कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Amarakośa

नामलिङ्गानुशासनम् Amarakośa

2,373 verses · 12,470 words tagged · 1,463 marked doubtful (dashed)

प्रथमं काण्डम् · व्योमवर्गः

इति स्वर्गवर्गः

अथ व्योमवर्गः ।

द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम् ।नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम् ॥वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी ।विहायसोऽपि नाकोऽपि द्युरपि स्यात्तदव्ययम् ॥तारापथोऽन्तरिक्षं च मेघाध्वा च महाबिलम् ।विहायाः शकुने पुंसि गगने पुन्नपुंसकम् ॥ १ ॥
1.2.1
अनुष्टुप्