राहु
rāhuपुं · masc.In 18 kośas: 19 synonym verses, 35 as a meaning of another word.
शुक्रो मघाभवः काव्य उशना भार्गवः कविः ॥ ११९ ॥षोडशार्चिर्दैत्यगुरुर्धिष्ण्यः शनैश्चरः शनिः ।छायासुतोऽसितः सौरिः सप्तार्ची रेवतीभवः ॥ १२० ॥मन्दः क्रोडो नीलवासाः स्वर्भाणुस्तु विधुंतुदः ।तमो राहुः सैंहिकेयो भरणीभूरथाहिकः ॥ १२१ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
मधुधेनुकचाणूरपूतनायमलार्जुनाः ॥ २१९ ॥कालनेमिहयग्रीवशकटारिष्टकैटभाः ।कंसः केशिमुरौ साल्वमैन्दद्विविदराहवः ॥ २२० ॥हिरण्यकशिपुर्वाणः कालियो नरको बलिः ।शिशुपालश्चास्य वध्या वैनतेयस्तु वाहनम् ॥ २२१ ॥
अनुष्टुप्
genderपुंmasc.
तमस्तु राहुः स्वर्भानुः सैंहिकेयो विधुन्तुदः ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
स्वर्भानुः सैंहिकेयश्च तमो राहुर्विधुन्तुदः ।केतवः शिखिनः प्रोक्ता आर्द्रालुब्धक उच्यते ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
स्वर्भानुग्रहकल्लोलः सैंहिकेयो विधुन्तुदः ।राहुरभ्रपिशाचश्च केतवो विकचाः कृशाः ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
राहुर्विधुन्तुदोऽब्जारिः सिंहिकेयस्तथातमः ।स्वर्भानुश्चंद्रमाशत्रुकेतवः शिखिनो मतः ॥ ७५ ॥
अनुष्टुप्
genderपुंmasc.
नीलो मन्दः शनिः शौरिः शौरी सौरोऽव्ययं शनैः ।सौरिः क्रोडो रेवतीजो राहुस्तु सिंहिकासुतः ॥ २०९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्तु (wrong syllable)
genderपुंmasc.
राहौ स्युर्ग्रहकल्लोल-सैंहिकेय-विधुंतुदाः ।अगु-स्वर्भानु-भरण-भारणाभ्रपिशाचकाः ॥ ५१ ॥
अनुष्टुप्
genderपुंmasc.
प्र[च?]क्षाः प्रचक्षा वाग्वाग्मी [गी]रथश्च महामतिः ।रविरिन्दुः कुजः सौम्यो वागीश उशनाः शनिः ।राहुः केतुश्चेति नव ग्रहाः खेटाश्च कीर्त्तिताः ॥ १०५ ॥
अनुष्टुप्
genderपुंmasc.
राहुर्विधुन्तुदः सैंहिकेयः स्वर्भानुरेव सः ।तथैवाभ्रपिशाचोऽपि ग्रहकल्लोल इत्यपि ॥ ११८ ॥
अनुष्टुप्
genderपुंmasc.
पङ्गुमन्दौ शनेर्नाम्नि छायेयोऽसित इत्यपि ।तमस्तु राहुः स्वर्भानुः सैंहिकेयो विधुंतुदः ॥ १३१ ॥
अनुष्टुप्
genderपुंmasc.
अहिर्विधुन्तुदो राहुः स्वर्भानुः सिंहिकासुतः ।अश्लेषाभू राहुशिरो ग्रहोल्का केतुराविकः ॥ ३२२ ॥
अनुष्टुप्
genderपुंmasc.
राहुस्तमः सैंहिकेयः स्वर्भाणु[नु]स्तु विधुंतुदः ।केतुः शिखी चाहिकः स्याद्ध्रुवस्तूत्तानपादजः ॥ ७६ ॥
metre not recognisednearly अनुष्टुप्
genderपुंmasc.
उपरागस्तु स्वर्भाणुः सैहिकेयो विधुन्तुदः ।उपप्लवस्तमो राहुर्भरणीभूरथाऽहिकः ॥ ११२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्तु (wrong syllable)
genderपुंmasc.
राहुः साल्बश्च चाणूरो बाणो वध्योऽस्य मन्यते ।वाहनं वैनतेयस्तु शङ्खोऽस्य पाञ्चजन्यकः ॥ ३०० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्य (wrong syllable)
genderपुंmasc.
च्छायासुतो भास्करिश्च मन्दो नीलाम्बरोऽपि च ।राहुरभ्रपिशाचः स्याद् ग्रहकल्लोल-सैंहिकौ ॥
अनुष्टुप्
genderपुंmasc.
नीलवस्त्रोऽसितः कालस्तमो राहुर्विधुंतुदः ।स्वर्भानुः सैंहिकेयश्च स एवाभ्रपिशाचकः ॥ १८७ ॥
अनुष्टुप्
genderपुंmasc.
राहुस्तु ग्रहकल्लोलोऽभ्रपिशाचोऽप्यथाऽहिकः ।केतुर्ज्योतिरथस्तु स्याद्ग्रहाधारो ध्रुवश्च सः ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
राहुरभ्रपिशाचश्च केतवो विकचाः कृशाः ।धूमजाः शिरिखनो ब्रह्मपुत्राः श्रीमन्त आहिकाः ॥ ३७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
राहु as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् तमस्रजो गुणे च स्त्रीपुष्पे राहौ ध्वान्ते गुणे तमः ॥ २३२ ॥ Amarakośa 3.3.232
- धरणिकोश उपरागउपरागः परीवादे राहुग्रस्तेन्दुसूर्ययोः । राहावप्युपरागः स्याद्व्यसनेऽपि प्रयुज्यते ॥ Dharaṇikośa 3.3.15
- धरणिकोश उपप्लवपराभवौ नाशावज्ञे परिप्लवौ चपलाकुलौ । उपप्लवौ राहुयोगौ जीवंजीवौ द्रुपक्षिणौ ॥ Dharaṇikośa 28.1.6
- धरणिकोश तमस्तमो ध्वान्तं तमो राहुस्तमः शोकस्तमो गुणः । रजो गुणं रजो रेणुर्योषितामार्तवं रजः ॥ Dharaṇikośa 31.2.5
- कोषकल्पतरु उपरक्तवासन्त्यामपि तिनिशे निष्कलके चोपरक्तस्तु । व्यसनातुरे च राहौ राहुगृहीते तथार्कादौ ॥ ६२ ॥ Koṣakalpataru 6.17.62
- कोषकल्पतरु कृष्णवर्त्मन्राहौ च कृष्णवर्त्मा हुताशने स्याद्दुराचारे । ब्रह्मणि तथाग्रजन्मा ज्येष्ठे भ्रातरि महीदेवे ॥ ६४ ॥ Koṣakalpataru 6.21.64
- कोषकल्पतरु खण्डपर्शुशंभौ तथा चूर्णविलेपिनि स्या- द्राहौ च खण्डामलकौषधे च । स्थाच्छृङ्खलायां[83a]कटके च पादु- कायां तथा योषिति पादपाशी ॥ ३६ ॥ Koṣakalpataru 6.30.36
- कोषकल्पतरु तमस्अदन्तमाद्येऽप्यथ पारदे स्या- च्छुक्रे च रेतोऽथ तमोऽन्धकारे । गुणे च शोकेऽथ विधुंतुदेऽस्त्री तमस्तथा पुंसि तु राहुवाचि ॥ ४ ॥ Koṣakalpataru 6.31.4
- कोषकल्पतरु ग्रहना राहावुपरागे निर्बन्धेऽनुग्रहे ग्रहणे । समरोद्यमेऽथ वृषभस्कन्धे वायौ वहो माने ॥ ३६ ॥ Koṣakalpataru 6.32.36
- नानार्थार्णवसंक्षेप मन्थिन्सोमवंशजहर्यश्वपुत्रे भूम्नि तु नीवृति । दशेरकाख्ये मन्थी तु भास्करे राहुचन्द्रयोः ॥ ९४ ॥ Nānārthārṇavasaṃkṣepa 2.2.94
- नानार्थार्णवसंक्षेप ग्रहसर्वगोसम्भवे च त्रिर्ग्रहस्तु स्यान्नवस्वपि । सूर्यादिषु विशेषाच्च राहौ निर्बन्धने तथा ॥ ३२५ ॥ Nānārthārṇavasaṃkṣepa 2.5.325
- नानार्थार्णवसंक्षेप तमस्अज्ञाने ज्वलति ध्वान्ते रात्रौ राहौ तु ना तमाः । तालः कालक्रियामाने तृणराजाख्यपादपे ॥ ५२० ॥ Nānārthārṇavasaṃkṣepa 2.5.520
- नानार्थार्णवसंक्षेप पातशिशौ द्वे त्रिः प्रशस्येऽथ पातं त्रिस्त्रातशुष्कयोः । ना तु राहौ च पतने क्ली तु त्राणे च शोषणे ॥ ७५१ ॥ Nānārthārṇavasaṃkṣepa 2.5.751
- नानार्थार्णवसंक्षेप वीरस्कन्दे कुबेरे राहौ च पुत्रे शूरे तु स त्रिषु । अजयस्तु परेऽप्याह तद्विचार्यं विचक्षणैः ॥ १२६३ ॥ Nānārthārṇavasaṃkṣepa 2.5.1263
- नानार्थार्णवसंक्षेप कबन्धशरीरे सलिले चापि रक्षोभेदे तु पुंस्ययम् । रमसस्तूदरे राहावपि भाषितवानमुम् ॥ ४०० ॥ Nānārthārṇavasaṃkṣepa 4.400
- नानार्थार्णवसंक्षेप उपरागउपरागस्तु राहौ च सक्त्याख्यव्यसने तथा । सूर्यचन्द्रग्रहे च स्यादुपरक्तौ च कीर्तितः ॥ ४१ ॥ Nānārthārṇavasaṃkṣepa 6.41
- नानार्थार्णवसंक्षेप उपप्लवराहौ चोपप्लवोऽध्यासे चेति धीराः प्रचक्षते । उपग्रहस्तु वन्दौ स्याद् ग्रहणेऽप्यनुकूलने ॥ ४३ ॥ Nānārthārṇavasaṃkṣepa 6.43
- नानार्थार्णवसंक्षेप उपप्लवसंसर्गे च समासार्थलिङ्गाद्यस्यापि पूर्ववत् । उपप्लवस्तु डमरे राहौ चान्यत् तु पूर्ववत् ॥ ९८ ॥ Nānārthārṇavasaṃkṣepa 6.98
- परमानन्दीयनाममाला खण्डपर्शुखञ्जरीटः पक्षिभेदे कृपाणव्रतचारिणि । खण्डपर्शुर्महादेवे राहावौषधरामयोः ॥ १४८ ॥ Paramānandīyanāmamālā 5.8.148
- परमानन्दीयनाममाला तमस्राहौ गुणान्तरे चाथ तोकं संतानपुत्रयोः । तापः कष्टे च संतापे तेजो मोक्षप्रभावयोः ॥ २२२ ॥ Paramānandīyanāmamālā 5.15.222
- परमानन्दीयनाममाला देवताडदेवताडः कृतान्तेऽग्नौ राहुपर्वतयोरपि । दलाढकोऽरण्यतिले नागकेसरखातयोः ॥ २५० ॥ Paramānandīyanāmamālā 5.16.250
- शब्दरत्नावली भयानकभयङ्करव्याघ्रराहुरसभित्सु भयानकः । स्त्रीजिते मृगभेदे च भवेद्भार्याटिकः पुमान् ॥ Śabdaratnāvalī 7.1.188
- शब्दरत्नावली मुण्डमुण्डो दैत्यप्रभेदे स्याद् राहो ना मुण्डिते त्रिषु । मुण्डा मुण्डीरिकौषध्यां मुण्डमन्द्रीतु मूर्द्धनि ॥ Śabdaratnāvalī 7.13.23
- शब्दरत्नावली कबन्धजले क्लीबं पुंसि कुक्षौ राहौ च राक्षसान्तरे । दुर्विधः पिशुने मूर्खे दुर्गते वाच्यलिङ्गकः ॥ Śabdaratnāvalī 7.19.27
- शब्दरत्नावली कृष्णवर्मन्धातुवादरते कांश्यकारे कारन्धमी पुमान् । स्वच्छन्दे चटके कामे कामचारी भवेत्पुमान् ॥ इक्ष्यौ वेणौ पोटगले किष्कुपर्वा पुमानयम् । अग्नौ राहौ दुराचारे कृष्णवर्मा निगद्यते ॥ कपिभिद्गन्धकभृङ्गे पुंसि स्याद्गन्धमादनः । पर्वते न स्त्रियामेष सुरायां गन्धमादनी ॥ मार्कण्डेये विधौ कङ्के चिरजीवी भवेत्पुमान् । यमे जाम्बवति क्ष्माभृत्कपिराक्षसभित्सु च ॥ Śabdaratnāvalī 7.20.133
- शब्दरत्नावली खण्डपर्शुउपदंशोऽवदंशे स्याच्शिश्नरोगविशेषके । क्रूरदृक्पिशुने मत्ते भौमे शनिग्रहेऽपि च ॥ खण्डपर्शुः पर्शुरामे शङ्करे चूर्णलेपिनि । खण्डामलकभैषज्ये राहौ भग्नरदद्विपे ॥ Śabdaratnāvalī 7.30.29
- शब्दरत्नावली तमस्तमः शोकगुणध्वन्ति क्लीबं राहुग्रहे पुमान् । तामसी निशि दुर्गायां सर्पे पुंसि खलेऽन्यवत् ॥ Śabdaratnāvalī 7.32.23
- शब्दरत्नावली ग्रहसूर्पादौ पूतनादौ च राहूपरागयोः पुमान् । ग्राहोऽवहारग्रहयोः सामान्याम्बुचरे क्वचित् ॥ Śabdaratnāvalī 7.33.5
- शब्दरत्नाकर तमस्धर्मेऽग्नौ नवनीते च तल्पं शयनजाययोः । रत्नदोषे भये त्रासस्तनुः स्त्री त्वक्शरीरयोः । त्रिष्वल्पे च कुशे चाथ तमो राहुस्तमः शुचि ॥ १९३३ ॥ Śabdaratnākara 4.1.1933
- शब्दरत्नाकर वीरहरे राहौ च वर्चोऽर्चीरूपविड्भाःसु तेजसि । वरो नावृतिजामात्रोर्देवताभ्यः समीप्सिते ॥ २००० ॥ Śabdaratnākara 4.1.2000
- त्रिकाण्डशेष मुण्डराहौ दैत्यान्तरे मुण्डो मूर्ध्न्यस्त्री मुण्डिते त्रिषु । रण्डा स्याद्विधवौषध्योर्वितण्डा शाकभिद्यपि ॥ ११६ ॥ Trikāṇḍaśeṣa 3.3.116
- त्रिकाण्डशेष कबन्धराहौ शिरःशून्यकाये कबन्धः क्लीबमम्बुनि । गोधा तले निहाकायां गन्धो गर्वे लवेऽपि च ॥ २१७ ॥ Trikāṇḍaśeṣa 3.3.217
- त्रिकाण्डशेष उपप्लवआश्रवोऽङ्गीकृतौ वश्ये आहवौ यागसङ्गरौ । उपप्लवौ राहूत्पातौ कितवौ मत्तवञ्चकौ ॥ ४१३ ॥ Trikāṇḍaśeṣa 3.3.413
- वैजयन्ती तमतनुः स्त्री त्वचि देहे च त्रिष्वल्पे विरले कृशे । तमा राहुस्तमोऽघं शुक् स्वरूपेऽधस्तलोऽस्त्रियाम् ॥ ३५ ॥ Vaijayantī 6.5.35
- वैजयन्ती वीरवीरो राहौ हरे शक्रे शूरे स्कन्दकुबेरयोः । गजग्रहणभूमौ स्त्री वारिः स्यात्सलिले नपुम् ॥ ८२ ॥ Vaijayantī 6.5.82