कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मनोज्ञ

manojñaवि · adj.

In 15 kośas: 14 synonym verses, 40 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1445 · p. 55
चारु हारि रुचिरं मनोहरं वल्गु कान्तमभिरामबन्धुरे ।वामरुच्यसुषमाणि शोभनं मञ्जुमञ्जुलमनोरमाणि च ॥ १४४४ ॥साधुरम्यमनोज्ञानि पेशलं हृद्यसुन्दरे ।काम्यं कम्रं कमनीयं सौम्यं च मधुरं प्रियम् ॥ १४४५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 म (wrong syllable)
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.52
सुन्दरं रुचिरं चारु सुषमं साधु शोभनम् ।कान्तं मनोरमं रुच्यं मनोज्ञं मञ्जु मञ्जुलम् ॥ ५२ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.101 · p. 225
वन्धूरं वन्धुरं तुल्ये पेलवं चापि शोभनम् ।रुच्यं चापि च चोक्षं स्यान्मनोज्ञं मञ्जु वञ्जुलम् ॥ १०१ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.269 · p. 278
मदनोऽपि सदातारमुक्ताभ्यः पुष्प इत्यपि ।अट्टहासो मनोज्ञः स्याद्वनहासोऽथ शाम्भवः ॥ २६९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.60 · p. 18
कान्तं मनोज्ञं रुचिरं रुचिष्यं ।रुचिर्मनोहारि मनोहरं च ।हृद्यं प्रियं बन्धुर-सुन्दराभि-रामाणि वामं रमणीयमाहुः ॥ ६० ॥
उपजातिः
genderविadj.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 178 · p. 85
चारु श्लक्ष्णं च रुचिरं प्रशस्तं हृद्यबन्धुरम् ।दर्शनीयं मनोज्ञं च चित्तपर्यायहारि च ॥ १७८ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.332 · p. 93
मनोहरमनोज्ञे तु रुचिरं मञ्जुमञ्जुले ।कान्तं वल्गु प्रियं रुच्यं शोभनं चारुपेशले ॥ ३३२ ॥
अनुष्टुप्
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.318 · p. 65
पत्रं मनोज्ञं कालिन्दं कञ्जनं कमलं तथा ।फलदादिकशब्दाः स्युः सर्ववाहनवाचकाः ॥ ३१८ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.96 · p. 44
सुन्दरं रुचिरं रुच्यं xxxx मनोहरम् ।मनोज्ञं मञ्जुलं मञ्जु पेशलं वल्गु बन्धुरम् ॥ ९६ ॥
अनुष्टुप्metre not read in every lineLatin letters: xxxx
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2624 · p. 423
मनोज्ञं मधुरं रम्यमऽभिरामं मनोरमम् ।कमनीयं प्रियं काम्यं कम्रञ्च सुषमं पुनः ॥ २६२४ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश विशेषणवर्गप्रकाशः Śabdaratnāvalī 5.3 · p. 163
मनोज्ञं मञ्जुलं चारु बन्धूरमपि वन्धुरम् ।पेशलं पेमलं वामं सुषमञ्च मनोहरम् ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1580 · p. 191
वरिवसिते परिवस्यितमुपासितमुपचरितपरिचरिते ।चक्षुष्यसुभगशोभनसाधुमनोज्ञाभिरामरमणीयाः ॥ १५८० ॥
उद्गीतिःmetre not read in every line
genderविadj.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव विशेष्यनिघ्नवर्गः Trikāṇḍaśeṣa 3.1.13 · p. 83
मनःस्मयो मनोज्ञः स्थाच्चक्षुष्यः प्रियदर्शनः ।लडहं भद्रकं न्युङ्खं लगडं चारुबन्धुरः ॥ १३ ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.134 · p. 212
प्रकाशं प्रकटं स्पष्टमुल्बणं विशदं स्फुटम् ।सुन्दरं रुचिरं रुच्यं मनोज्ञं मञ्जु मञ्जुलम् ॥ १३४ ॥
अनुष्टुप्
genderविadj.

मनोज्ञ as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् प्राप्तरूपप्राप्तरूपस्वरूपाभिरूपा बुधमनोज्ञयोः ॥ १३१ ॥ Amarakośa 3.3.131
  • धरणिकोश वृन्दारकवृन्दारकाः श्रेष्ठमनोज्ञनिर्जराः शालावृकाः स्युः श्वशृगालवानराः । नियामकौ नायकपोतवाहौ विनायको बुद्धगणाधिपौ स्मृतौ ॥ Dharaṇikośa 1.1.17
  • धरणिकोश स्वादुरदो विलेखने दन्ते छदः स्यात्पक्षपत्रयोः । क्षोदश्च पेषणे धूलौ स्वादुर्मिष्टमनोज्ञयोः ॥ Dharaṇikośa 17.1.1
  • कोषकल्पतरु वल्गुवल्गुस्तु पुंसि च्छगले मनोज्ञे त्वन्योपमः फल्गुरियं मलप्वाम् । त्रुट्यां स मासेऽथ वटेऽपि शुङ्गी चाम्रातके पुंसि कपीतने च ॥ ८ ॥ Koṣakalpataru 6.3.8
  • कोषकल्पतरु लघुओघोऽम्बुवेगद्रुतनृत्यशिक्षा- परंपरासंहतिषु प्रयुक्तः । मेघो[ऽथ]पाथोधरमुस्तकार्थो ऽथाल्पे मनोज्ञे च लघुस्त्रिलिङ्गः ॥ ३३ ॥ Koṣakalpataru 6.4.33
  • कोषकल्पतरु विकटअवटः कपटोपजीविगर्ता- न्धुखिलेषु प्रथितोऽथ पर्पटः स्यात् । नरि पिष्टविकारचर्मनाम्नो(?)- ऽथ विशाले विकलाङ्गके मनोज्ञे ॥ २४ ॥ Koṣakalpataru 6.10.24
  • कोषकल्पतरु कान्तकान्तोऽश्मभेदे नरि तत्पटस्थ(?) प्रिये मनोज्ञे त्रितयेऽथ योषित् । नारीफलिन्योरथ पुंसि शान्तो रसेऽतिमुक्ते दमितेऽन्यवत्स्यात् ॥ ३३ ॥ Koṣakalpataru 6.16.33
  • कोषकल्पतरु श्रीमत्गर्मुत्स्वर्णलतार्थकोऽपि मिथुने भूभृन्नृपेऽद्रौ मतः । पित्सन्पक्षिणि नान्यवत्तु पतनेच्छौ कुत्सिते त्वन्यवत् । कुर्वत्कर्मकरेऽथ पुंसि तिल[296a]के श्रीमान्मनोज्ञेऽन्यव- ल्लक्ष्मीवत्यपि चार्वती तु हयिकायां कुम्भदास्यामपि ॥ २५ ॥ Koṣakalpataru 6.16.25
  • कोषकल्पतरु स्वादुस्वादुर्मनोज्ञे मधुरे त्रयेऽथा- [तीक्ष्णे मृदुः स्या]त्त्रि[षु] कोमले च ॥ २५ ॥ Koṣakalpataru 6.19.25
  • कोषकल्पतरु साधुसाधुर्भवेद्वार्धुषिके मनोज्ञे स्यात्सज्जने पुंसि तु बन्धुजीवे । स्याद्बान्धवे भ्रातरि चापि बन्धु- र्वधूर्नवोढागृहिणीस्नुषासु ॥ ६७ ॥ Koṣakalpataru 6.20.67
  • कोषकल्पतरु अभिरूपबुधे मनोज्ञेऽप्यभिरूप उ[27a]क्तः स्यात्प्राप्तरूपश्च तथाथ विष्णौ । शंभौ च गर्भे कृकलासके च * कोषवीणा( ? )बहुरूपमाहुः ॥ १७ ॥ Koṣakalpataru 6.22.17
  • कोषकल्पतरु रामप्रोक्तः किंपुरुषेश्वरे विटपिनि स्यात्पारिजाते द्रुमः कुण्डे वारिविनिर्गमे भ्र[30b]म इति स्यान्मोहवाची द्वयोः । रामो दाशरथौ बले भृगुपतौ पश्वन्तरे वाच्यवत् त्वेष श्वेतमनोज्ञमेचकगतोऽन्त्ये वास्तुके कुष्टके ॥ ५६ ॥ Koṣakalpataru 6.25.56
  • कोषकल्पतरु सुषीमउत्कृष्टशोभास्वथ सर्पभेदे पुमान्सुषीमः शिशिरे मनोज्ञे । स्यात्पञ्चमो रागभिदि स्वरे च विशेष्यवत्पूरणवाचकश्च ॥ ८९ ॥ Koṣakalpataru 6.25.89
  • कोषकल्पतरु प्रियधवे मनोज्ञे त्रिषु वृद्धिवल्ल्यां स्त्रियां स्वभावे तु तनौ च कायः । संघे च लक्ष्ये परवत्कदैवे क्लीबे नृतीर्थेऽप्यथ सायमस्त्री । प्रियो धवे सुन्दरवाचकश्च वृद्ध्यौषधौ मानवतीर्थके तु । देहे च शङ्खे निकरे च कायो लक्ष्येऽपि सायं तु दिनान्तवाचि ॥ ६ ॥ Koṣakalpataru 6.26.6
  • कोषकल्पतरु पुण्यपुण्यं मनोज्ञे सुकृ[37a]ते च पूते ऽन्यवद्भवेद्धिष्ण्यमुडौ च [गे] हे । स्थाने च शक्तावनले तु पुंसि शल्यं तु न स्त्री किल शङ्कुवाचि ॥ २८ ॥ Koṣakalpataru 6.26.28
  • कोषकल्पतरु कलभुक्तौ प्रभूणामथ कन्यकायां झाला तथोर्मौ च झुलुक्विकायाम् ( ? ) । अव्यक्तशब्दे मधुरे क[68a]लः स्या- ज्जीर्णे मनोज्ञे च विशेष्यलिङ्गः ॥ ८३ ॥ Koṣakalpataru 6.28.83
  • कोषकल्पतरु चोक्षन्यक्षं तु का[र्त्स्न्ये]त्रितये निकृष्टो ना पर्शुरामेऽथ शुचौ परस्मिन् । तीक्ष्णे मनोज्ञे च पुमांस्तु गीते चोक्षोऽथ काके च बके च भिक्षौ ॥ ५१ ॥ Koṣakalpataru 6.30.51
  • नानार्थार्णवसंक्षेप कान्तचम्पकप्रसवे तु क्ली तथा दमनके त्रि तु । प्रिये मनोज्ञे कामस्तु कन्दर्पे काम्यवाञ्छयोः ॥ १८८ ॥ Nānārthārṇavasaṃkṣepa 2.5.188
  • नानार्थार्णवसंक्षेप पुण्यव्योम्नि हेम्नि तथा धर्मे ( ब्रु ? व्र )ते च शुभकर्मणि । गङ्गार्घ्ययोस्तु पुण्या स्त्री मनोज्ञे तु त्रि पावने ॥ ७८५ ॥ Nānārthārṇavasaṃkṣepa 2.5.785
  • नानार्थार्णवसंक्षेप लघुत्रिगुरुप्रतिपक्षे च स्यादिष्टेऽल्पमनोज्ञयोः । एकमात्रस्वरे चैषु स्त्र्यर्थे लध्वी लधुस्तथा ॥ ११३४ ॥ Nānārthārṇavasaṃkṣepa 2.5.1134
  • नानार्थार्णवसंक्षेप स्वादुमनोज्ञे च जले तु क्ली द्राक्षायां तु स्त्रियामियम् । स्वाद्वी क्लीबं तु पठितं शाकटायनसूरिणा ॥ १५०४ ॥ Nānārthārṇavasaṃkṣepa 2.5.1504
  • नानार्थार्णवसंक्षेप सौरभ्यमनोज्ञतायां च क्लीबं भेद्यलिङ्गं तु कीर्तितम् । मनोज्ञे सौरतस्तु स्यान्मृदुवायौ नृलिङ्गकः ॥ २०१२ ॥ Nānārthārṇavasaṃkṣepa 4.2012
  • परमानन्दीयनाममाला कान्तकन्तुः कामे कुसूलेऽथ कान्तिः शोभेच्छयोर्मता । कान्तः प्रिये मनोज्ञे च कालो वर्णे यमे मृतौ ॥ ९५ ॥ Paramānandīyanāmamālā 5.7.95
  • शब्दरत्नावली वृन्दारकवणिजि स्याद्वडवाग्नौ धूर्ते वाणिजिकः पुमान् । पुंसि देवे मनोज्ञे नु श्रेष्टे वृन्दारकस्त्रिषु ॥ Śabdaratnāvalī 7.1.186
  • शब्दरत्नावली न्युङ्खनखी शुक्तौ स्त्रियां क्लीबे नखरेऽपि च न द्वयोः । न्युङ्खः साधुमनोज्ञे च साम्नां षट्प्रणवेष्वपि ॥ Śabdaratnāvalī 7.2.2
  • शब्दरत्नावली सुमुखसुमुखस्तार्क्ष्यहेरम्बशाकभिद्नागभित्सु च । नखक्षतान्तरे क्लीबं मनोज्ञे सुन्दरानने ॥ Śabdaratnāvalī 7.2.14
  • शब्दरत्नावली लघुलघुर्मनोज्ञे निःसारे चागुरावपि वाच्यवत् । कृष्णागुरुणि शीघ्रे च क्लीबं पृक्कौषधौ स्त्रियाम् ॥ Śabdaratnāvalī 7.4.5
  • शब्दरत्नावली अनघअनघस्त्रिषु निष्पापमनोज्ञनिर्मलेषु च । अमोघं त्रिषु सफले स्त्रियां पय्याविडङ्गयोः ॥ Śabdaratnāvalī 7.4.7
  • शब्दरत्नावली सम्यक्शङ्कोचिः मीनभेदे स्याद्वल्के क्लीबञ्च कुङ्कुमे । सम्यग्मनोज्ञे शुद्धे तु सङ्गते चाप्यलिङ्गकम् ॥ Śabdaratnāvalī 7.6.17
  • शब्दरत्नावली श्रीमत्श्रीमान् मनोज्ञे धनिके त्रिषु ना तिलकद्रुमे । श्रीपतिः पृथिवीनाथे भवेन्मुरहरे पुमान् ॥ Śabdaratnāvalī 7.16.142
  • शब्दरत्नावली स्वादुस्वादुर्मिष्टे मनोज्ञे च सूदो व्यञ्जने पाचके । स्वेदो घर्मस्वेदनयो हृत्क्लीबं चित्तबुक्कयोः ॥ Śabdaratnāvalī 7.18.8
  • शब्दरत्नावली रत्नरत्नं श्रेष्ठे मनोज्ञे च मणावपि नपुंसकम् । रास्ना स्त्रियां भुजङ्गाक्ष्यामेलापर्ण्यौषधावपि ॥ Śabdaratnāvalī 7.20.16
  • शब्दरत्नावली सुषमासम्भ्रमः पुंसि संवेगादरयोः साध्वसेऽपि च । सरमा राक्षसीभेदे कुक्कुर्यामपि च स्त्रियाम् ॥ सुषमाऽत्यन्तशोभायां स्त्री मनोज्ञे समे त्रिषु । सुषीमो नागभेदे ना मनोज्ञशीतयोस्त्रिषु ॥ Śabdaratnāvalī 7.25.44
  • शब्दरत्नावली रम्ययाम्याभरण्यवाच्योश्च याम्योऽगस्त्ये च चन्दने । रम्यं त्रिषु मनोज्ञे स्याद्रात्रौ स्त्री चम्पके पुमान् ॥ Śabdaratnāvalī 7.26.28
  • शब्दरत्नावली सौम्यगणदेवविशेषे ना साधनीयेऽभिधेयवत् । सूर्या सूर्यप्रियौषध्योः सूर्येऽर्कपर्णसूरयोः ॥ स्थेयः पुरोहिते वादपक्षनिर्णेतरि स्मृतः । सेव्यं त्रिषु च सेवार्हे क्लीबं वीरणमूलके ॥ सैन्यं क्लीबं बले सेनासमवेतेऽभिधेयवत् । सौम्यो ना ज्ञे तिष्वनुग्रे सोमदेवमनोज्ञयोः ॥ हार्यस्त्रिषु च हर्त्तव्ये पुमान् विभीतके द्रुमे । हृदयं हृदि हिते हृज्जे हृत्प्रिये त्रिषु च द्वयोः ॥ भरणे स्त्री वृद्धिनामौषधे मन्त्रान्तरे पुमान् । Śabdaratnāvalī 7.26.37
  • शब्दरत्नावली सान्द्रस्वरो नासानिलोदात्तध्वनिषड्जादिके पुमान् । सारो मज्जास्थिरांशे च बलेऽप्यतिदृढे पुमान् ॥ विपिनन्याय्यनीरेषु क्लीबलिङ्गं वरे त्रिषु । सान्द्रं स्निग्धे मनोज्ञे च नालवाले नपुंसकम् ॥ सिप्रो निदाघनीरे ना सिप्रा स्त्री सरिदन्तरे । सूत्रन्तु सूजनाग्रन्थे व्यवस्थायाञ्च तन्तुषु ॥ Śabdaratnāvalī 7.27.48
  • शब्दरत्नावली कोमलकेवली ज्ञानभेदे स्त्री केवली शास्त्रहोरयोः । कोमलं मृदुले नीरे मनोज्ञेऽपि च न द्वयोः ॥ Śabdaratnāvalī 7.28.57
  • शब्दरत्नावली चोक्षकर्षो मानविशेषे स्यात्कर्षणे च पुमानयम् । कर्षूः पुंसि करीषाग्नौ स्त्रियां कुल्येष्टखातयोः ॥ काक्षी सौराष्ट्रमृद्भदे स्त्रियान्तु वरिकोषधौ । घोषमाभीरपल्ल्याञ्च ध्वनिगोपालघोषके ॥ चोक्षो दक्षे मनोज्ञे च तीक्ष्णे च शुचिगीतयोः । झषा नागवलायां स्त्री तापमीनवनेषु ना ॥ Śabdaratnāvalī 7.31.6
  • वैजयन्ती लघुन्याय्यलब्धव्ययोर्लभ्यं लिप्तो भक्षितदिग्धयोः । लघु त्वसारागुरुणोरिष्टे क्षिप्रमनोज्ञयोः ॥ १५ ॥ Vaijayantī 6.4.15
  • वैजयन्ती चोक्षचेलं वासोऽक्षमं काम्यं गर्हितं बर्हिचन्द्रकः । चुम्रो नाशे विषण्णे च चोक्षो गीतमनोज्ञयोः ॥ ३१ ॥ Vaijayantī 6.5.31