कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

नन्दि

nandiपुं · masc.

In 9 kośas: 7 synonym verses, 6 as a nānārtha head word.

देवकी दैवकी च स्यान्मेना स्यान्मेनका तथा ।नन्दिर्नन्दी चाजगवं भवेदाजगवं तथा ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.102 · p. 144
चरुः पुमान्स्त्रियां नन्दानन्दिरालूर्गलन्तिका ।वर्द्धनी करकः पुंसि घटोऽस्त्री कलशो द्वयोः ॥ १०२ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.117 · p. 392
हृदयो वर्त्तुलः पाण्डुर्भुडिरित्येवमादयः ।नन्दिस्तु नन्दी शालङ्कायनिस्ताण्डवनालिकः ॥ ११७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.87 · p. 415
मोदो मोदः समाप्रेभ्यो मदः सम्मद इत्यपि ।नन्द्यानन्दथुरानन्दिर्नन्दिरानन्द एव च ॥ ८७ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.91 · p. 7
महाभीमो महाकालो नन्दिर्लङ्कामनोऽपि च ।नन्दिकेश्वर इत्येष नन्दिपर्याय ईरितः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.87 · p. 184
भृङ्गिणे भृङ्गिरिटिर्भृङ्गिरीटिश्च, तण्डुके ।नन्दीश-नन्दिनौ नन्दिः, कमने क-कवी विधिः ॥ ८७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.188 · p. 98
शंभरस्तु मदो हर्षः प्रमोदो मोदसम्मदौ ।आनन्दो नन्दथुर्ह्लादस्तृप्तिमुन्नन्दिहृष्टयः ॥ १८८ ॥
अनुष्टुप्
genderस्त्रीfem.
धरणिकोश Dharaṇikośa · धरणिदास दार्धश्लोकः Dharaṇikośa 17.2.3 · p. 94
कुन्दो भ्रमणयन्त्रे स्यान्निधिपुष्पप्रभेदयोः ।नन्दिरानन्द उद्दिष्टो द्यूते शुभविशेषयोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ दान्ताः Koṣakalpataru 6.19.26 · p. 235
बिन्दुः पुमान्विप्रुषि दन्तघातेत्रयेऽधिगन्तर्यथ कन्दुरुक्ता ।भोगालये स्वेदनिकागतोऽपिस्त्रीपुंसलिङ्गेऽप्यथ बन्धनेऽन्दूःभूषाभिदि स्त्री प्रमदे तु नन्दि-र्द्यूताङ्गके स्त्रीशगणे तु पुंसि ॥ २६ ॥
उपजातिःtwo metres in one verse
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.668 · p. 100
पलायिते मृते चाथ नष्टा स्त्री स्पृष्टमैथुना ।या कन्यका भवेत् तस्यां नन्दिस्तु स्त्री सुखे तथा ॥ ६६८ ॥
अनुष्टुप्
meaningsसुख
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.669 · p. 100
भेरीसंज्ञकवाद्येऽथ देवदेवस्य शूलिनः ।प्रतीहारे नृलिङ्गः स्याद् धातावपि च नन्दतौ ॥ ६६९ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास नकारादयः Paramānandīyanāmamālā 5.18.265 · p. 195
वृक्षमूले मृगे नेत्रे नन्दिर्द्युते गणान्तरे ।हर्षे नन्दी वटे गर्दभाण्डे शंकरवेत्रिणि ॥ २६५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्द्यु (wrong syllable)
शब्दरत्नावली Śabdaratnāvalī · मथुरेश दान्ताः Śabdaratnāvalī 7.18.2 · p. 228
अब्दः सम्वत्सरे मेघे युस्तके च पयोनिधौ ॥अन्दूर्भूषणभेदे स्यान्निगडेऽपि भवेत् स्त्रियाम् ।कन्दोऽस्त्री शस्यमूले स्याच्छूरणे जलदे पुमान् ॥कुन्दो मुकुन्दे निधिभिद्भूमिष्वस्त्री तु माथ्यके ।क्षोदः स्यात्पेषणे पुंसि सन्धाने च रजस्यपि ॥गदो विष्णुभ्रातरि स्याद्व्याधौ ना चायुधे गदा ।छदः पक्षे च पत्रे च ग्रन्थिपर्णे तमालके ॥छन्दोऽभिप्रायवशयोर्वेदकिन्यामनीषयोः(?) ।नन्दिर्ना नन्दिकेश्वरद्युताङ्गानन्दयोरपि ॥नदी स्त्रियान्तु सरिति शोणादौ नदः पुमान् ।नन्दाहलिञ्जरगोर्योस्तु तिथिभेदेऽपि च स्त्रियाम् ॥पुमान्नरपतौ गोपभेदानन्दनिधिष्वपि ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 श्व (wrong syllable)nearly अनुष्टुप्