कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Amarakośa

नामलिङ्गानुशासनम् Amarakośa

2,373 verses · 12,470 words tagged · 1,463 marked doubtful (dashed)

प्रथमं काण्डम्

॥ श्रीः ॥

नामलिङ्गानुशासनं नाम अमरकोषः ।

प्रथमं काण्डम् ।

मङ्गलाचरणम् ।

यस्य ज्ञानदयासिन्धोरगाधस्यानघा गुणाः ।सेव्यतामक्षयो धीराः स श्रिये चामृताय च ॥ १ ॥
1.1
अनुष्टुप्

प्रस्तावना ।

चिकीर्षितप्रतिज्ञा ।

समाहृत्यान्यतन्त्राणि संक्षिप्तैः प्रतिसंस्कृतैः ।संपूर्णमुच्यते वर्गैर्नामलिङ्गानुशासनम् ॥ २ ॥
1.2
अनुष्टुप्

परिभाषा ।

प्रायशो रूपभेदेन साहचर्याच्च कुत्रचित् ।स्त्रीपुंनपुंसकं ज्ञेयं तद्विशेषविधेः क्वचित् ॥ ३ ॥
1.3
अनुष्टुप्
भेदाख्यानाय न द्वन्द्वो नैकशेषो न सङ्करः ।कृतोऽत्र भिन्नलिङ्गानामनुक्तानां क्रमादृते ॥ ४ ॥
1.4
अनुष्टुप्
त्रिलिङ्ग्यां त्रिष्विति पदं मिथुने तु द्वयोरिति ।निषिद्धलिङ्गं शेषार्थं त्वन्ताथादि न पूर्वभाक् ॥ ५ ॥
1.5
अनुष्टुप्
स्वर्गवर्गः ।
1.6