कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अवदात

avadātaवि · adj.

In 14 kośas: 16 synonym verses, 9 as a nānārtha head word, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1393 · p. 53
श्वेतः श्येतः सितः शुक्लो हरिणो विशदः शुचिः ॥ १३९२ ॥अवदातगौरशुभ्रवलक्षधवलार्जुनाः ।पाण्डुरः पाण्डरः पाण्डुरीषत्पाण्डुस्तु धूसरः ॥ १३९३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 त (wrong syllable)
genderविadj.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1436 · p. 54
पवित्रं पावनं पूतं पुण्यं मेध्यमथोज्ज्वलम् ॥ १४३५ ॥विमलं विशदं वीध्रमवदातमनाविलम् ।विशुद्धं शुचि चोक्षं तु निःशोध्यमनवस्करम् ॥ १४३६ ॥
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह धीवर्गः Amarakośa 1.5.19
शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डरः ॥ १२ ॥अवदातः सितो गौरो वलक्षो धवलोऽर्जुनः ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.732 · p. 84
गौरः श्वेतः सितः शुभ्रो वलक्षो धवलोऽर्जुनः ।हरिणः पाण्डुरः पाण्डुरवदातश्च पाण्डरः ॥ ७३२ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.161 · p. 435
वदात उज्ज्वलः श्येतः श्येनः स्याच्छुभ्रमव्ययम् ।अवदातः सितो गौरो विज्ञेयश्चार्जुनः पुनः ॥ १६१ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.26 · p. 56
रूपे चाक्षुषमब्ज इत्यनुभवेर्वर्योपि(?) वर्णो स्त्रियांश्वेतादित्रिषु तद्युतेष्वथ सितः शुक्लोऽवदातः शुचिः ।श्येनः शुभ्र-वलक्ष-शुद्ध-धवलाः श्वेतश्च गौरोऽर्जुनःस्यादस्मिन्खरु-पाण्डरौ च विशदः शौक्लं तु भावेऽन्तिमे ॥ २६ ॥
शार्दूलविक्रीडितम्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.72 · p. 19
उज्ज्वलं विमलं वीध्रं निर्माल्यं निर्मलं शुचि ।अवदातं विशुद्धं च विशदं स्यादनाविलम् ॥ ७२ ॥
अनुष्टुप्
genderविadj.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 147 · p. 71
श्वेतार्जुनो शुचिः श्येतो वलक्षं सितपाण्डुरम् ।शुक्लावदातं धवलं पाण्डुः शुभ्रं शशिप्रभम् ॥ १४७ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.287 · p. 88
वलक्षहरिणौ पाण्डुपाण्डरौ पाण्डरोऽपि च ।शुचिः श्येतावदातौ तु धूसरस्त्वल्पपाण्डुरे ॥ २८७ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.325 · p. 92
निर्मलं विमलं वी[51]ध्रमुज्ज्वलं विशदं शुभम् ।चोक्षं शुचि विशुद्धं चावदातं चाप्यनाविलम् ॥ ३२५ ॥
अनुष्टुप्
genderविadj.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.81 · p. 42
श्वेतः शुक्लः सितः शुभ्रो वलक्षो धवलः शुचिः ।गौरोऽवदातो विशदः पाण्डुः पाण्डुर उज्ज्वलः ॥ ८१ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2530 · p. 410
शुक्लः श्वेतः सितः स्येतः शुभ्रश्च विशदः शुचिः ।अवलक्षो वलक्षश्चाऽवदातो धवलस्तथा ॥ २५३० ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2611 · p. 421
अवदातमनाविलं नामान्यष्टोज्ज्वलस्य वै ।निःशोध्यं त्वनवस्करं चोक्षं शोधितवस्तु च ॥ २६११ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 वि (wrong syllable); pāda 3, syllable 7 स्क (wrong syllable)
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.338 · p. 24
शुभ्रोऽवदातो धवलो बलक्षो रजतोऽर्जुनः ।पाण्डुरित्येष पर्यायो धवले परिकीर्तितः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पुराध्यायः Śabdaratnākara 2.6.887 · p. 111
शुक्लशुचिशुभ्रधवलश्वेतवलर्क्षावदातसितहरिणाः ।पाण्डरपाण्डुरविशदश्वेतार्जुनगौरपाण्डवश्व समाः ॥ ८८७ ॥
गीतिः
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश गुणाध्यायः Vaijayantī 5.3.10 · p. 196
शुक्ले शुभ्रशुचिश्वेताः पुण्ट्रको धवलोऽर्जुनः ।अवदातः सितो गौरो विशदश्येतपाण्डराः ॥ १० ॥
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.80
अवदातः सिते पीते शुद्धे बद्धार्जुनौ सितौ ॥ ८० ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास तार्धश्लोकः Dharaṇikośa 15.2.71 · p. 78
अपावृतः स्वतन्त्रः स्यात्पिहितश्चाप्यपावृतः ।उपाकृतः समानीते यज्ञार्थं च हते पशौ ।अवदातः सिते पीते परिशुद्धप्रधानयोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ चतुरक्षरतान्ताः । Koṣakalpataru 6.17.46 · p. 225
ऋद्धेऽवसानेऽवगते गतौ चसंप्रोच्यतेऽत्रावसितं प्रवीणैः ।सिते च पीते नरि तद्युते तुत्रये विशुद्धे प्रवरेऽवदातः ॥ ४६ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.4 · p. 18
अवदातं कर्मणि स्यादितिवृत्तेऽवखण्डने ।सज्जनस्त्वप्रधानेऽथो अरविन्दं जलेऽम्बुजे ॥ ४ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.7 · p. 23
अवदातः सिते पीते प्रधाने शुद्ध एव च ।अविदूरे(ऽप्य?त्व)वष्टब्धमवलम्बित एव च ॥ ७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 रे (syllables merged)
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास अकारादयः Paramānandīyanāmamālā 5.1.41 · p. 166
अभिमानोऽथ हिंसायां प्रेम्णि गर्वे च विश्रुतः ।अवदातो विशुद्धे स्यात्स्वर्णवर्णे सिते तथा ॥ ४१ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश तान्ताः Śabdaratnāvalī 7.16.153 · p. 223
अथावसितमृद्ध स्याज्ज्ञातेऽवसानगे त्रिषु ।अर्थपतिर्धनाधीशे भवेन्नरपतौ पुमान् ॥अवदातो विशुद्धे स्यात्सिते गौरेऽन्यलिङ्गकम् ।अवगीतन्तु दृष्टे स्यान्निर्वादे गर्हितेऽपि च ॥अन्तर्गतं विस्मृते स्यान्मध्यप्राप्तेऽभिधेयवत् ।अङ्गारितं स्यात्पलाशकलिकोद्गमदग्धयोः ॥अपावृतं स्वतन्त्रे स्यात् पिहितेऽप्यभिधेयवत् ।अत्याहितं गुरुभये जीवानपेक्षिकर्मसु ॥अभिनीतः संस्कृते स्यादमर्षिन्याय्ययोस्त्रिषु ।अभिजातः पण्डिते स्यात् त्रिषु न्याय्यकुलीनयोः ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable); pāda 3, syllable 3 प (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2191 · p. 265
अभिरूपः सुरूपः स्याद्विश्रुते च विचक्षणे ।अवदातः सिते शुद्धेऽप्ययुगास्त्रौ हरिस्मरौ ।अहिशत्रुः खगाधीशे नकुले नाकनायके ॥ २१९१ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश अभिधेयवल्लिङ्गाध्यायः Vaijayantī 8.4.3 · p. 275
निश्चिते स्यादवसितं समाप्त उषितेऽपि च ।अवदातः सिते गौरे शुद्धे चाथावलंबिते ॥ ३ ॥
अनुष्टुप्

अवदात as a meaning in nānārtha verses

  • धरणिकोश रजतरजतमवदाते स्याद्रजतं हाररुप्ययोः । ज्वलितं तु दीप्तमिव स्मृतं दग्धे प्रभास्वरे ॥ Dharaṇikośa 15.2.22
  • धरणिकोश शुक्लशुक्लौ योगावदातौ स्तः स्थूलौ निष्प्रज्ञपीवरौ । भल्लो भाल्लुकबाणौ स्त ओल्ल आर्द्रे च सूरणे ॥ Dharaṇikośa 27.1.1