कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

नल

nalaपुं · masc.

In 16 kośas: 21 synonym verses, 6 as a nānārtha head word, 9 as a meaning of another word.

कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.26 · p. 91
उदुसन्तावायुरायुः पुत्रेस्याथ पुरुः पुरू ।शतधन्वा शतधनुः क्षत्रभेदेप्यथो नलः ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.348 · p. 288
नलो नालो नडः कुक्षिरन्ध्रकः कीचकः पुनः ।वंशान्तरोपि धमनः शून्यमध्यो विभीषणः ॥ ३४८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.138 · p. 359
कुशेशयं गन्धसोमं कुड्मलं पुष्करं नलम् ।महोत्पलं तामरसं राजीवं श्रीकरं पुनः ॥ १३८ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.148 · p. 360
जलालूकं सूरणो ना करहाटः शिफा स्त्रियाम् ।अनुष्णमुत्पलं क्लीबे नलपर्यायनामकम् ॥ १४८ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.152 · p. 360
नाली नाला नालमपि नालः केसरकेसरौ ।पुंसि क्लीबेऽथ नालीकं नालिकं नलिनं नलम् ॥ १५२ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वारिवर्गः Koṣakalpataru 1.7.8 · p. 111
राजीवं कमलं नलं शतदलं पङ्केरुहं पङ्कजंपाथोजं सरसीरुहं सरसिजं नालीकमम्भोरुहम् ।अम्भोजन्म कुशेशयं च जलजं कंजं करुट् पुष्करंश्रीपर्णं च सहस्रपत्रम[71a]रविन्दाह्वं कचारं तथा ॥ ८ ॥
शार्दूलविक्रीडितम्metre not read in every line
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.3 · p. 184
पर्फरीकः पोटगलो नलोऽस्त्री मृत्युपुष्पकः ।धमनः शून्यमध्यश्च नड-नर्तक-रन्ध्रिणः ॥ ३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पो (wrong syllable)
genderपुंक्लीm. n.
एते शब्दाः पुंसि स्युर्भवेयुरित्यर्थः । शीकरोऽम्बुकणः । तुषारो हिमसन्ततिः । तुषी धान्यबुषः कडङ्गरश्च । बुद्बुदो जलकङ्करः । फेनो जलस्य । समुद्रस्य ओसो अवश्यायः । तण्डुलो धान्यविशेषः । अपूपः पिष्टकस्य । एते शब्दाः स्त्रियामुदिताः कथिताः । इयमालिः पङ्क्तिः । मुक्ता रत्नम् । आजिर्युद्धम् । दर्विर्विभक्तसाधनी । सिकता वालुका ।अजिनाजिरशैवालनलमृणालतुहिनोडुपाज्यसस्यानि । द्वारास्पदकाष्ठानि च नपुंसकान्येव पटलं च ॥ ४७ ॥
metre not recognised
genderक्लीneut.
एते शब्दा नपुंसके भवन्ति । इदमजिनं मृगत्वक् । इदमजिरमङ्गणम् । शैवालं जलसम्भवम् । नलं सुवर्णभाजनम् । मृणालं पद्ममूलम् । तुहिनं तुषारः । उडुपं प्लवः । आज्यं घृतम् । सस्यं व्रीहिः । द्वारं[र] गृहस्य । आस्पदं राज्ञाम् । काष्ठमिन्धनं पटलगृहस्य तिमिरं वा । एवकारोऽवधारणे ।त्रिष्वप्यक्षेष्विन्द्रियसञ्ज्ञका एतान्नपुंसके विद्धि ।शेषाः पुंसि प्रोक्ताः श्रीपिष्टा[ष्ठा]द्याश्च निर्यासाः ॥ ४८ ॥
metre not recognised
genderक्लीneut.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र तृणकाण्डः Nighaṇṭuśeṣa 5.374 · p. 200
तस्यैकादश भेदाः स्युः पुण्ड्रकान्तारकादयः ।नले नडः शून्यमध्यो धमनो नर्तको नटः ॥ ३७४ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.159 · p. 230
genderपुंक्लीm. n.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त जलभानुः Pañcatattvaprakāśa 3.281 · p. 20
शम्बरं कमलं नीरं कीलालं पुष्करं नलम् ।जलपर्यायपतिः पाशी जनपर्यायधरोऽम्बुदः ॥ २८१ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2153 · p. 354
पोटगलस्तु प्रख्यातो धमनश्च नडो नलः ।मेघनामास्तु वै मुस्ता कुरुविन्दश्च मुस्तकः ॥ २१५३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 ट (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.135 · p. 45
अब्जमब्जः पुंसि कञ्जं कमलञ्च कुशेशयम् ।शतपत्रं तामरसं नलं नालीकनालिकम् ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 ता (wrong syllable)
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.303 · p. 79
नलो नटः पोटगलो नडो धमन इत्यपि ।आरण्यके तु वा पुंसि नलमित्यपि कुत्रचित् ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.274 · p. 240
नलो नटः, कुरुविन्दे मुस्ता त्रिषु च मुस्तकः ।इक्षौ गण्डीरी गण्डकी, पुण्ड्रेक्षौ पुण्ड्र-पौण्ड्रकौ ॥ २७४ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 रु (wrong syllable); pāda 3, syllable 6 ग (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तशेषाध्यायः Śabdaratnākara 3.8.1835 · p. 223
अर्जुनः कार्तवीर्यः स्यात् पृथुर्वैन्य उभौ समौ ।निषधस्तु नलोऽथ स्याज्जनको मिथिलाधिपः ॥ १८३५ ॥
अनुष्टुप्
genderपुंmasc.
नलिकानलमित्युक्तं पद्मे पत्रं तु तूणिका ॥ २१ ॥
genderक्लीneut.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव क्षत्त्रियवर्गः Trikāṇḍaśeṣa 2.8.10 · p. 62
नलोऽश्वविन्नैषधश्च महाभीष्मस्तु शान्तनुः ।प्रतीपोऽस्य प्रिया काली दासेयी च झषोदरी ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव लिङ्गादिसंग्रहः Trikāṇḍaśeṣa 4.4 · p. 269
फेणाभिजनकलापनिकाया हारोच्चारोपलकल्लोलाः ।फालचषालकीलनलतण्डुलशैवलखलविभवप्रसवाश्च ॥ ४ ॥
metre not recognised
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.228 · p. 64
लताकुशे तु शीरी स्त्री धमने सुषिरो नलः ।शरो मुञ्जो भद्रमुञ्जो गुन्द्रस्तेजनकः खरः ॥ २२८ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास लश्लोकः Dharaṇikośa 27.3.4 · p. 199
नलो नले राज्ञि कपिप्रभेदे कमले नलम् ।नली सुगन्धिभेदे च नलः स्यात्पितृदेवता ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ लान्ताः Koṣakalpataru 6.28.51 · p. 338
उत्सेधशस्त्रीच्छदयोश्च खण्डेद्रव्ये च षण्ढेऽथ नलो नृपाले ।यमे कपौ पोटगले स्त्रियां तुमनःशिलायां नलिने द्वयोनम् ॥ ५१ ॥
उपजातिः
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास नकारादयः Paramānandīyanāmamālā 5.18.266 · p. 196
नन्दा तिथ्यन्तरे वाचि मणिकेऽथ नलं कजे ।पितृदेवे कपौ वृक्षे नालं काण्डमृणालयोः ॥ २६६ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र लद्विः Śivakoṣa 23.1.442 · p. 40
तूलो न स्त्री पिचौ तूलं क्लीबं स्याद्ब्रह्मदारुणि ।तैलं कल्के तिलस्नेहे नलः पोटगले नलम् ॥ ४४२ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र लद्विः Śivakoṣa 23.1.443 · p. 40
नलिनेऽथ नली नट्यां कुनट्यामपि योषिति ।नालं नाला पद्मदण्डे नाली शाककलम्बके ॥ ४४३ ॥
अनुष्टुप्
meaningsनलिन
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 226 · p. 542
तृणेऽम्बुजे नलं ना तु राज्ञि नाले तु न स्त्रियाम् ॥ २२६ ॥

नल as a meaning in nānārtha verses

  • धरणिकोश बृहन्नलबहुफलस्तु वृक्षेऽपि गोलाङ्गलः कपावपि । पोटगलाः स्मृताः काशा बृहन्नलौ नलार्जुनौ ॥ Dharaṇikośa 27.1.11
  • कोषकल्पतरु पोटगलउलूखलं गुग्गुलुपादपे च स्यात्कण्डनीनाम्न्यथ चक्रवालः । गिरौ द्वयोनस्तु स मण्डलेऽथ काशे नले पोटगलो झषे च । स्याद्धस्तिमल्लो गणपेऽभ्रनागे- ऽथ ग्रामवृन्देऽपि च भस्मतूलम् । स्यात्पांशुवर्षे तुहिनेऽथ वात- केलिर्विटानां रदलेखने स्यात् ॥ ७९ ॥ Koṣakalpataru 6.28.79
  • शिवकोष नर्तकीदीप्यको वस्तमोदायां यवानीबर्हिचूडयोः । नर्तकी शून्यमध्यायां नलनीवारयोर्नरि ॥ ३१ ॥ Śivakoṣa 1.3.31
  • शिवकोष मृत्युपुष्पमृत्युपुष्पो नले काशे भूतावासेक्षुवेणुषु । रक्तपुष्पः कुरबकागस्तिशाल्मलिरोहिणि ॥ ३०१ ॥ Śivakoṣa 17.3.301
  • शिवकोष शतपर्वशतपर्वो दीर्घपत्रभेदे यवफले नले । शतपर्वा तु भार्गव्यां वचाकटुकयोरपि ॥ ३२१ ॥ Śivakoṣa 18.3.321
  • शिवकोष पोटगलकूष्माण्डे तु द्वयोः पोटगलः काशे नले पुमान् । अथो बहुफलो नीपे ना मलय्वां तु योषिति ॥ ४८६ ॥ Śivakoṣa 23.3.486
  • शब्दरत्नावली पोटगलरतिमर्दाङ्गरागादिसौरभे च बुधव्रजे । अथ पोटगलः काशे नलमत्स्यप्रभेदयोः ॥ Śabdaratnāvalī 7.28.110
  • त्रिकाण्डशेष पोटगलवीणादण्डे प्रबालोऽत्री विद्रुमे नवपल्लवे । नले काशे पोटगलः पित्तत्युक्ते च पित्तलः ॥ ४०० ॥ Trikāṇḍaśeṣa 3.3.400
  • वैजयन्ती कृष्णअयोघनेऽनृते फाले दंभे निश्चलयन्त्रके । कृष्णं सीसाघलोहेषु कृष्णो नीले नले कलौ ॥ १४ ॥ Vaijayantī 6.5.14