कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सम्राज्

samrājपुं · masc.

In 12 kośas: 13 synonym verses, 3 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.690 · p. 29
मध्यमो मण्डलाधीशः स सम्राट् शास्ति यो नृपान् ॥ ६९० ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.5
शास्ति यश्चाज्ञया राज्ञः स सम्राडथ राजकम् ॥ ३ ॥राजन्यकं च नृपतिक्षत्रियाणां गणे क्रमात् ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.422 · p. 49
येनेष्टं राजसूयेन स सम्राट् परिकीर्तितः ।चक्रवर्ती सार्वभौमो मध्यमो मण्डलेश्वरः ॥ ४२२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.6 · p. 89
येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः ।शास्ति यश्चाज्ञया राज्ञः स सम्राडथ राजकम् ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.6 · p. 245
ईजे यो राजसूयेन मण्डलेशोऽन्यभूपतीन् ।आज्ञापयत्यसौ सम्राट् क्षत्रजातिस्तु तत्सुतः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.52 · p. 8
श्रीपतिर्गोपतिर्गोप्ता हीरो हंसः पुरातनः ।यज्ञः सम्राड्यजः प्राज्ञः सर्वज्ञः सर्वतोमुखः ॥ ५२ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.87 · p. 12
वेदगर्भः स्वर्णरेता वण्टकः सूक्ष्मभेदकः ।कोसलः सङ्घलः सम्राट् चित्रभानुर्धनंजयः ॥ ८७ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.93 · p. 13
सौरो वैवस्वतः सम्राड् यमराट् च परेतराट् ।परेतः समवर्ती च यमलो यम इत्यपि ॥ ९३ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.250 · p. 56
राजसूयक्रियायुक्ते सम्राडिति समाहितः ।राजन्यकं क्षत्रियाणां नृपाणां राजकं व्रजे ॥ २५० ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति राजवर्गः Śāradīyākhyanāmamālā 3.2.9 · p. 35
नरेन्द्रो भूपतिर्भूभुक् सम्राट् तु शास्ति यो नृपः ।चक्रवर्ती सार्वभौमः सर्वदेशाधिपो हि यः ॥ ९ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1124 · p. 175
सम्राट् तु शास्ति यो भूपान् यः सर्वमण्डलाधिपः ।योऽयजत् राजसूयं च स सम्राट् मन्यते जनैः ॥ ११२४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्व (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.131 · p. 120
यो राजसूययाजी तु यो वा स्यान्मण्डलेश्वरः ।आज्ञया शास्ति राज्ञोऽपि स सम्राट् परिकीर्तितः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1269 · p. 155
मण्डलाधीश्वरो यश्च स सम्राण्मध्यमश्च सः ।अधीश्वरो नताशेषसामन्तो नाभिरित्यपि ॥ १२६९ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1473 · p. 168
सम्राट् तु पुंसि विष्ण्वर्कहुताशेन्द्रेषु राज्ञि तु ।येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः ॥ १४७३ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1474 · p. 168
शास्ति यश्चाज्ञया राज्ञस्तत्र स्यादथ सा स्त्रियाम् ।षड्विंशत्यक्षरेऽन्तःस्थाछन्दोभेदे स्वराट् पुनः ॥ १४७४ ॥
अनुष्टुप्
doubtful
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 6.1.61 · p. 219
ष्ट्यूमस्यूमौ जले चन्द्रे तन्तुमंगलरश्मिषु ।सम्राजोऽग्नीन्द्रविष्ण्वर्का यश्च स्यान्मण्डलेश्वरः ॥ ६१ ॥
अनुष्टुप्