पङ्कज
paṅkajaक्ली · neut.In 17 kośas: 15 synonym verses, 18 as a meaning of another word.
कमलं नलिनं पद्ममरविन्दं कुशेशयम् ॥ ११६० ॥परं शतसहस्राभ्यां पत्त्रं राजीवपुष्करे ।बिसप्रसूनं नालीकं तामरसं महोत्पलम् ॥ ११६१ ॥तज्जलात्सरसः पङ्कात्परे रुड्रुहजन्मजाः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
genderक्लीneut.doubtful
राजीवमरविन्दं च पद्मं पङ्कजमिष्यते ।रक्तं कोकनदं प्रोक्तं पुण्डरीकं सिताम्बुजम् ॥ ६८० ॥
अनुष्टुप्
genderक्लीneut.
पद्मन्तु नलिनं पद्मं पङ्कजं बिसजं मतम् ।सहस्रपत्रं कमलं शतपत्रं कुशेशयम् ॥ १७२ ॥
अनुष्टुप्
genderक्लीneut.
स्यात्सरःसरसीपङ्कपर्यायेभ्यो रुहार्थकम् ।एभ्यो जन्मार्थकं चापि जलार्थादपि जार्थकम् ॥ १३९ ॥
अनुष्टुप्
genderक्लीneut.
राजीवं कमलं नलं शतदलं पङ्केरुहं पङ्कजंपाथोजं सरसीरुहं सरसिजं नालीकमम्भोरुहम् ।अम्भोजन्म कुशेशयं च जलजं कंजं करुट् पुष्करंश्रीपर्णं च सहस्रपत्रम[71a]रविन्दाह्वं कचारं तथा ॥ ८ ॥
शार्दूलविक्रीडितम्metre not read in every line
genderक्लीneut.
भृङ्गारको भृङ्गनामा पङ्कजः केशरञ्जनः ।रविप्रियो महानीलः सूर्यावर्तश्च कीर्त्तितः ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
जलकुसुमनाम सर्वं निर्विशेषं नपुंसकलिङ्गं भवति । तद्यथा । इदं कमलं पङ्कजं कोकनदं कह्लारं कुशेशयमित्यादि । जलकुसुमद्वारेण नपुंसकत्वे प्राप्ते पद्मस्य विभाषा क्रियते । इदं पद्मम् । अयं पद्म इति उक्तं च । "वसन्ते शीतभीतेन कोकिलेन वने रुतम् । अन्तर्ज्जलगताः पद्माः श्रोतुकामा इवोत्थिताः ॥" ऋतेशब्दो वर्जनार्थे वर्त्तते । अभ्रशब्दमेकं वर्जयित्वा अम्बुदा मेघास्तेषामाख्या सञ्ज्ञा पर्याया इत्यर्थः तेऽम्बुदाख्याः शब्दाः पुंसि भवन्ति तद्यथा । इमे अम्बुदा मेघाः पयोधरा घनजीमूता जलधरा बलाहकाः कन्धरा इत्येवमादयः । इमे केशाः । इमे दन्ताः । इमे नखाः ।
अनुष्टुप्metre not read in every line
genderक्लीneut.
बिसप्रसूतं नालीकं तामरसं महोत्पलम् ।तज्जलात् सरसः पङ्कात् परै रुड्रुहजन्मजैः ॥ ३२९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
genderक्लीneut.doubtful
उशीरं वीरुणीमूले कमलं नलिनं कजम् ।पुण्डरीकं च --------पुष्करं पङ्कजं समे ॥ ८० ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
पङ्कजं कमलं पद्मं नलिनं सरसीरुहम् ।पङ्केरुहं तामरसं सारसं पुष्करं कजम् ॥ २९५ ॥
अनुष्टुप्
genderक्लीneut.
पङ्केरुहं सरसिजमब्जं वारिजमम्बुजम् ।नालीकं पङ्कजाम्भोजे कजं चाह्नि विकासभाक् ॥ १२९ ॥
अनुष्टुप्
genderक्लीneut.
पुष्करं शतपत्रं च पङ्कजं पङ्कजन्म च ।पङ्करुट् पङ्करुहं च तामरसं महोत्पलम् ॥ २०९२ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
पद्मपङ्कजपङ्केजं पुष्पकाम्भोजमम्बुजम् ।अम्भीरुहं सरसिजं राजीवसरसीरुहम् ॥
अनुष्टुप्
genderक्लीneut.
बाताममपि बादामं पद्मेब्जोऽदन्त-सन्तषण् ।जलात् पङ्कात् सरसोऽपि परे जन्म-ज-रुट्-रुहा ॥ २४४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
genderक्लीneut.doubtful
निपानमवखातस्तु स्यादुत्कीर्णश्चुरी स्त्रियाम् ।पद्मोऽस्त्री शतपत्रं पङ्कजमरविन्दमम्बुजं नलिनम् ॥ ३५७ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
पङ्कज as a meaning in nānārtha verses
- कोषकल्पतरु पद्मपद्मः पुमान्व्यूहनिधिप्रभेदे नागान्तरे स्त्री तु न पङ्कजे स्यात् । संख्यान्तरे पद्मकबिन्दुनाले स्त्रियां तु लक्ष्म्यामपि फञ्जिकायाम् ॥ ७० ॥ Koṣakalpataru 6.25.70
- नानार्थार्णवसंक्षेप तारत्रिषु तूच्चैस्तरे शब्दे विशदेऽप्यथ पङ्कजे । प्रणवे च नपि स्त्री तु तारा योषिति वालिनः ॥ ५२५ ॥ Nānārthārṇavasaṃkṣepa 2.5.525
- नानार्थार्णवसंक्षेप अम्बुजनप्स्त्रियोस्त्वञ्जयत्यर्थे त्रिषु त्वञ्जनसाधने । अम्बुजं पङ्कजे क्लीबं पुंस्यपि स्माह वाक्पतिः ॥ ७३ ॥ Nānārthārṇavasaṃkṣepa 4.73
- नानार्थार्णवसंक्षेप दोलकदोलकं पङ्कजे त्रिस्तु स्यादुत्क्षेप्तरि ना पुनः । दौः षन्तो नृपभेदेऽथ मर्त्यजात्यन्तरे द्वयोः ॥ ९६६ ॥ Nānārthārṇavasaṃkṣepa 4.966
- नानार्थार्णवसंक्षेप शतपत्रशतोन्मिते तण्डुलानां व्रीहेः कर्षद्वये परे । आढके त्वाह कश्चिद्वै शतपत्त्रं तु पङ्कजे ॥ ५९३ ॥ Nānārthārṇavasaṃkṣepa 6.593
- परमानन्दीयनाममाला उत्पलशेखरेऽथोत्पलं शून्ये पङ्कजान्तरपत्रयोः । उच्छ्वासः प्राणने गद्यबन्धभिच्छ्वासयोरपि ॥ ७० ॥ Paramānandīyanāmamālā 5.3.70
- परमानन्दीयनाममाला कमलभेषजे पङ्कजे शीर्षे कमला मेखलाश्रियोः । कुशलः सुजन आख्यातः कुशलं क्षेमपुण्ययोः ॥ ११८ ॥ Paramānandīyanāmamālā 5.7.118
- परमानन्दीयनाममाला पद्मपद्मं तु पङ्कजे हस्तिबिन्दुष्वपि च पल्लवे । पीथं जले रवौ पीथः पद्मा लक्ष्म्यां प्लवः कपौ ॥ २८५ ॥ Paramānandīyanāmamālā 5.19.285
- शिवकोष पुष्करपुष्करं न द्वयोः पुण्यसागरे पङ्कजेऽपि च । पौष्करं पद्मबीजे स्यान्मूले पुष्करकस्य च ॥ ४०५ ॥ Śivakoṣa 22.3.405
- शिवकोष श्रीवासकाकोदुम्बरिकायां तु काकमाच्यां तु वायसी । श्रीवासः सरलास्रावे पङ्कजे चाथ श्रेयसी ॥ ५२९ ॥ Śivakoṣa 27.2.529
- शब्दरत्नावली शृङ्गविषाणोत्कर्षयोरूर्ध्वे तीक्ष्णे सूक्ष्मे च पङ्कजे । शृङ्गो ना कूर्चशीर्षे तु मुनिभेदे च स स्मृतः ॥ Śabdaratnāvalī 7.3.28
- शब्दरत्नावली कज्जऊर्ज उत्साहबलयोः प्राणने कार्त्तिकेऽपि च । कज्जं सुधापङ्कजयोः कञ्जः केशविरिञ्चयोः ॥ Śabdaratnāvalī 7.8.4
- शब्दरत्नावली सरोजिनीसदादानो गन्धहस्तिन्यैरावतगणेशयोः । सम्बदनं वशीकारे क्लीबमालोचनेऽपि च ॥ समादानं समीचीनग्रहे बौद्धाह्णिकेऽपि च । सम्वाहनन्तु भारादिवाहने चाङ्गमर्दने ॥ समापनं परिच्छेदप्रमापनसमाप्तिषु । सनातनो हरे विष्णौ नित्यपित्रतिथिष्वपि ॥ सनातनी भवान्यान्तु वाण्यब्धिसुतयोः स्त्रियाम् । स्तनयित्नुर्जलधरे विद्युति स्तनिते स्त्रियाम् ॥ सरोजिनी तु कमलाकरपङ्कजयोः स्त्रियाम् । समापन्नं वधे क्लिष्टे समाप्तप्राप्तयोरपि ॥ संयमनं व्रते बन्धे यमपूर्यामपि स्त्रियाम् । भवेत्सारसनं काञ्च्यामुरस्तेन तनुत्रिणाम्(?) ॥ सामयोनिर्ग्रजब्रह्मसामोत्थेषु भवेत्पुमान् । सुदर्शनो विष्णुचक्रे जम्बूवृक्षे सुरलाये ॥ क्लीबं महेन्द्रनगरे प्रज्ञौषधिभिदोः स्त्रियाम् । सुयामुनोऽच्युते मेघे प्रासादवत्सराजयोः ॥ सुकर्मा योगभेदे स्यात्सत्कर्मविधिकर्मणोः । सुधन्वा वीरभेदे स्याद्धानुष्के विश्वकर्मणि ॥ सुपर्वा पुंसि वंशे तु धूमपर्वामरेषु च ॥ Śabdaratnāvalī 7.20.127
- शब्दरत्नावली सारससारसं पङ्कजे क्लीबं स्यात्पुमान् पक्षिचन्द्रयोः । साहसन्तु बलात्कारकृतकार्ये दमेऽपि च ॥ सुरसा स्त्री तु पर्णसे रास्नायां नागमातरि । स्रोतः स्यादिन्द्रिये नीरवेगेऽपि च नपुंसकम् ॥ Śabdaratnāvalī 7.32.38
- शब्दरत्नावली तामरससम्यक्सिद्धरसे पीलुपर्णीकर्पूरयोरपि । चन्द्रहासः खड्गमात्रे दशकण्ठकृपाणके ॥ भवेत्तामरसं ताम्रे पङ्कजे काञ्चनेऽपि च । त्रिस्रोताः स्यात्तरङ्गिन्यां गङ्गायामपि च स्त्रियाम् ॥ Śabdaratnāvalī 7.32.45
- शब्दरत्नाकर पद्मपद्मोऽस्त्री पङ्कजे ना तु निधौ व्यूहेऽहिपुंगवे । स्त्री श्रियामौषधे षण्डः संख्यायां गजबिन्दुषु ॥ १९५५ ॥ Śabdaratnākara 4.1.1955
- शब्दरत्नाकर राजीवआस्वादने च शब्दे च रवणः शब्दनोष्ट्रयोः । राजीवं पङ्कजे ना तु मीनभेदे मृगान्तरे ॥ २१५४ ॥ Śabdaratnākara 4.1.2154
- वैजयन्ती शालूकवेष्टने मकुटोष्णीषौ शकले खण्डवल्कले । शालूकं पंकजे कन्दे जले शमलमप्यघे ॥ ३४ ॥ Vaijayantī 7.3.34