देवताड
devatāḍaपुं · masc.In 11 kośas: 6 synonym verses, 3 as a nānārtha head word, 10 as a meaning of another word.
genderपुंmasc.
स्यादिन्द्रवारुणी क्षुद्रफला च वृषभादनी ।जीमूतको देवताडो वृत्तकोषो गरागरी ॥ ५२ ॥
अनुष्टुप्
genderपुंmasc.
देवताडे देवदाली वृत्तकोशो गरागरी ।जीमूतकस्तालकश्च वेण्याखुविषघातिनी ॥ ३२० ॥
अनुष्टुप्
genderपुंmasc.
देवताडस्तु जीमूतः खरी वेणी खरीखरा ।श्रीहस्तिनी तु भूरुण्डी चेनीति समाह्वये ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
तालि-ताडी, देवताडे देवताडी खरागरी ।खरागर्यौ समे प्रोक्ते अगरीवद्गिरागरी ॥ १४७ ॥
अनुष्टुप्
genderपुंmasc.
अग्निमन्थे हविर्मन्थोऽप्यरणिः पावको वशा ।गणिकार्यप्यथो देवताडे वेणी खरागरी ॥ ८६ ॥
अनुष्टुप्
genderपुंmasc.
देवताड as a meaning in nānārtha verses
- धरणिकोश ताडताडः स्मृतो देवताडे ताडी तालिदलद्रुमः । मुष्टिमेयतृणादौ च ताडः स्यात्ताडनेऽपि च ॥ Dharaṇikośa 12.2.8
- कोषकल्पतरु जीमूततृप्तौ च शक्ते त्रिषु वारणेऽन्त्ये- ऽथेन्द्रे घने भूभृति देवताडे । भृत्ये च जीमूतमुशन्ति सन्तः स्यादेधतुर्विष्णुहुताशपुंस्सु ॥ १५ ॥ Koṣakalpataru 6.16.15
- कोषकल्पतरु खरद्यूतान्तरे चाथ नरस्तु मर्त्ये ऽर्जुने तथाजेऽवरसारकेऽन्त्ये । खरो भवेद्रासभदेवताडे तिग्मेऽन्यवच्चाथ गरो गदे स्यात् ॥ ९८ ॥ Koṣakalpataru 6.27.98
- नानार्थार्णवसंक्षेप खराशुष्कपूगफले तु क्ली लताभेदे तु सा स्त्रियाम् । खरा स्याद्देवताडाख्ये रासभे तु द्वयोरथ ॥ ३०९ ॥ Nānārthārṇavasaṃkṣepa 2.5.309
- नानार्थार्णवसंक्षेप वेणिकश्चित्तु मध्ये नद्यादेर्मेष्यां स्याच्च लतान्तरे । देवताडाह्वये ना तु धातौ स्याद्वेणतावथ ॥ १२९८ ॥ Nānārthārṇavasaṃkṣepa 2.5.1298
- नानार्थार्णवसंक्षेप जीमूतजीमूतस्तु गिरौ मेघे देवताडाख्ययवल्लिषु । अथोत्तरार्धं रभसः पपाठ बहुवित्तमः ॥ ९० ॥ Nānārthārṇavasaṃkṣepa 3.2.90
- शिवकोष कर्कोटीकर्कोटी स्याद्देवताडकर्कशच्छदयोरपि । कर्कटी बीजपेश्यां स्यादिर्वारौ शाल्मलीफले ॥ १२६ ॥ Śivakoṣa 8.2.126
- शिवकोष खरखरो ना पृथुले क्लीबं देवताडाजमोदयोः । गरा गरी च जीमूते न स्त्री तूपविषे विषे ॥ ३७४ ॥ Śivakoṣa 22.2.374
- शब्दरत्नावली जीमूतजामाता दुहितुः पत्यौ सूर्यावर्चे च भर्तरि । जीमूतः पर्वते मेघे देवताडे महत्यपि ॥ Śabdaratnāvalī 7.16.103
- त्रिकाण्डशेष खराभिक्षापात्रे कपाले च खर्परस्तस्करेऽपि च । देवताडे खरा स्त्री स्यात्खरो गर्द्दभतीक्ष्णयोः ॥ ३४३ ॥ Trikāṇḍaśeṣa 3.3.343