कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कीचक

kīcakaपुं · masc.

In 14 kośas: 12 synonym verses, 8 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.1153 · p. 45
वंशो वेणुर्यवफलस्त्वचिसारस्तृणध्वजः ।मस्करः शतपर्वा च स्वनवान्स तु कीचकः ॥ ११५३ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.161
वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः ॥ १६१ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.204 · p. 25
त्वचिसारश्च यो वंशो वेणुत्वक्सारमस्कराः ।स्वनन्ति येऽनिलोद्धूता वेणवस्ते तु कीचकाः ॥ २०४ ॥
अनुष्टुप्
genderपुंmasc.
एकादिसंख्यासंज्ञाकोष Ekādisaṃkhyāsaṃjñākoṣa · अज्ञात शतसंख्यावाचकाः शब्दाः Ekādisaṃkhyāsaṃjñākoṣa 16.29 · p. 201
जपमाला-मणिहारस्रजो-ऽस्ररुक्-कीचकाः-शतप्रमिताः ।अहिपतिमुख-गङ्गामुख-पङ्कजदल-करेन्द्रनेत्राणि ॥ २९ ॥
metre not recognised
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.124 · p. 146
सच्छिद्राः कीचकास्ते स्युर्ये स्वनन्त्यनिलेरिताः ।भोरटं पूरणं वंशात्तन्मूलेथ तदङ्कुरे ॥ १२४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.348 · p. 288
नलो नालो नडः कुक्षिरन्ध्रकः कीचकः पुनः ।वंशान्तरोपि धमनः शून्यमध्यो विभीषणः ॥ ३४८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.3 · p. 184
तेजनः शब्दमालस्तु कीचको वायुना स्वनन् ।इक्ष्वालिको रामशरो वेत्रो गुन्द्रश्च तेजनः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.76 · p. 61
त्वचिसारो यवफलः शतपर्वा तु मस्करः ।सच्छिद्रः कीचकः प्रोक्तो लाङ्गली नालिकेरकः ॥ ७६ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2066 · p. 342
प्रसिद्धः कीचको नाम स्वनन् वातात् स कथ्यते ॥ २०६६ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.301 · p. 79
अनिलोत्थस्वने वंशे वंशमात्रे च कीचकः ।अथ वंशाङ्कुरे न स्त्री करीरं करिरं तथा ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.659 · p. 84
शतपर्वाप्यथ क्ष्वेलः करीरोऽस्त्री तदङ्कुरः ।कीचका वेणवस्ते ये स्वनन्त्यनिलपूरिताः ॥ ६५९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.215 · p. 62
त्वचिसारो यवफलःखेलस्तेजनमस्करौ ।चपश्च तेषु पवनोद्धूतध्वनिषु कीचकाः ॥ २१५ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास कार्धश्लोकः Dharaṇikośa 1.2.29 · p. 8
नायकः श्रेष्ठपुरुषे हारमध्यमणावपि ।कीचकः कथितः प्राज्ञैर्वेणुदानवभेदयोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कान्ताः Koṣakalpataru 6.1.68 · p. 145
रसे सूतकोऽस्त्री जनौ त्वन्त्यलिङ्गःपशौ लूनकोऽथ त्रये भिन्नवाची ।पुमान्कीचको दैत्यभेदे च वेणौबधौ( ? )हीरको वृत्तभेदे तु षण्ढे ॥ ६८ ॥
भुजङ्गप्रयातम्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुंल्लिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.2.73 · p. 17
किंशारुस्तु शरे धान्यशूके च स्यात् तु कीचकः ।वातोद्भूतस्वनद्वेणौ दैत्यभेदे च यः किल ॥ ७३ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुंल्लिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.2.74 · p. 17
स्यालो विराटराजस्य तत्र स्यात् कुडुबः पुनः ।परिमाणे पक्षिनीडे कुबेरस्तु द्रुमान्तरे ॥ ७४ ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.489 · p. 89
क्लीतकं क्लीतकी तु स्त्री नीलिसंज्ञौषधौ स्मृता ।कीचको ना वेणुभेदे यो ध्वनत्यनिलोद्धुतः ॥ ४८९ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.490 · p. 89
स्याले विराटराजस्य महाभारतविश्रुते ।क्ली तु कीचकवृक्षस्य प्रसवे क्षीरिकः पुनः ॥ ४९० ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश कान्ताः Śabdaratnāvalī 7.1.52 · p. 180
कीचको दैत्यभेदे स्यात् वंशमात्रे सरन्ध्रके ।वातोद्धूतस्वनद्वंशे तथा रक्षोविशेषके ।कीटकः पुंसि कीटे स्यात् निष्ठुरे पुनरन्यवत् ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.16 · p. 97
पुनर्नवाकारवेल्लपर्णासेषु कठिल्लकः ।कृकवाकुर्मयूरेऽपि वंशे दैत्ये च कीचकः ॥ १६ ॥
अनुष्टुप्