All kośas › Śivakoṣa
शिवकोष Śivakoṣa
587 verses · 4,629 words tagged · 786 marked doubtful (dashed)
टान्ताः · टत्रिः
स्त्रियां नागबलाकट्व्योर्मद्यभेदे तु ना स्त्रियाम् ।उच्चटा श्वेतगुञ्जायां भूधात्रीछत्रमुस्तयोः ॥ १२४ ॥
8.2.124 · p. 12
अनुष्टुप्
करटी कुसुम्भेऽक्लीबं पुंसि बिल्वकरीरयोः ।कञ्चटं तोयपिप्पल्यां तण्डुलीयकभिद्यपि ॥ १२५ ॥
8.2.125 · p. 12
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सु (wrong syllable)
कर्कोटी स्याद्देवताडकर्कशच्छदयोरपि ।कर्कटी बीजपेश्यां स्यादिर्वारौ शाल्मलीफले ॥ १२६ ॥
8.2.126 · p. 12
अनुष्टुप्
कर्कटा च कुलीरायां कर्कटं मृगलिण्डके ।करहाटे कर्कटः स्यात्कुक्कुटः शितिवारके ॥ १२७ ॥
8.2.127 · p. 12
अनुष्टुप्
गूढपत्रे कुक्कुटी च काकणन्तीरसोनयोः ।कन्दभेदे च लट्वायां मोचायामश्मभिद्यपि ॥ १२८ ॥
8.2.128 · p. 12
अनुष्टुप्
कुरण्टी शीर्षमञ्जार्यां कुरण्टः किङ्किरातके ।कुनटी मनःशिलायां नेपाल्यां च वितुन्नके ॥ १२९ ॥
8.2.129 · p. 12
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 म (wrong syllable)
चर्पटः पर्पटेऽपि स्यात् पिष्टभेदेऽपि चर्पटी ।त्रिकण्टस्त्रिकटश्चापि शृङ्गाटे गोक्षुरेऽपि च ॥ १३० ॥
8.2.130 · p. 12
अनुष्टुप्
त्रिपुटैलामल्लिकयोस्त्रिवृताबृहदेलयोः ।सतीनके तु चणके त्रिपुटश्चाथ पर्कटी ॥ १३१ ॥
8.2.131 · p. 12
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 म (wrong syllable)
पूगादिनूतनफले प्लक्षपिप्पलभेदयोः ।पर्पटी जतुकृष्णायां रजःपिष्ठभिदोर्द्वयोः ॥ १३२ ॥
8.2.132 · p. 13
अनुष्टुप्
मर्कटी शूकशिम्बायां चक्राङ्ग्यां करजान्तरे ।अपामार्गस्य भेदे च धान्यभेदे तु मर्कटः ॥ १३३ ॥
8.2.133 · p. 13
अनुष्टुप्
मार्कटो राजकर्कट्याः प्राचीनामलकस्य च ।बीजे गवेधुकायाश्च फले पुंस्यथ मोरटम् ॥ १३४ ॥
8.2.134 · p. 13
अनुष्टुप्
सप्तरात्रात्परं क्षीरेऽङ्कोटपुष्पेक्षुमूलयोः ।मोरटा पीलुपर्ण्यां च मोवाटः कृष्णजीरके ॥ १३५ ॥
8.2.135 · p. 13
अनुष्टुप्
चन्दने कदलीगर्भे शलाटुः शिवबिल्वयोः ।शार्ङ्गष्टा काकणन्त्यां च काकमाचीकरञ्जयोः ॥ १३६ ॥
8.2.136 · p. 13
अनुष्टुप्