दशन
daśanaपुं · masc.In 16 kośas: 15 synonym verses, 4 as a nānārtha head word, 9 as a meaning of another word.
दाढिका दंष्ट्रिका दाढा दंष्ट्रा जम्भो द्विजा रदाः ॥ ५८३ ॥रदना दशना दन्ता दंशखादनमल्लकाः ।
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
दानं मदो विषाणौ च दशनौ स्कन्ध आसनम् ।अपाङ्गदेशो निर्याणं कर्णमूलं तु चूलिका ॥ २१७ ॥
अनुष्टुप्
genderपुंmasc.
भुजमध्यमुरो वक्षो हृदयस्थानं च वत्समिच्छन्ति ।एकार्थाः कथ्यन्ते दशनद्विजदन्तरदरदनाः ॥ ५२७ ॥
आर्या
genderपुंmasc.
दतो रदा भक्षमल्लाः खरवोदंशका रथाः ।पुंसि क्लीबे च दशनाश्चत्वारस्तेषु मध्यगाः ॥ १५९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
मुखालंकरणो दन्तो दंशः खादन-मल्लकौ ।खरुः सीरी द्विजो जृम्भ - दशनौ न स्त्रियौ रदः ॥ १६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
मासुरी मुखरोम स्याद्दंष्ट्रा दाढा च दाढिका ।रदा दन्ता द्विजा दंशा रदना दशना अपि ॥ २४८ ॥
अनुष्टुप्
genderपुंmasc.
रसज्ञा रसना जिह्वा रसाऽप्यारसनेन्द्रियम् ।रदनो दशनो दन्तो द्विजो भ्रूर्भ्रुकुटिः कुटिः ॥ ८४ ॥
अनुष्टुप्
genderपुंmasc.
ओष्ठोऽधरो दन्तवस्त्रं तथा च रदनच्छदम् ।रदना दशना दन्ता द्विजा दंशा रदा अपि ॥ ३३ ॥
अनुष्टुप्
genderपुंmasc.
दन्ताः दंशा द्विजाः दालुः दशना रदना रदाः ॥ ९३८ ॥
अनुष्टुप्
genderपुंmasc.
दन्तो द्विजश्च खरुः स्याद् दशनो रदनो रदः ।माटी दन्तशिरा माटिर्भवेत् तालु च काकुदम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ख (wrong syllable)
genderपुंmasc.
दंष्ट्रिकायां दाढिका स्याद् द्राढिका खादने पुनः ।रदनो रदयुग्दंश-दशनौ मल्ल-मल्ल्कौ ॥ १६४ ॥
metre not recognisednearly अनुष्टुप्
genderपुंmasc.
माढिर्माढा दशनं च दंशस्त्वक्त्रं तनुत्रवत् ।कञ्चुके वारबाणः स्याद् बाणवारो धियाङ्गवत् ॥ २६९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 श (wrong syllable)
genderक्लीneut.
आस्यं मुखबिलं दन्ता दशना रदना रदाः ।रसज्ञा रसना जिह्वा समाने तालुकाकुदे ॥ १०८१ ॥
अनुष्टुप्
genderपुंmasc.
दन्तवस्त्रं च तत्प्रान्तौ सृक्वणी दशनाः पुनः ।रदनाः खादना दन्ता दंशा मल्ला रदा द्विजाः ॥ ८८ ॥
अनुष्टुप्
genderपुंmasc.
दन्तेऽद्रिशृङ्गे दशनोऽथ वर्म-ण्यन्तेऽथ भानौ तपनोऽथ तापे ।भल्लातके स्यान्नरकान्तरेऽन्त्येऽथापायदान्त्योः कदनं तथैव ॥ ११ ॥
इन्द्रवज्रा
तोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः ।दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् ।दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च ।दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः ।अक्षेषु देवनः पुंसि सेवायामपि देवना ॥ध्वजी रथे च भूदेवे भये सर्पे धराधरे ।धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके ।धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् ।धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः ।नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥नन्दी हरद्वारपाले कन्दवाले वटद्रुमे ।नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे ।अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥निदानं वत्सदामादिकारणे क्षयकारणे ।निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् ।स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु ।एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे ।प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् ।पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः ।स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु ।पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥
metre not recognisednearly अनुष्टुप्nearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable)nearly अनुष्टुप्: pāda 4, syllable 3 न (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 ल्क (wrong syllable); pāda 4, syllable 3 च (wrong syllable)
दशन as a meaning in nānārtha verses
- धरणिकोश दन्तकान्तौ प्रस्तरलोहकौ प्रियधवौ कान्ते प्रियङ्गुस्त्रियौ केतुश्चिह्नपताकयोश्च करणे केतुश्च शेषग्रहे । अन्तो नाश[स]मीपयोर्निगदितः प्रान्ते स्वरूपेऽप्यसौ द[न्तः] [34] सानुनिकुञ्जयोश्च दशने दन्ती स्मृता चौषधिः ॥ Dharaṇikośa 15.1.12
- कोषकल्पतरु दन्तवृन्तं कुचाग्रे घटवारिधार- वाचि द्वयोनं सुमबन्धनेऽपि । अद्रेर्नितम्बे दशने निकुञ्जे दन्तः स्त्रियामौषधिभेदवाची ॥ ३१ ॥ Koṣakalpataru 6.16.31
- कोषकल्पतरु द्विजन्मन्गन्धर्वपुर्यां कुहकेऽन्तिमे स्या- दथ द्विजन्मा दशने च विप्रे । सनातनः कंसरिपौ पुरारौ तथा पितॄणामतिथौ च पुंसि ॥ ३२ ॥ Koṣakalpataru 6.21.32
- नानार्थार्णवसंक्षेप दन्तवन्यायां स्त्री तु तज्जातिभेदे दंश्यल्पकेऽथ ना । दन्तः स्याद्दशने शैलकटकेऽन्यस्त्ववोचत ॥ ५७० ॥ Nānārthārṇavasaṃkṣepa 2.5.570
- नानार्थार्णवसंक्षेप द्विजब्रह्मक्षत्त्रियविट्स्वण्डजातेषु दशनेषु ना । द्विजा तु स्त्री हरेण्याख्यगन्धद्रव्ये द्विकं पुनः ॥ ५९४ ॥ Nānārthārṇavasaṃkṣepa 2.5.594
- नानार्थार्णवसंक्षेप वल्कद्वे नृजात्यन्तरे मल्लीक्षत्त्रियप्रभवेऽथ सा । नृस्त्रियोः स्यात् संवरणे वल्कस्तु दशने नरि ॥ ११७३ ॥ Nānārthārṇavasaṃkṣepa 2.5.1173
- शब्दरत्नावली दन्तदन्तः कुञ्जे च दशने दन्ती स्यादोषधीभिदि । दान्तस्तू दलिते पुंसि तपः क्लेशसहे त्रिषु ॥ Śabdaratnāvalī 7.16.16
- शब्दरत्नावली द्विजन्मन्तपोधना तु मुण्डीर्यां तपसे तु तपोधनः । द्विजन्मा भूमिदेवे ना दशने च विहङ्गमे ॥ दुर्नामा दीर्घकौष्यां स्त्री दुर्णामक्लीबमर्शसि । देवसेना शक्रपुत्री देवनासेनयोः स्त्रियाम् ॥ नागाञ्जना तु हस्तिन्यां नागयष्ट्यामपि स्त्रियाम् । क्लीबं निधुवनं कल्पे सुरते नर्मकेलिषु ॥ निर्वासनं नगरादेर्बहिष्कारे च हिंसने । निर्भत्सनमलक्ते च खलीकारे च न द्वयोः ॥ Śabdaratnāvalī 7.20.110
- त्रिकाण्डशेष दन्तविसृष्टे रक्षिते दत्तं द्रुतं शीघ्रविलीनयोः । दशने शैलशृङ्गे च दन्तः स्यादौषधे स्त्रियाम् ॥ १६० ॥ Trikāṇḍaśeṣa 3.3.160