथो संभवो जन्मनि मेलके च ॥ २६ ॥ Koṣakalpataru 6.29.26
  • कोषकल्पतरु वरीयस्योगे वरीयानतियूनि वर्षे श्रेष्ठेऽथ दीर्घायुरशीतरश्मौ । काके तथा शाल्मलिपादपे च भवेच्चिरंजीविनि वाच्यलिङ्गः ॥ २९ ॥ Koṣakalpataru 6.31.29
  • नानार्थार्णवसंक्षेप यज्ञअजयस्त्वाह तन्द्रायामपि यज्ञस्तु केशवे । अग्नावात्मनि योगे च यक्ष्मस्तु व्याधिमात्रके ॥ ९७ ॥ Nānārthārṇavasaṃkṣepa 2.2.97
  • नानार्थार्णवसंक्षेप गण्डज्योतिःशास्त्रेषु ये योगाः सप्तविंशतिरीरिताः । विष्कम्भः प्रीतिरित्याद्यास्तेषामन्यतमेऽप्यसौ ॥ ३२८ ॥ Nānārthārṇavasaṃkṣepa 2.5.328
  • नानार्थार्णवसंक्षेप वाणीचिमत्तयोषिति नर्तक्यां विदग्धायां च कीर्तिता । वाणीचिस्तु स्मृता योगे छायायामपि वाचि च ॥ ८४ ॥ Nānārthārṇavasaṃkṣepa 3.1.84
  • परमानन्दीयनाममाला गण्डकपोले गण्डके गण्डश्चिह्ने योगे खनावथ । गोपस्तु वल्लवे भूपे ग्रामयुक्ते मुनीश्वरे ॥ १५२ ॥ Paramānandīyanāmamālā 5.9.152
  • परमानन्दीयनाममाला शिवशिवं भद्रे सुखे नीरे शिवो जम्बुकरुद्रयोः । गुग्गुले कीलके योगे शिवा कात्यायिनी स्मृता ॥ ३५५ ॥ Paramānandīyanāmamālā 5.25.355
  • परमानन्दीयनाममाला शुभशरुः कोपे शरे वज्रे शद्रिः कृष्णे तडित्वति । शम्भुर्बह्मणि रुद्रे च शुभो योगे शुभं सुखे ॥ ३५७ ॥ Paramānandīyanāmamālā 5.25.357
  • शब्दरत्नावली आप्तिआर्त्तिः स्त्री पीडने गत्यां धनुष्कोप्याञ्च याचने । आप्तिर्योगे च संप्राप्तौ इतः स्मृते गते त्रिषु । ईतिः स्यादतिदृष्ट्यादिषट्सु डिम्बप्रवासयोः ॥ Śabdaratnāvalī 7.16.3
  • शब्दरत्नावली प्रीतिप्राप्तिः स्त्री प्रायणे लाभे सङ्गतौ च महोदये । प्रीतिः प्रेम्णि च योगे स्यात्प्रीतं हर्षणनर्मयोः ॥ Śabdaratnāvalī 7.16.24
  • शब्दरत्नावली युक्तियुक्तिर्न्याये च योगे च यन्ता स्यान्मठसूतयोः ॥ Śabdaratnāvalī 7.16.43
  • शब्दरत्नावली आयुष्मत्आयुष्मान् पुंसि योगे स्याच्चिरजीविनि वाच्यवत् । अथोपचितमृद्धेऽन्यलिङ्गं दिग्धे नपुंसकम् ॥ उज्जृम्भितन्तु चेष्टायां क्लीबमुत्फुल्लके त्रिषु । उपरक्तो हि दुःखार्ते राहुग्रस्तेन्दुसूर्ययोः ॥ उपाकृतो यज्ञहतपशौ च स्यादुपद्रुते ॥ Śabdaratnāvalī 7.16.158
  • शब्दरत्नावली विदथब्राह्मीगुडूचीपश्यासु स्त्रियां स्यात्तरुणे त्रिषु । वमथुर्वमने पुंसि स्यात्कुम्भिकरशीकरे ॥ विदिथः पण्डिते योगे शमथुः शान्तिमन्त्रिणोः । षड्ग्रन्थो ना करञ्जे स्याद्वचायामपि च स्त्रियाम् ॥ समर्थः शक्तहितयोः सम्बन्धे चान्यलिङ्गकः । सिद्धार्थः शाक्यसिंहे च सार्थके श्वेतसर्षपे ॥ Śabdaratnāvalī 7.17.14
  • शब्दरत्नावली वृद्धिवृद्धः प्रवृद्धे जीर्णे ज्ञे त्रिषु क्लीबञ्च शैलजे । वृद्धिर्योगे वर्द्धने स्यादष्टवर्गौषधिभिदि ॥ Śabdaratnāvalī 7.19.14
  • शब्दरत्नावली सिद्धिसिन्धुर्नावन्तिदेशाब्धिनदेषु सरिति स्त्रियाम् । सिद्धिः स्त्री पादुका ऋद्धियोगनिष्पत्तिवृद्धिषु ॥ Śabdaratnāvalī 7.19.20
  • शब्दरत्नावली कृतिन्कृती योगे पण्डिते स्यात्साधौ पुण्यरतेऽपि च ॥ Śabdaratnāvalī 7.20.48
  • शब्दरत्नावली शुभदम्भः स्यात्कैतवे कल्के साटोपाहङ्कृतावपि । दृन्भूश्चवज्रचक्राहिमुख्यभूतिषु च स्त्रियाम् ॥ नाभिर्ना चक्रमध्ये च क्षत्रिये मुख्यभूपतौ । द्वयोः प्राण्यङ्गमध्ये तु स्त्रियां कस्तूरिकामदे ॥ निभो व्याजे तु पुंलिङ्गः प्रकाशे सदृशे त्रिषु । रम्भः कपौ च वंशे ना कदल्यप्सरसोः स्त्रियाम् ॥ विभुर्वृद्धे प्रभौ राज्ञि ब्रह्मशङ्करयोः पुमान् । शम्भुर्महेश्वरे सिद्धे सुगते परमेष्ठिने ॥ शुभं क्षेमे शुभोयोगे शुभा कान्तीच्छयोः स्त्रियाम् । सभाद्यूते मन्दिरे च गोष्ट्यां सामाजिके स्त्रियाम् ॥ स्वभूर्विष्णौ विधौ पुंसि स्तम्भः स्थूनाजडत्वयोः । Śabdaratnāvalī 7.24.7
  • शब्दरत्नावली यकारयकारो वायुयशसोर्योगे याने च यातरि । ज्या मातरि क्षितौ मौर्व्यां द्यु क्लीबं गगणे दिने ॥ Śabdaratnāvalī 7.26.1
  • शब्दरत्नावली शूलशूलमस्त्रे गदे शस्त्रे मृत्यौ योगे निकेतने । शूला पण्यस्त्रियां स्त्री तु शैलः पर्वततार्क्ष्ययोः ॥ Śabdaratnāvalī 7.28.37
  • शब्दरत्नावली ध्रुवद्यौः स्त्रियां स्वर्गनभसोर्दिवञ्चापि नपुंसकम् । ध्रुवो धूर्ते वृक्षभेदे पतिमानुषयोरपि । ध्रुवः शङ्कौ हरे विष्णौ भर्भदे वटयोगयोः ॥ Śabdaratnāvalī 7.29.12
  • शब्दरत्नावली शिवशिवः स्वरे हरे योगे कीलके ग्रहवालयोः । मोक्षगुग्गुलयोः पुंसि शिवं भद्रसुखाप्सु च ॥ Śabdaratnāvalī 7.29.21
  • त्रिकाण्डशेष गण्डखण्डोऽस्त्री शकले नेक्षुविकारमणिदोषयोः । गण्डः कपोले पिटके श्रेष्ठे गण्डकयोगयोः ॥ ११२ ॥ Trikāṇḍaśeṣa 3.3.112
  • त्रिकाण्डशेष तीर्थधनं च ग्रन्थना चाऽपि तीर्थं तूपाययोगयोः । कट्यंशवणयोः प्रोथो वीथिः पङ्क्तौ गृहांशके ॥ १९७ ॥ Trikāṇḍaśeṣa 3.3.197
  • त्रिकाण्डशेष योजनयापनं स्यान्निरसने कालक्षेपे च वर्तने । चतुःक्रोश्यां च योगे च योजनं स्यात्तु वाहने ॥ २५४ ॥ Trikāṇḍaśeṣa 3.3.254
  • त्रिकाण्डशेष शिवअश्वौघे वाडवं न स्त्री पाताले ना द्विजौर्वयोः । वडवाऽश्वाकुम्भदास्योर्योगे कील हरे शिवः ॥ ४२३ ॥ Trikāṇḍaśeṣa 3.3.423
  • वैजयन्ती द्रव्यनवनीतेऽनले धर्मे दानं हस्तिमदेऽपि च । द्रव्यं गुणानामाधारे भेषजे योगवित्तयोः ॥ १५ ॥ Vaijayantī 6.3.15