कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सार्वभौम

sārvabhaumaपुं · masc.

In 20 kośas: 28 synonym verses, 5 as a nānārtha head word, 5 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.170 · p. 11
ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः ।पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ॥ १७० ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.691 · p. 29
यः सर्वमण्डलस्येशो राजसूयं च योऽजयत् ।चक्रवर्ती सार्वभौमस्ते तु द्वादश भारते ॥ ६९१ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह दिग्वर्गः Amarakośa 1.3.3
ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः ॥ ३ ॥पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ।करिण्योऽभ्रमुकपिलापिङ्गलानुपमाः क्रमात् ॥ ४ ॥ताम्रकर्णी शुभ्रदन्ती चाङ्गना चाञ्जनावती ।
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 भ्र (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.2
चक्रवर्ती सार्वभौमो नृपोऽन्यो मण्डलेश्वरः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.104 · p. 13
ऐरावतः पुण्डरीकः कुमुदाञ्जनवामनाः ।पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ॥ १०४ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.422 · p. 49
येनेष्टं राजसूयेन स सम्राट् परिकीर्तितः ।चक्रवर्ती सार्वभौमो मध्यमो मण्डलेश्वरः ॥ ४२२ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर द्वितीयोपदेशः Bālaprabodhikā 2.37 · p. 69
पुष्पदन्तः सार्वभौमः सुप्रतीकस्तु दिग्गजाः ।करिण्योभ्रमुकपिलापिङ्गलानुपमाः क्रमात् ॥ ३७ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 भ्र (wrong syllable)
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम Gīrvāṇabhāṣābhūṣaṇa 71 · p. 7
दुनेदारः सार्वभौमो राहुत्तो मण्डलेश्वरः ।वैश्ये तु कृषिकः पज्जप्रवरो धेनुसारथिः ॥ ७१ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.5 · p. 89
एकजन्मा सार्वभौ मोप्यतोऽन्ये मध्यमवर्त्तिनः ।सत्वप्रतिरथो यस्य नास्ति प्रतिरथो युधि ॥ ५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव साधारणप्रकाण्डः Kalpadrukośa 2.1.52 · p. 375
पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ।करिण्योऽभ्रमुः कपिला पिङ्गलानुपमा क्रमात् ॥ ५२ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 भ्र (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.26 · p. 28
पीलुमूलेनैकदिग्यात्राव्ययं पीलुमूलतः ।ऐरावतः पुण्डरीको वामनः कुमु[19b]दोऽञ्जनः ।पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ॥ २६ ॥
metre not recognised
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.5 · p. 244
अधीश्वरोऽप्रतिरथो यं नमन्त्यखिला नृपाः ।चक्रवर्त्ती सार्वभौमस्ते तु स्युर्भरतादयः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.154 · p. 27
राजा तु पार्थिवो भूभृद्भूपो नरपतिर्नृपः ।सार्वभौमश्चक्रवर्ती नृपोऽन्यो मण्डलेश्वरः ॥ १५४ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.657 · p. 83
सहरक्षा दवाग्नौ ना दैत्यानामपि पावके ।सरक्षसि पुनस्त्रिः स्यात् सार्वभौमः पुनः पुमान् ॥ ६५७ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.162 · p. 25
सार्वभौमः सुप्रतीकः पुष्पदन्तोऽष्टमस्तथा ।हस्तिन्योऽष्टौ तु तेषां स्युरभ्रमुप्रमुखाः स्त्रियः ॥ १६२ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.330 · p. 142
पार्थिवो राड्नृपो मूर्धाभिषिक्तो भूप इत्यपि ।सार्वभौमश्चक्रवर्ती सर्वमण्डलनायकः ॥ ३३० ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.249 · p. 56
सार्वभौमश्चक्रवर्ती सर्वभूमीश्वरे स्मृतौ ।एकदेशाधिनाथे तु मण्डलेश्वर इष्यते ॥ २४९ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त दिक्पालमरीचिः Pañcatattvaprakāśa 6.1.340 · p. 24
पुष्पदन्तः सार्वभौमः सुप्रतीको हरिद्गजाः ।यमः कृतान्तः शमनः समवर्त्ता परेतराट् ॥ ३४० ॥
अनुष्टुप्
genderपुंmasc.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण क्षत्रियप्रकरणम् Śabdacandrikā 5.2.18 · p. 43
सार्वभौमश्चक्रवर्ती नृपोन्यो मण्डलेश्वरः ।मन्त्र्यमात्यौ सुधीः कर्मसहायो राजकीयकः ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति राजवर्गः Śāradīyākhyanāmamālā 3.2.9 · p. 35
नरेन्द्रो भूपतिर्भूभुक् सम्राट् तु शास्ति यो नृपः ।चक्रवर्ती सार्वभौमः सर्वदेशाधिपो हि यः ॥ ९ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.181 · p. 25
कुमुदश्वाऽञ्जनश्चैव पुष्पदन्तस्तदन्तरम् ।सप्तमः सार्वभौमोऽस्ति सुप्रतीकोऽष्टमस्तथा ॥ १८१ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1125 · p. 175
चक्रवर्ती सार्वभौमः सैवाधीश्वर उच्यते ।अस्यामवसर्पिण्यां ते द्वादश भारतेऽजनि ॥ ११२५ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 1 अ (syllables merged); pāda 4, syllable 3 दश (syllable split)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.173 · p. 13
पुष्पदन्त-सार्वभौम-सुप्रतीकास्त्वेते दिक्करिणो मताः ।करिण्यभ्रमु-कपिला-पिङ्गलाऽनुपमाः क्रमात् ॥
metre not recognised
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.130 · p. 120
चक्रवर्ती सार्वभौम एकजन्मा नृपाग्रणीः ।तस्मादन्यो मण्डलेशो मण्डलेश्वर इत्यपि ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.157 · p. 21
ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः ।पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ॥ १५७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1268 · p. 155
चक्रवर्ती सार्वभौमो यः सर्वपृथिवीश्वरः ।राजसूयेन येनेष्टं शास्ति राज्ञो य आज्ञया ॥ १२६८ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ज्योतिरध्यायः Vaijayantī 2.1.8 · p. 17
ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः ।पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.2 · p. 104
नरेन्द्रो नरदेवश्च वश्यामात्यस्त्वधीश्वरः ।सार्वभौमश्चक्रवर्ती नृपोऽन्यो मण्डलेश्वरः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास मार्धश्लोकः Dharaṇikośa 24.2.22 · p. 145
अभ्यागमोऽभ्यागमनं युद्धमभ्यागमं विदुः ।सार्वभौमोऽपि दिङ्नागे सर्वपृथ्वीधरेऽपि च ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ मान्ताः Koṣakalpataru 6.25.94 · p. 285
दिङ्नागे सकलक्षितेरधिपतौ स्यात्सार्वभौमस्तथासर्वक्षोणिनिमित्तयोरपि मतः संयोगकोत्पातयोः ।आरम्भेऽथ उपक्रमो गदचिकित्सोत्कोचयोर्विक्रमे-ऽथावर्ते जलगुल्म एव उदितः कूर्मे पयश्चत्वरे ॥ ९४ ॥
शार्दूलविक्रीडितम्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.658 · p. 83
चक्रवर्तिनि कौबेरदिग्गजे विदिते पुनः ।वाच्यलिङ्गाः सार्वभौमा अथ सालावृको द्वयोः ॥ ६५८ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश मान्ताः Śabdaratnāvalī 7.25.50 · p. 256
दिङ्नागे सर्वपृथ्वीशे सार्वभौमः पुमान् भवेत् ।
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.304 · p. 197
सार्वभौमो गजे राज्ञि सम्भ्रमौ साध्वसादरौ ।कण्टकेऽल्पे च सूक्ष्मं स्यात्साधौ तुल्येऽखिले समः ॥ ३०४ ॥
अनुष्टुप्

सार्वभौम as a meaning in nānārtha verses