प्रयत
prayataवि · adj.In 8 kośas: 8 synonym verses, 2 as a nānārtha head word, 3 as a meaning of another word.
genderपुंmasc.
आम्नायः सम्प्रदायः स्यात्पारम्पर्यं गुरुक्रमः ।प्रयतः स्यादनुच्छिष्टः संशितश्च सुनिश्चितः ॥ ४०२ ॥
अनुष्टुप्
genderविadj.
योगाय यौ प्रभवतस्त्रिष्विमौ योग्य-यौगिकौ ।पवितः प्रयतः पूतः पवित्रः पावनः शुचिः ।मेध्यः पुण्योऽथ वाल्मीकि - वाल्मीक - कुशिनः कविः ॥ ४ ॥
अनुष्टुप्
genderविadj.
उपाध्यायोऽध्यापनकृत् पाठकोऽध्यापको गुरुः ।शिष्यः छात्रः पार्श्ववासी पवित्रः प्रयतः शुचिः ॥ २७ ॥
अनुष्टुप्
genderविadj.
पवित्रः प्रयतः पूतः शुचिः शुद्धः पवित्रिनः ।पाषण्डः कौलिकः सर्वलिङ्गी पाषण्डिकोऽपि च ॥
अनुष्टुप्
genderविadj.
पूतं मेध्यं पवित्रं स्याद् वीध्र प्रयतनिर्मलम् ।निःशोध्यं शोधितं मृष्टं निर्णिक्तमनवस्करम् ॥
अनुष्टुप्
genderविadj.
कुट्टाकरछेदकश्छेत्ता शरारुर्हिंस्रघातुकौ ।पूतः पवित्रः प्रयतः पुण्यो मेध्यश्च शुद्धवत् ॥ १६५८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderविadj.
तत्तु स्यादासेचनकं न तृप्तिर्यस्य दर्शनात् ।पवित्रं प्रयतं पूतं मेध्यं शुद्धं शुचीति च ॥ ६५ ॥
अनुष्टुप्
genderविadj.
प्रयत as a meaning in nānārtha verses
- शब्दरत्नावली उल्लाघउल्लाघः प्रयते कृष्णे नीरोगदक्षयोस्त्रिषु । निदाघः स्वेदसलिले ग्रीष्मकाले तयोष्मनि ॥ पलिघः कलशे काचघटगोपुरसद्मसु । परिघोऽर्मलघाताऽस्त्रयोगभेदेषु कीर्तितः ॥ प्रतिघः प्रतिघातेऽपि क्रोधमूर्छनयोरपि ॥ Śabdaratnāvalī 7.4.8
- शब्दरत्नावली पवनतोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः । दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥ दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् । दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥ दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च । दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥ देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः । अक्षेषु देवनः पुंसि सेवायामपि देवना ॥ ध्वजी रथे च भूदेवे भये सर्पे धराधरे । धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥ धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके । धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥ धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् । धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥ धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः । नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥ नन्दी हरद्वारपाले कन्दवाले वटद्रुमे । नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥ नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे । अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥ निदानं वत्सदामादिकारणे क्षयकारणे । निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥ पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् । स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥ प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु । एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥ पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे । प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥ प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् । पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥ पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः । स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥ पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु । पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥ Śabdaratnāvalī 7.20.57
- शब्दरत्नाकर पवित्रधने हेम्नि ब्रह्मसूत्रे मन्त्रे च प्रयते त्रिषु । आशुव्रीहौ पाटलो ना पाटली कुसुमे न ना ॥ २१३५ ॥ Śabdaratnākara 4.1.2135