दन्त
dantaपुं · masc.In 18 kośas: 29 synonym verses, 9 as a nānārtha head word, 39 as a meaning of another word.
दाढिका दंष्ट्रिका दाढा दंष्ट्रा जम्भो द्विजा रदाः ॥ ५८३ ॥रदना दशना दन्ता दंशखादनमल्लकाः ।
अनुष्टुप्
genderपुंmasc.
अङ्गुलिः कर्णिका दन्तौ विषाणौ स्कन्ध आसनम् ॥ १२२४ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
भुजमध्यमुरो वक्षो हृदयस्थानं च वत्समिच्छन्ति ।एकार्थाः कथ्यन्ते दशनद्विजदन्तरदरदनाः ॥ ५२७ ॥
आर्या
genderपुंmasc.
प्रासादमण्डपे चूडा दन्तास्ते नागदन्तकाः ।मत्तवारणमिच्छन्ति प्रग्रीवं पुंनपुंसकम् ॥ ७५ ॥
अनुष्टुप्
genderपुंmasc.
दाढिका दंष्ट्रिका दाढा द्राढास्ताश्चर्वणार्थकाः ।दन्ता वक्त्रखुरा जम्भा हालवो रदना द्विजाः ॥ १५८ ॥
अनुष्टुप्
genderपुंmasc.
अस्याग्रं पुष्करं क्लीबेऽङ्गुलं स्यात्तस्य कर्णिका ।विषाणावस्त्रियां पुंसि दन्तौ ना स्कन्ध आसनम् ॥ १६४ ॥
अनुष्टुप्
genderपुंmasc.
कर्माष्ठीवद्गुरुदन्तोममहिम्नां नाम पक्ष्मणोः ।धनुषः स्यादिति क्लीबपुंसयोः प्रकृतिस्थिताः ॥ १९५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंक्लीm. n.
मुखालंकरणो दन्तो दंशः खादन-मल्लकौ ।खरुः सीरी द्विजो जृम्भ - दशनौ न स्त्रियौ रदः ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
हस्तिनासा करः शुण्डा तद्धस्ताग्रं तु पुष्करः ।विषाणौ त्रिषु दद्दन्तौ करीरं दन्तमूलकम् ॥ ९४ ॥
अनुष्टुप्
genderपुंmasc.
स्थूणोर्ण इति । स्थूणा चोर्णा च स्थूणोर्णे स्त्रीयोगे स्तः स्त्रीलिङ्गे भवत इत्यर्थः । इयं स्थूणा काष्ठमयी द्विकर्णिका । इयमूर्णा मेषलोमा । तयोरेव स्थूणोर्णयोर्यथासङ्ख्यगृहशशपूर्वकयोर्नपुंसकत्वम् । इदं गृहस्थूणम् । इदं शशोर्णम् । शशपूर्वकयोरिति किम् । इह मा भूत् इयं स्थालास्थूणा । इयं मेषोर्णा । सर्वशब्दो निर्विशेषवाची । सर्वमक्षिनाम जलनाम च नपुंसके भवति । अक्षिनाम तावत् । इदमक्षि लोचनं नेत्रं नयनं चक्षुर्दृगम्बकमीक्षणादि ।जलपर्याय इदं जलं तोयं सलिलमम्बु नीरं वार्वारि काननमुदकं वनमित्येवमादि । जलशब्दत्वादप्शब्दस्यापि नपुंसकत्वं प्राप्नोतीत्याह मुक्त्वापः अप्शब्दं वर्जयित्वेत्यर्थः । अस्य हि स्त्र्यधिकारात्स्त्रीत्वम् । इमा आपः बहुवचनान्तः सदैव ।जलकुसुमनाम सर्वं नपुंसकं स्यात्पद्मस्तु विभाषया ।अभ्रादृतेऽम्बुदाख्या हि केशनखदन्तसञ्ज्ञाश्च ॥ १४ ॥
metre not recognised
genderपुंmasc.
जलकुसुमनाम सर्वं निर्विशेषं नपुंसकलिङ्गं भवति । तद्यथा । इदं कमलं पङ्कजं कोकनदं कह्लारं कुशेशयमित्यादि । जलकुसुमद्वारेण नपुंसकत्वे प्राप्ते पद्मस्य विभाषा क्रियते । इदं पद्मम् । अयं पद्म इति उक्तं च । "वसन्ते शीतभीतेन कोकिलेन वने रुतम् । अन्तर्ज्जलगताः पद्माः श्रोतुकामा इवोत्थिताः ॥" ऋतेशब्दो वर्जनार्थे वर्त्तते । अभ्रशब्दमेकं वर्जयित्वा अम्बुदा मेघास्तेषामाख्या सञ्ज्ञा पर्याया इत्यर्थः तेऽम्बुदाख्याः शब्दाः पुंसि भवन्ति तद्यथा । इमे अम्बुदा मेघाः पयोधरा घनजीमूता जलधरा बलाहकाः कन्धरा इत्येवमादयः । इमे केशाः । इमे दन्ताः । इमे नखाः ।
अनुष्टुप्metre not read in every line
genderपुंmasc.
प्रस्थं पार्श्वं तटं सानुर्मेखलोपत्यका तटी ।नितम्बमन्तो दन्तश्च तद्वानपि गिरिः स्मृतः ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
[39] शुण्डा हस्तः करो हस्तिनासा स्यादथ पुष्करम् ।शुण्डाग्रं चाथ दन्तौ तु विषाणो स्कन्ध आसने ॥ १४० ॥
अनुष्टुप्
genderपुंmasc.
मासुरी मुखरोम स्याद्दंष्ट्रा दाढा च दाढिका ।रदा दन्ता द्विजा दंशा रदना दशना अपि ॥ २४८ ॥
अनुष्टुप्
genderपुंmasc.
हस्तदन्तनखौष्ठान्धुगुच्छगुल्फपतद्ग्रहाः ।स्तननाककपोलारिरसवोलरथाः समाः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
रसज्ञा रसना जिह्वा रसाऽप्यारसनेन्द्रियम् ।रदनो दशनो दन्तो द्विजो भ्रूर्भ्रुकुटिः कुटिः ॥ ८४ ॥
अनुष्टुप्
genderपुंmasc.
ओष्ठोऽधरो दन्तवस्त्रं तथा च रदनच्छदम् ।रदना दशना दन्ता द्विजा दंशा रदा अपि ॥ ३३ ॥
अनुष्टुप्
genderपुंmasc.
दन्ताः दंशा द्विजाः दालुः दशना रदना रदाः ॥ ९३८ ॥
अनुष्टुप्
genderपुंmasc.
हस्तिनः शिरसि दन्तौ दंष्ट्रा शुनवराहयोः ।मेघो मत्स्यो भुजङ्गमो वेणुर्मौक्तिकयोनयः ॥ १८५३ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 सि (wrong syllable); pāda 3, syllable 7 ङ्ग (wrong syllable)
genderपुंmasc.
दन्तो द्विजश्च खरुः स्याद् दशनो रदनो रदः ।माटी दन्तशिरा माटिर्भवेत् तालु च काकुदम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ख (wrong syllable)
genderपुंmasc.
अधोभागे (अन्तराले?) मदो दानं गण्डस्तु करटः कटः ।दन्तो रदो विषाणं च वमथुर्हस्तशीकरः ॥ ७०३ ॥
अनुष्टुप्
genderपुंmasc.
आस्यं मुखबिलं दन्ता दशना रदना रदाः ।रसज्ञा रसना जिह्वा समाने तालुकाकुदे ॥ १०८१ ॥
अनुष्टुप्
genderपुंmasc.
दन्तत्सरू द्वौ खड्गादेर्मुष्टौ बन्धस्तु मेखला ।हस्तिचारो जगत्त्रासहेतुः शरभसंनिभः ॥ १३४६ ॥
अनुष्टुप्
genderपुंmasc.
सद्योजातो वासुदेवो रुद्रो दन्तस्त्रिमातृ(त्र)कः ।आप्यायनी मन्त्रनाथ ओ-कारो न(ना)गसंज्ञकः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
दन्तपाशाङ्कुशाविघ्नपर्शुर्लड्डुकसंज्ञिताः ।बीजपूराह्वया मुद्रा विज्ञेया विघ्नपूजने ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
हिरण्यनाभमैनाकसुनाभा हिमवत्सुते ।शैलाग्रे शिखरं शृङ्गं दन्तः प्राग्भारमित्यापि ॥ २ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 त्या (wrong syllable)
genderपुंmasc.
दन्तः खरुर्वक्रखुरो जम्भो हानुर्द्विजस्तथा ।राजदन्तास्तु चत्वारो दशनानां पुरःस्थिताः ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
दन्तवस्त्रं च तत्प्रान्तौ सृक्वणी दशनाः पुनः ।रदनाः खादना दन्ता दंशा मल्ला रदा द्विजाः ॥ ८८ ॥
अनुष्टुप्
genderपुंmasc.
वृन्तं कुचाग्रे घटवारिधार-वाचि द्वयोनं सुमबन्धनेऽपि ।अद्रेर्नितम्बे दशने निकुञ्जेदन्तः स्त्रियामौषधिभेदवाची ॥ ३१ ॥
इन्द्रवज्रा
दंष्ट्रायां हस्तिनश्चेति दन्ती तु स्थावरान्तरे ।नागदन्तीसमाख्ये स्त्री दत्तं तु नपि हेमनि ॥ ५७१ ॥
अनुष्टुप्
meaningsहस्तिदंष्ट्रा
दण्डः सैन्ये दमे यष्ट्यां मेढ्रे पार्श्वचरे रवेः ।वने वनानले दावदवौ दन्तस्तु भूभृताम् ॥ १९३५ ॥
अनुष्टुप्
meaningsकटक
कटके स्थूलपाषाणे रदनेभविषाणयोः ।जायाभावे तु दन्ता स्त्री देशो नीवृत्प्रदानयोः ॥ १९३६ ॥
अनुष्टुप्
दन्त as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् द्विजकेकि तार्क्ष्यावहिभुजौ दन्तविप्राण्डजा द्विजाः । Amarakośa 3.3.60
- नामलिङ्गानुशासनम् कुञ्जधर्मराजौ जिनयमौ कुञ्जो दन्तेऽपि न स्त्रियाम् । Amarakośa 3.3.62
- धरणिकोश रुचकरुचकः सर्जिकाक्षारे विडङ्गे मातुलङ्गके । दन्ते ग्रीवाविभूषायामश्वाभरणमाल्ययोः ॥ Dharaṇikośa 1.3.22
- धरणिकोश द्विजद्विजो विप्रेऽण्डजे दन्ते हरेणुपुष्पयोर्द्विजा । अजा हरिहरब्रह्मच्छागा रघुप्तुतोऽप्यजः ॥ Dharaṇikośa 7.2.1
- धरणिकोश फटाव्युष्टं फले प्रभाते स्यात्क्रुष्टं रोदनरावयोः । लाटो जनपदे वस्त्रे फटा च फणदन्तयोः ॥ Dharaṇikośa 10.1.4
- धरणिकोश रदरदो विलेखने दन्ते छदः स्यात्पक्षपत्रयोः । क्षोदश्च पेषणे धूलौ स्वादुर्मिष्टमनोज्ञयोः ॥ Dharaṇikośa 17.1.1
- धरणिकोश दशनदशनः कवचे दन्ते मदनो नीरपुष्पयोः । अपानौ गुदतद्वातौ चाशनी वज्रविद्युतौ ॥ Dharaṇikośa 19.1.16
- धरणिकोश जम्भगर्भ भ्रूणे विजानीयाज्जठरार्भकयोरपि । जम्भो दन्ते च जम्बीरे जम्भो भक्षणदैत्ययोः ॥ Dharaṇikośa 23.2.1
- धरणिकोश जालसालः सर्जतरौ वापि सर्गप्राकारयोरपि । जालं गवाक्षयानाये दन्ते वृन्दे च कोरके ॥ Dharaṇikośa 27.2.13
- कोषकल्पतरु रुचकरुचकं दन्ते ग्रीवा- लंकारे मङ्गलद्रव्ये । माल्ये चाश्वाभरणे सौवर्चलजन्तुहारिलुङ्गेषु ॥ ४० ॥ Koṣakalpataru 6.1.40
- कोषकल्पतरु द्विजप्राग्दिग्गृहेऽन्यत्र * शौण्डिके स्यात् स्वजं तु रक्ते नरि गात्रतोये । पुत्रेऽथ विप्रप्रमुखत्रिवर्णि- विहंगदन्तेषु मतो द्विजो ना ॥ २२ ॥ Koṣakalpataru 6.7.22
- कोषकल्पतरु रदस्थानाङ्घ्रिचिह्नाङ्कगतं पदं स्या- च्छदोऽस्त्रि पत्रे[वि]गरुत्तमाले । स्याद्ग्रन्थिपर्णेऽपि रदस्तु दन्ते विलेखने चाथ शुभेऽपि भन्दम् ॥ २० ॥ Koṣakalpataru 6.19.20
- कोषकल्पतरु दशनदन्तेऽद्रिशृङ्गे दशनोऽथ वर्म- ण्यन्तेऽथ भानौ तपनोऽथ तापे । भल्लातके स्यान्नरकान्तरेऽन्त्ये ऽथापायदान्त्योः कदनं तथैव ॥ ११ ॥ Koṣakalpataru 6.21.11
- कोषकल्पतरु जम्बकम्बूः परद्रव्यहरेऽतिधूर्त्ते जम्बस्तु जम्बीरकदन्तयोश्च । संख्यान्तरे खर्बमुशन्ति पुंसि विशेष्यवद्वामनवाचकं च ॥ ३१ ॥ Koṣakalpataru 6.24.31
- कोषकल्पतरु खरुवज्रे शरे चाथ खरुर्हरे स्या- द्दर्पे च दन्ते तुरगे स्त्रियां तु । पतिंवरायां त्रितये तु पाण्डौ भरुर्हरौ पुंसि हरे च हेम्नि ॥ ६३ ॥ Koṣakalpataru 6.27.63
- नानार्थार्णवसंक्षेप रदरदो विलेखने दन्तेऽप्यथादन्तो रजध्वनिः । रजः संज्ञगुणे पांसौ स्त्रीपुष्पेऽप्यजयोऽब्रवीत् ॥ १०२ ॥ Nānārthārṇavasaṃkṣepa 2.2.102
- नानार्थार्णवसंक्षेप कुञ्जद्वयोः पशौ कुजस्तु स्यात् पुमानङ्गारके तरौ । भूमिजे तु त्रि कुञ्जस्तु न स्त्री गह्वरदन्तयोः ॥ २३० ॥ Nānārthārṇavasaṃkṣepa 2.5.230
- नानार्थार्णवसंक्षेप दशनदन्ते स्याद्दशनो दंष्टिक्रियायां तु नपुंसकम् । दशमं तु दशानां स्यात् पूरणे त्रि स्त्रियां पुनः ॥ ९१३ ॥ Nānārthārṇavasaṃkṣepa 4.913
- नानार्थार्णवसंक्षेप द्विजन्मन्कनिष्ठपत्न्यामरतौ पुनर्भूपरिविन्नयोः । आहुतौ च द्विजन्मा तु ना दन्ते रभसोदितः ॥ ९३२ ॥ Nānārthārṇavasaṃkṣepa 4.932
- परमानन्दीयनाममाला कुञ्जकाका तु काकजङ्घायां काकमाच्यामपि स्मृता । कुञ्जस्तु दन्तिनां दन्ते निकुञ्जे मन्दिरे हनौ ॥ ८५ ॥ Paramānandīyanāmamālā 5.7.85
- परमानन्दीयनाममाला खरc{अथ खकारादयो यथा ।} खरस्तिग्मे च दुःस्पर्शे गर्दभे राक्षसान्तरे । तुरंगमे हरे दन्ते खल्लो निम्नेंऽशुके खगे ॥ १४५ ॥ Paramānandīyanāmamālā 5.8.145
- परमानन्दीयनाममाला जम्भजम्भोंऽशेऽप्यशने दन्ते तरौ तूणेऽसुरान्तरे । जटा मांस्यां वृक्षमूले विकारे केशसंततेः ॥ १९७ ॥ Paramānandīyanāmamālā 5.13.197
- परमानन्दीयनाममाला द्विजमेघे [25] मूर्खे द्विजो विप्रे दन्तनीडजयोरपि । द्रुमो रत्ने तरौ दिष्टिर्हर्षे मानेऽपि कथ्यते ॥ २४० ॥ Paramānandīyanāmamālā 5.16.240
- शब्दरत्नावली कल्ककल्कोऽस्त्रीघृततैलादिशेषे कर्णमले विटे । दन्ते विभीतके दम्भे पापे पापाशये त्रिषु ॥ Śabdaratnāvalī 7.1.5
- शब्दरत्नावली रुचकयात्रकं पञ्चरात्रे स्यात् वेश्या वेश्याब्दवासिनि । रुचको मातुलुङ्गे स्यात् निष्के दन्ते कपोतके ॥ Śabdaratnāvalī 7.1.130
- शब्दरत्नावली द्विजद्विजो ना ब्राह्मणक्षत्रवैश्यदन्तेन्दुपक्षिषु । स्त्रियां हरेणौ भार्यायां वीणाभेदे च कुत्रचित् ॥ Śabdaratnāvalī 7.8.10
- शब्दरत्नावली दमथुदमथुर्ना दमे दन्ते निशीथो रात्रितद्भिदोः । निर्ग्रन्थो नग्नके निःस्वे मूर्खेऽपि निःसहायके ॥ प्रमथा स्त्री तु पथ्यायां तुरङ्गे पार्षदे पुमान् । वरूथो रथगुप्तौ ना क्लीबन्तु गेहचर्मणोः ॥ मन्मथः कामदेवे स्यात्कामचिन्ताकपित्थयोः । भवेद्वयस्था सूक्ष्मैलाकाकल्यामलकीषु च ॥ Śabdaratnāvalī 7.17.13
- शब्दरत्नावली दशनतोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः । दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥ दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् । दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥ दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च । दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥ देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः । अक्षेषु देवनः पुंसि सेवायामपि देवना ॥ ध्वजी रथे च भूदेवे भये सर्पे धराधरे । धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥ धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके । धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥ धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् । धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥ धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः । नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥ नन्दी हरद्वारपाले कन्दवाले वटद्रुमे । नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥ नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे । अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥ निदानं वत्सदामादिकारणे क्षयकारणे । निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥ पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् । स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥ प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु । एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥ पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे । प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥ प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् । पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥ पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः । स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥ पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु । पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥ Śabdaratnāvalī 7.20.57
- शब्दरत्नावली जम्भगर्भः कुक्षौ शिशौ सन्धौ भ्रूणे पनसकन्टके । जम्भो दन्तशठे दन्ते दैत्यभेदे च भक्षणे ॥ Śabdaratnāvalī 7.24.5
- शब्दरत्नावली खरुऐन्द्रिर्जयन्ते काके ना स्त्री शचीशिवयोरपि । ओड्रः पुंभूम्नि देशे स्यात्तरुभेदे पुमानयम् ॥ करो रश्मौ च करके शुण्डप्रत्यायपाणिषु । कद्रुस्त्रिषु पिशङ्गे स्यान्नागमातरि तु स्त्रियाम् ॥ कारो हिमगिरौ यत्ने वलौ पत्यौ वधे पुमान् । कारा स्त्रियां बन्धगृहे बन्धे दूत्यां प्रसेवके ॥ कारिः क्रियायां स्त्रीलिङ्गो वाच्यलिङ्गस्तु शिल्पिनी । क्रूरं स्यात्कठिने घोरे नृशंसेऽपि च वाच्यवत् ॥ कारुस्त्वष्टरि पुंसि स्यात्त्रिषु कर्तरि शिल्पिनि । कीरः शुके देशभेदे क्लीबं स्यान्नीरदुग्धयोः ॥ कुरुर्ना भक्तनृपयोः पुंबहुत्वे च निवृति । क्षुद्रः क्रूरेऽधमेऽल्पे च कृपणेऽपि च वाच्यवत् ॥ क्षुद्रा व्यङ्गानटीधृष्टाबृहतीसरधासु च । चाङ्गेरी मक्षिकामात्रे हिंस्रा वादरतासु च ॥ क्षुरः स्याच्छेदनद्रव्ये कोकिलाक्षे च गोक्षुरे । खुरः शफे कोलदले तथा छेदनवस्तुनि ॥ क्रोष्ट्री कृष्णविदार्युक्ताशृगालीलाङ्गलीषु च । खरो धर्मे गर्दभे ना तीक्ष्यो त्रिष्वौषधे स्त्रियाम् ॥ खरुर्दर्पे हरे दन्ते हये ना धवले त्रिषु ॥ Śabdaratnāvalī 7.27.7
- शब्दरत्नावली विषवर्षोऽस्त्री भारताद्यब्दजम्बुद्वीपेषु वर्षणे । केचित्क्लीवमिति प्राहुर्बहुत्वे प्रावृषि स्त्रियाम् ॥ विट् व्याप्तिविष्ठयोः स्त्री स्याद्विषञ्च गरलाम्बुनोः । भवेदतिविषायां स्त्री विषो दन्तः क्वचिद्भवेत् ॥ Śabdaratnāvalī 7.31.14
- शब्दरत्नाकर रदरतिः क्रीडाकामपत्न्योः रदो दन्तविलेखयोः । अंशुप्रग्रहयोः रश्मी रणोऽस्त्री युधि ना स्वने ॥ १९८६ ॥ Śabdaratnākara 4.1.1986
- तन्त्राभिधान ओओ-कारश्चोर्ध्वदन्तश्च सद्योजातश्च सत्यकः । वासुदेवो महेशानि! दन्तोमे परिकीर्त्तितः ॥ ९ ॥ Tantrābhidhāna 1.9
- तन्त्राभिधान अंअ-ङ्कारश्चक्षुषी दन्तो घटिका समगुह्यकः । प्रद्युम्नः श्रीमुखी प्रीतिर्बीजयोनिर्वृषध्वजः ॥ ४९ ॥ Tantrābhidhāna 2.16.49
- त्रिकाण्डशेष द्विजन्मन्क्रीडादौ देवनं नाक्षे द्विजन्मा दन्तविप्रयोः । दानं गजमदे त्यागे खण्डने रक्षणेऽपि च ॥ २४२ ॥ Trikāṇḍaśeṣa 3.3.242
- त्रिकाण्डशेष जम्भगर्दभं शुक्लकुमुदे खरे पुंस्यऽथ दानवे । जम्बीरे व्यवहारे च जम्भो दन्तेऽपि चेष्यते ॥ २८६ ॥ Trikāṇḍaśeṣa 3.3.286
- त्रिकाण्डशेष खरुखरुरश्वे हरे दर्पे दन्ते श्वेते तु वाच्यवत् । गुरुस्त्रिलिङ्ग्यां महति दुर्ज्जरालघुनोरपि ॥ ३४५ ॥ Trikāṇḍaśeṣa 3.3.345
- वैजयन्ती रदरश्मी ज्वालाप्रग्रहौ च रदो दन्तविलेखयोः । राजा तु क्षत्रिये चन्द्रे लताभेदे नृपे प्रभौ ॥ ५० ॥ Vaijayantī 6.1.50
- वैजयन्ती रुचकरुचको भूषणे दन्ते रुवथः कुक्कुटे ध्वनौ । वञ्चथः कोकिले काले वर्तकोऽश्वखुरे खगे ॥ ६४ ॥ Vaijayantī 7.1.64