क्षत्रिय
kṣatriyaपुं · masc.In 21 kośas: 24 synonym verses, 16 as a meaning of another word.
मूर्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट् ।राजा राट्पार्थिवक्ष्माभृन्नृपभूपमहीक्षितः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
राजा राजन्यो राट् प्रजापतिः क्षत्रियो नृपः क्षत्त्रम् ।मूर्धाभिषिक्तभूपतिपार्थिवनरदेवलोकपालाः स्युः ॥ ४२१ ॥
गीतिः
genderपुंmasc.
ब्राह्मणस्त्वग्रवर्णश्च विप्रो मन्त्रमुखोऽपि च ।क्षत्रियो बाहुजो राजा भूमीशश्च निगद्यते ॥ ३२८ ॥
अनुष्टुप्
genderपुंmasc.
क्षत्रः स्यात् क्षत्रिये दूत्यं दौलं चारश्चरः समौ ।अपसर्पोऽवसर्पश्च चामरा चामरं समे ॥ २०२ ॥
अनुष्टुप्
genderपुंmasc.
मनुष्या मनुजा मर्त्या द्विपादो नहुषो नरः ।ब्रह्मक्षत्रियविट्छूद्रा इति वर्णचतुष्टये ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
वेदगर्भो मन्त्रगर्भगीर्वाणो वेदविक्रमः ।क्षत्रियो वसुधाशक्रो बाहुजो राजवंशजः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
राजन्यो बाहुपर्यायजन्मार्थः क्षत्रियो विराट् ।राड्राजा स्यादपि क्षत्रं राज्ञि भूपार्थपार्थिवौ ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
विप्र-क्षत्रिय - विट् - शूद्रास्ते त्वशूद्रा द्विजा मताः ।ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्चतुष्टये ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
[106a] क्षत्रमस्त्री क्षत्रियः स्याद्राजन्यो बाहुजो विराट् ।भार्यो द्वितीयवर्णश्च नाभिः क्षात्रं तु तस्य यत् ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
द्विपादो नहुषो गोधा व्राताः पञ्चजना नरः ।ब्रह्मक्षत्रियविट्शूद्रा इति वर्णचतुष्टये ॥ १०४ ॥
अनुष्टुप्
genderपुंmasc.
वेषजीवकृतान्ताद्यैस्तेषां भेदाः परः शतम् ।क्षत्रं बाहुजरादन्यौ भूशक्रः क्षत्रियो विराट् ॥ १५३ ॥
अनुष्टुप्
genderपुंmasc.
बाहुजः क्षत्रियः क्षत्री राजन्यो मौलिसिंचितः ।ऊरुजः पीतरुग्वैश्यो विड्वाणिज्याऽवनिस्पृशः ॥ ७६ ॥
अनुष्टुप्
genderपुंmasc.
ब्रह्मक्षत्रियविट्छूद्रा इति वर्णचतुष्टयम् ।उपवर्णास्तु सङ्कीर्णा विवर्णास्त्वन्त्यजातयः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
क्षत्रियो बाहुजो राजा भूभुजश्चक्रपालकः ॥ १६ ॥
genderपुंmasc.
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वर्णचतुष्टयम् ।ब्रह्मचारी गृही वानप्रस्थो भिक्षुरिहाश्रमाः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
क्षत्रियो बाहुजः क्षत्रं राजन्यो राजवंशजः ।राजा राट् पार्थिवः क्ष्माभृन्महीक्षिन्नृपतिर्नृपः ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
क्षत्रस्तु क्षत्रियो राजा राजन्यो बाहुसंभवः ॥ १४४३ ॥
अनुष्टुप्
genderपुंmasc.
कुलं गोत्रं सगोत्रञ्च तुल्यगोत्रे निगद्यते ।ब्राह्मणो क्षत्रियो वैश्यः शूद्रो वर्णश्चतुष्टयः ।वंशो वीज्यः कौलकेयः कुलजः कुलसम्भवः ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
क्षत्रियो बाहुजः क्षत्रो द्विजलिङ्गी नृपो विराट् ।राजा मूर्धाभिषिक्तश्च राजन्यो मूर्धकोऽपि च ॥
अनुष्टुप्
genderपुंmasc.
बाहुसंभवे राजन्यो राजा च क्षत्र-क्षत्रियौ ।आर्ये विड्-वैश्यौ वेतने वृत्तिर्वार्तापि जीविका ॥ ३१५ ॥
metre not recognised
genderपुंmasc.
मूर्धाभिषिक्तबाहुजराजन्यक्षत्रियविराजः ।क्षत्रमथ राण्महीभृत्पार्थिवनृपराजभूपनरदेवाः ॥ १२६६ ॥
उद्गीतिः
genderपुंmasc.
द्विजलिङ्गी नृपः क्षत्रः क्षत्रियोऽथ प्रजेश्वरः ।राजाधिपौ मण्डलेश एकजन्मा भयापहः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
ब्रह्मक्षत्रियविट्शूद्रा इति वर्णाश्चतुष्टये ।उपवर्णास्तु संकीर्णा विवर्णास्त्वन्त्यजातयः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
क्षत्रं बाहुजराजन्यौ भूशक्रः क्षत्रियो विराट् ।राजा तु पार्थिवो भूभुग्राड्भूपो नृपतिर्नृपः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
क्षत्रिय as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् राजन्इनः सूर्ये प्रभौ राजा मृगाङ्के क्षत्रिये नृपे ॥ १११ ॥ Amarakośa 3.3.111
- नामलिङ्गानुशासनम् नाभिक्षत्रियेऽपि च नाभिर्ना सुरभिर्गवि च स्त्रियाम् । Amarakośa 3.3.261
- धरणिकोश मूर्धाभिषिक्तमूर्धाभिषिक्तो भूपाले प्रधाने क्षत्रियेऽपि च । यादसांपतिरम्भोधिः प्रचेता यादसांपतिः ॥ Dharaṇikośa 15.2.86
- धरणिकोश राजन्राजा नृपे प्रभौ शक्रे राजा क्षत्रियचन्द्रयोः । ग्रावा च प्रस्तरे शैले ग्रावा मेघे च कीर्तितः ॥ Dharaṇikośa 19.2.10
- नानार्थार्णवसंक्षेप याजन्ययज्ञे द्वे तु क्षत्त्रियेऽथ यापना नप्स्त्रियोर्भवेत् । प्रस्थापने निरसने वर्तने रभसः पुनः ॥ १४७० ॥ Nānārthārṇavasaṃkṣepa 4.1470
- नानार्थार्णवसंक्षेप सुदर्शनपुनः पुंसीक्ष्वाकुवंशप्रभवे क्षत्त्रियान्तरे । शङ्खणस्य सुते विष्णुचक्रे चान्यस्तु तन्नपि ॥ ६७६ ॥ Nānārthārṇavasaṃkṣepa 6.676
- परमानन्दीयनाममाला नाभिनाभिः क्षत्रियचक्राङ्गदेहाङ्गेष्वपि कथ्यते । नदो वाहे ह्रदे वार्धिरावयोर्नेत्रमंशुके ॥ २६४ ॥ Paramānandīyanāmamālā 5.18.264
- शिवकोष राजवृक्षराजवृक्षस्तु शम्पाके पियाले क्षत्रिये प्लवे । Śivakoṣa 26.3.5
- शब्दरत्नावली बाहुजबलजा वणिजो नार्यां युथीभम्योर्वरस्त्रियाम् । बाहुजः स्यात्स्वयं जाते तिले क्षत्रियकीरयोः । वनजा मुद्गपर्ण्यां ना मुस्तके क्लीबमम्बुजे ॥ Śabdaratnāvalī 7.8.26
- शब्दरत्नावली राजन्रञ्जनो रागजनने रञ्जनं रक्तचन्दने । नीलीरोचनिकाशुण्डामञ्जिष्ठासु च रञ्जिनी ॥ रजनी रात्रिजतुकाहरिद्रानीलिनीषु च । राधना तोषणे स्त्री स्यात्क्लीबं प्राप्तौ च साधने ॥ राजा नृपे प्रभौ चन्द्रे क्षत्रिये च पुमानयम् । रेचनी कर्कश-दन्ती-रोचनी-त्रिवृतासु च ॥ Śabdaratnāvalī 7.20.69
- शब्दरत्नावली डिम्भजृम्भस्त्रिषु विकाशे च जृम्भरणे स्फारितेऽपि च । डिम्भः स्याद्वालिशे मध्ये क्षत्रिये शावकेऽपि च ॥ Śabdaratnāvalī 7.24.6
- शब्दरत्नावली नाभिदम्भः स्यात्कैतवे कल्के साटोपाहङ्कृतावपि । दृन्भूश्चवज्रचक्राहिमुख्यभूतिषु च स्त्रियाम् ॥ नाभिर्ना चक्रमध्ये च क्षत्रिये मुख्यभूपतौ । द्वयोः प्राण्यङ्गमध्ये तु स्त्रियां कस्तूरिकामदे ॥ निभो व्याजे तु पुंलिङ्गः प्रकाशे सदृशे त्रिषु । रम्भः कपौ च वंशे ना कदल्यप्सरसोः स्त्रियाम् ॥ विभुर्वृद्धे प्रभौ राज्ञि ब्रह्मशङ्करयोः पुमान् । शम्भुर्महेश्वरे सिद्धे सुगते परमेष्ठिने ॥ शुभं क्षेमे शुभोयोगे शुभा कान्तीच्छयोः स्त्रियाम् । सभाद्यूते मन्दिरे च गोष्ट्यां सामाजिके स्त्रियाम् ॥ स्वभूर्विष्णौ विधौ पुंसि स्तम्भः स्थूनाजडत्वयोः । Śabdaratnāvalī 7.24.7
- शब्दरत्नाकर राजन्चन्द्रक्षत्रिययोः राजा लताभेदे नृपे प्रभौ । रजः पांस्वार्ताहःसु रहो याभरहस्ययोः ॥ १९८७ ॥ Śabdaratnākara 4.1.1987
- शब्दरत्नाकर अम्बरीषक्षत्रिये त्वम्बरीषः स्यात् पुंसि भ्राष्ट्रे नपुंसके । अवताम्भो (अवरोहो?)ऽवतरणं मूलादग्रं गता [लता] ॥ २२०१ ॥ Śabdaratnākara 4.1.2201
- वैजयन्ती राजन्रश्मी ज्वालाप्रग्रहौ च रदो दन्तविलेखयोः । राजा तु क्षत्रिये चन्द्रे लताभेदे नृपे प्रभौ ॥ ५० ॥ Vaijayantī 6.1.50
- वैजयन्ती मूर्धाभिषिक्तमूर्धाभिषिक्तो ना राज्ञि क्षत्रिये चार्थवत् प्रभौ । हरिचन्दनमस्त्री स्याच्चन्दने देवपादपे ॥ २७ ॥ Vaijayantī 8.5.27