कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पाली

pālīस्त्री · fem.

In 13 kośas: 19 synonym verses, 2 as a nānārtha head word, 3 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.43 · p. 38
क्षेत्रे तु वप्रः केदारः सेतौ पाल्यालिसंवराः ।
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.676 · p. 77
आधारश्च तडागं स्यादाली पाली च कथ्यते ।परिखा दीर्घिका प्रोक्ता खाता या परितः पुरम् ॥ ६७६ ॥
अनुष्टुप्
genderस्त्रीfem.
पालिः पाली अश्रिरश्री अश्रः कोटिश्च कोट्यपि ।घण्टिका घाटिकश्च स्यान्मागधो मगधः समौ ॥ २१७ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.316 · p. 124
पालिरस्त्री कोटिरेता दीर्घान्ताः स्युः स्त्रियामिमाः ।कुलाग्रका तु चिरिका फलपत्राग्रके हुलम् ॥ ३१६ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.94 · p. 143
प्रस्थोऽस्त्रियां स्त्रियां पाली पालिश्चापि स्त्रियामथ ।स्यात्कटस्त्रिष्वलिञ्जो ना प्रसेवः स्यूत इत्यपि ॥ ९४ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शैलवर्गः Koṣakalpataru 2.2.33 · p. 130
नागजिह्वा च नेपाली करवीरा च रोचना ।रसनेत्री च पाली च मनोह्वा नागरक्तकम् ॥ ३३ ॥
अनुष्टुप्
genderस्त्रीfem.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 27 · p. 13
भङ्गस्तरङ्गः कल्लोलो वीचिरुत्कलिकाऽवलिः ।पाली वेला तटोच्छ्वासौ विभ्रमोऽयमुदन्वतः ॥ २७ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1645 · p. 264
आलिश्चाली तथा पालिः पाली सेतुश्च संवरः ॥ १६४५ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1740 · p. 282
कोणोऽश्री कोटि रश्रिश्च पाली पालिरणी पुनः ॥ १७४० ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.5 · p. 57
आली पाल्यावली श्रेणिः वीथिः स्याद्वीथिकापि च ।राजी राजिस्तथा रेखा लेखा निच्छिद्रपंक्तिषु ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.136 · p. 92
पालिः पाली च पालाघ्नी पालहा नवमालिका ।नवाला पालभीता च भवेत् श्मश्रुयुतस्त्रियाम् ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.52 · p. 222
अधिरोहिण्यां निःश्रेणिः निर्विसर्गाऽविसर्गयुक् ।निःश्रेणी, कोणोऽश्रिरस्रः पालिः पाली च पुत्रितः ॥ ५२ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 ण्यां (wrong syllable)
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.517 · p. 67
तत्फले कुहली पाली क्रमुकः पट्टिकाह्वयः ।लाक्षाप्रसादनः पट्टी सरलः पीतपादपः ॥ ५१७ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1239 · p. 151
कोहरा मुखरा पाली जडा गुप्ता तिरोहिता ।खण्डना तु पतिघ्नी स्यात् पृषता श्वेतबिन्दुका ॥ १२३९ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1349 · p. 164
स्वधितिः शस्त्रधारीयां तिस्रः पाल्यश्रिकोटयः ।तद्दण्डलग्नशल्ये तु खेटकः क्षीणयः क्षुरः ॥ १३४९ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण स्त्रीलिङ्गप्रकरणम् Śabdaratnākara 7.1.2308 · p. 281
तुटितृटिकटित्रोटिकुटिकोटिकरोटयः ।गौल्यालिकुहलीपालीमधूलीधूलिकेलयः ॥ २३०८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 तृ (wrong syllable)
genderस्त्रीfem.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव वैश्यवर्गः Trikāṇḍaśeṣa 2.9.14 · p. 73
वटकः पिष्टपूरः स्याद्व्रतोपायनवायने ।प्रहेणकं चाऽथ पाली पूपाली चर्पटी च सा ॥ १४ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.49 · p. 87
हारिता पतितोत्पन्ना कोहली मुखरा भृशम् ।जडा तु पाली कुब्जा तु दुर्दर्शा कालिकापि च ॥ ४९ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.126 · p. 146
तोट्टभी चाथ पिच्छोला पाली तु जतुकाहला ।काहला तु कहाला स्याच्चण्डकोलाहलेति च ॥ १२६ ॥
अनुष्टुप्
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.749 · p. 107
ना त्राणे जडकन्यायां पुनः पाली स्त्रियामियम् ।अस्त्री द्रोणाह्वये दारुपात्रे पाकस्तु पर्वते ॥ ७४९ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश लान्ताः Śabdaratnāvalī 7.28.24 · p. 278
पालीच्छात्रादिदेये तु यूकाश्पश्रुयुतस्त्रियोः ।पीलुर्गजे द्रुमे काण्डे परमाणुप्रसूनयोः ॥
अनुष्टुप्

पाली as a meaning in nānārtha verses

  • कोषकल्पतरु कर्णान्दुअर्धेन्दुर्गलहस्त इन्दुशकले प्रौढाङ्गनानां भगे प्रोक्तश्चाङ्गुलियो[6a]जनेऽथ गदिता कर्णान्दुरुत्क्षिप्तिका । पाली च श्रवसोऽथ चूत उदितो माकन्द एष स्त्रियां स्याद्धात्रीफलनामकोऽथ कुमुदो न स्त्रीभवेत्कैरवे ॥ ३७ ॥ Koṣakalpataru 6.19.37
  • नानार्थार्णवसंक्षेप अनपालिअङ्कपालिः परीरम्भे पालौ धात्र्यां कटध्वनिः(?) । इत्येवमनपालिस्तु धात्र्यां पाल्यां गदद्रुहि ॥ ८ ॥ Nānārthārṇavasaṃkṣepa 6.8
  • वैजयन्ती अङ्कपालिधात्र्यां पाल्यां चांकपालिरभिशस्तिस्तु दूषणे । प्रार्थने चान्तशय्या तु भूमिशय्याश्मशानयोः ॥ २ ॥ Vaijayantī 8.2.2