कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वेतस

vetasaपुं · masc.

In 16 kośas: 16 synonym verses, 23 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.1137 · p. 44
विदुलो वेतसः शीतो वानीरो वञ्जुलो रथः ॥ ११३७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.29
पलाशे किंशुकः पर्णो वातपोतोऽथ वेतसे ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.201 · p. 25
वानीरो वञ्जुलः शीतो विदुलो वेतसः स्मृतः ।गोक्षुरः स्थलशृङ्गाटः श्वदंष्ट्रा स्यात्त्रिकण्टकः ॥ २०१ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.204 · p. 271
समालविटपी चाथ दीर्घपत्रस्तु वञ्जुलः ।वेतसो मञ्जरीनम्रो निचुलो गन्धपुष्पकः ॥ २०४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.52 · p. 139
उदुम्बरममं(यं?)त्वौदुम्बरं तद्विकृतौ त्रिषु ।वेतसो वुगुले(?)शीतो वञ्जुलो व्योमपुष्पकः ।वानीरो गन्धपुष्पश्च सुषेणः कलनो रथः ॥ ५२ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.56 · p. 140
हिङ्गुलश्चेञ्जलो[23a]गुच्छफलः स्यात्कक्षपोलिका ।क्षीरिणः पिप्पल-प्लक्ष-वरोदुम्बर-वेतसाः ॥ ५६ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीपुंसलिङ्गाधिकारः Koṣakalpataru 4.4.31 · p. 111
गण्डूषो रभसो भाश्च वेतसो लालसो मसिः ।दोष्णि बाहुश्च बाहोऽहिर्हीहाद्याः प्रत्ययान्तरैः ॥ ३१ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.59 · p. 35
शाखाम्लो वेतसोऽम्लोऽम्लस्तिन्तिडीको रसाम्लकः ।स शङ्खद्रावको हीनो बालद्रावक उत्तमः ॥ ५९ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.51 · p. 58
करवीरो हयमारो बदर्यां कुवली स्मृता ।कर्कन्धुः कोलिरप्यत्र वेतसो वञ्जुलो रथः ॥ ५१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 य (wrong syllable)
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंस्त्रीलिङ्गसंग्रहः Paramānandīyanāmamālā 6.4.112 · p. 225
कृसरो बहुकरो जित्यरालकीलवितस्तयः ।पटोलः कम्बलः शारो रभसो वेतसोऽपि च ॥ ११२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंस्त्रीm. f.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2003 · p. 331
वेतसो वञ्जुलः शीतो विदुरो विदुलो रथः ।अभ्रपुष्पश्च वानीरश्चेति नामानि सन्ति वै ॥ २००३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.57 · p. 61
वेतसः शीत-वानीर-वञ्जुला विदुलो रथः ।अभ्रपुष्पो गन्धपुष्पो रथाभ्रो वेतसीत्यपि ॥परिव्याधश्च विदुलो नादेयी जलवेतसे ।शोभाञ्जनः शिग्रूतीक्ष्नौ गन्धगन्धकमोचकाः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.150 · p. 230
कौटजः कुटजः कोटी, तत्फले त्विन्द्र-भद्रतः ।यवं कलिङ्गं कलिङ्गा, वेतसे वेतसी रथः ॥ १५० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.502 · p. 66
मर्कटी पुंसि षड्ग्रन्थो गोजिह्वादार्विके समे ।शम्याकः कृतमालदीर्घकलिका वारेवतः प्रग्रहोराजद्रुश्चतुरङ्गलोऽपि च सुवर्णश्च स्युरारग्वधे ।नादेयी विदुलो रथाभ्रकुसुमौ वानीरशीतौ परि-व्याधो वञ्जुलवेतसौ च विदलश्चामी समाना नव ॥ ५०२ ॥
अनुष्टुप्two metres in one verse
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1466 · p. 177
न्यग्रोधोदुम्बराश्वत्थप्लक्षवेतसवल्कलम् ।तालपर्णी पृश्निपर्णी बृहती कण्टकारिका ॥ १४६६ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.31 · p. 47
शीतेऽभ्रपुष्पो वानीरो वञ्जुलो वेतसो रथः ।विदुले प्रिय आम्राते द्वौ पीतनकपीतनौ ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.

वेतस as a meaning in nānārtha verses