कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

चोक्ष

cokṣaवि · adj.

In 10 kośas: 5 synonym verses, 7 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1436 · p. 54
पवित्रं पावनं पूतं पुण्यं मेध्यमथोज्ज्वलम् ॥ १४३५ ॥विमलं विशदं वीध्रमवदातमनाविलम् ।विशुद्धं शुचि चोक्षं तु निःशोध्यमनवस्करम् ॥ १४३६ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.101 · p. 225
वन्धूरं वन्धुरं तुल्ये पेलवं चापि शोभनम् ।रुच्यं चापि च चोक्षं स्यान्मनोज्ञं मञ्जु वञ्जुलम् ॥ १०१ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.73 · p. 19
निर्णिक्तं शोधितं धौतं स[170b]मूढं क्षालितं तथा ।मृष्टं च पावितं चोक्षं निःशोध्यमनवस्करम् ॥ ७३ ॥
अनुष्टुप्metre not read in every line
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.325 · p. 92
निर्मलं विमलं वी[51]ध्रमुज्ज्वलं विशदं शुभम् ।चोक्षं शुचि विशुद्धं चावदातं चाप्यनाविलम् ॥ ३२५ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2611 · p. 421
अवदातमनाविलं नामान्यष्टोज्ज्वलस्य वै ।निःशोध्यं त्वनवस्करं चोक्षं शोधितवस्तु च ॥ २६११ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 वि (wrong syllable); pāda 3, syllable 7 स्क (wrong syllable)
genderविadj.
धरणिकोश Dharaṇikośa · धरणिदास क्षपादः Dharaṇikośa 33.1.1 · p. 231
वीक्षं स्याद्विस्मये दृश्ये न्यक्षं कार्त्स्ननिकृ[109]ष्टयोः ।यक्षौ गुह्यकयक्षेशौ चोक्षौ तीक्ष्णमनोहरौ ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शान्ताः Koṣakalpataru 6.30.51 · p. 372
न्यक्षं तु का[र्त्स्न्ये]त्रितये निकृष्टोना पर्शुरामेऽथ शुचौ परस्मिन् ।तीक्ष्णे मनोज्ञे च पुमांस्तु गीतेचोक्षोऽथ काके च बके च भिक्षौ ॥ ५१ ॥
इन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.441 · p. 80
तद्राजे नास्य सन्ताने द्वयोर्जानपदेषु च ।गृहच्छदिःषु न स्त्री स्याच्चोक्षस्तु त्रिषु सुन्दरे ॥ ४४१ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.442 · p. 80
गीतभेदे तु नाथ स्याच्चूडाकरणकर्मणि ।चौलं क्ली त्रि तु चोलस्य विकारादावथो नपि ॥ ४४२ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश षान्ताः Śabdaratnāvalī 7.31.6 · p. 291
कर्षो मानविशेषे स्यात्कर्षणे च पुमानयम् ।कर्षूः पुंसि करीषाग्नौ स्त्रियां कुल्येष्टखातयोः ॥काक्षी सौराष्ट्रमृद्भदे स्त्रियान्तु वरिकोषधौ ।घोषमाभीरपल्ल्याञ्च ध्वनिगोपालघोषके ॥चोक्षो दक्षे मनोज्ञे च तीक्ष्णे च शुचिगीतयोः ।झषा नागवलायां स्त्री तापमीनवनेषु ना ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 द्भ (wrong syllable)
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.438 · p. 248
पापे च कलुषं घोषः शब्दाभीरनिवासयोः ।शुचौ दक्षे च चोक्षः स्यात्तर्षो लिप्सापिपासयोः ॥ ४३८ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 6.5.31 · p. 232
चेलं वासोऽक्षमं काम्यं गर्हितं बर्हिचन्द्रकः ।चुम्रो नाशे विषण्णे च चोक्षो गीतमनोज्ञयोः ॥ ३१ ॥
अनुष्टुप्