अवहार
avahāraपुं · masc.In 9 kośas: 7 synonym verses, 8 as a nānārtha head word, 4 as a meaning of another word.
ग्राहे तन्तुस्तन्तुनागोऽवहारो नागतन्तुणौ ।अन्येऽपि यादोभेदाः स्युर्बहवो मकरादयः ॥ १३५१ ॥
अनुष्टुप्
genderपुंmasc.
ग्राहोऽवहारो नक्रस्तु कुम्भीरोऽथ महीलता ॥ २१ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
अन्तर्जलचरं सत्त्वं क्रूरं यादोऽभिधीयते ।अवहारः स्मृतो ग्राहः कुम्भीरो नक्र उच्यते ।कच्छपः कमठः कूर्मस्तद्भार्या च डुली स्मृता ॥ ६५६ ॥
अनुष्टुप्
genderपुंmasc.
जलप्लवोऽम्बुनकुलो नीराखुश्च वसी पुमान् ।अवहारो नक्रराजो ग्राहो जलविराटकः ॥ ९१ ॥
अनुष्टुप्
genderपुंmasc.
वैरनि[124a]र्यातनं वैरशुद्धिर्वैरप्रतिक्रिया ।अवहारो युद्विरामोऽथ जयो विजयः समौ ॥ ६४ ॥
metre not recognised
genderपुंmasc.
ग्राहस्तन्तुस्तथा नागस्तन्तुनागश्च तन्तुणः ।जलसर्पोऽवहारश्च वरुणपाश उच्यते ॥ २४५२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ण (wrong syllable)
genderपुंmasc.
स्यात् पञ्चगुप्तः क्रोडाङ्घ्रिः (क्रोडाङ्गः) कूर्मः कमठकच्छपौ ।अथ ग्राहो नक्रराजस्त्ववहारोऽवहारकः ॥
अनुष्टुप्
genderपुंmasc.
अवहारः समाख्यातो द्यूतयुद्धादिविश्रमे ।निमन्त्रणोपनेतव्यद्रव्ये ग्राहाख्ययादसि ॥
अनुष्टुप्
पणे स्थितौ तु व्यवहारमाहु-स्तथा विवादे नरि च द्रुभेदे ।अथावहारोऽपि निमन्त्रणेऽप-नेतव्यवस्तुन्यपि तस्करे च ॥ १६ ॥
उपजातिः
स्याद्द्यूतयुद्धादिकविश्रमेऽपिग्राहाख्ययादस्यपि संप्रदिष्टः ।स्यात्खड्गकोषे परिवार आद्येपरिच्छदे चापि कुटुम्बके च ॥ १७ ॥
उपजातिः
doubtful
निमन्त्रणोपनेतव्यद्रव्येऽवहरणेऽपि च ।द्यूतयुद्धादिविश्रान्तादथ स्यादवगीतवाक् ॥ १७ ॥
अनुष्टुप्
doubtful
अवहारो द्यूतयुद्धविश्रामे ग्राहचौरयोः ।निमन्त्रणे चोयनेयद्रव्ये धर्मान्तरेऽपि च ॥
अनुष्टुप्
अवहार as a meaning in nānārtha verses
- धरणिकोश ग्राहमोहो मूर्च्छाप्यविद्या च ग्राहो ग्रहावहारयोः । स्नेहस्तैलादिके प्रेम्णि वीहा स्यादुद्यमेहयोः ॥ Dharaṇikośa 32.1.1
- कोषकल्पतरु ग्राहगेहेऽथ ग्राहः स्यादवहारे स्याद्ग्रहे पुंसि । नाहः कूटे बन्धे स्नेहोऽस्त्री सौहृदे तैले । स्नेहुश्चन्द्रे रोगेऽथ रणे प्राह प्रहारे च ॥ ३८ ॥ Koṣakalpataru 6.32.38
- नानार्थार्णवसंक्षेप ग्राहतृणधान्यविशेषेऽथ काञ्चने स्यान्नृशण्डयोः । ग्राहोऽवहारसंज्ञे द्वे यादोभेदे पुमांस्तु सः ॥ ३४२ ॥ Nānārthārṇavasaṃkṣepa 2.5.342
- शब्दरत्नावली ग्राहसूर्पादौ पूतनादौ च राहूपरागयोः पुमान् । ग्राहोऽवहारग्रहयोः सामान्याम्बुचरे क्वचित् ॥ Śabdaratnāvalī 7.33.5