कलश
kalaśaपुं · masc.In 20 kośas: 26 synonym verses, 2 as a nānārtha head word, 13 as a meaning of another word.
स्थाल्युखा पिठरं कुण्डं चरुः कुम्भी घटः पुनः ।कुटः कुम्भः करीरश्च कलशः कलसो निपः ॥ १०१९ ॥
अनुष्टुप्
genderपुंmasc.
पिठरः स्थाल्युखा कुण्डं कलशस्तु त्रिषु द्वयोः ॥ ३१ ॥
अनुष्टुप्
genderविadj.
कोशिका मल्लिका प्रोक्ता पिधानं स्यादुदञ्चनम् ।घटः करीरः कलशः कुटः कुम्भो निपः स्मृतः ॥ ३१६ ॥
अनुष्टुप्
genderपुंmasc.
कलसः कलसी च स्यात् कलशः कलशी अपि ।सरावः स्यात् शरावोऽपि कुण्डं कुण्डी च कथ्यते ॥ २२८ ॥
अनुष्टुप्
genderपुंmasc.
आदित्य-मेरु-चन्द्र-प्रासादा दीप-दण्ड-कलशाश्च ।खड्ग-हरनेत्र-शेष-स्वर्दण्डा-ङ्गुष्ठ-हस्तिकराः ॥ १ ॥
आर्या
genderपुंmasc.
तथैव विबुधैः प्रोक्तो नक्रश्च मकरो मृगः ।घटकुंभश्च कलशो मत्स्यो मीनो झषो मतः ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
चरुः पुमान्स्त्रियां नन्दानन्दिरालूर्गलन्तिका ।वर्द्धनी करकः पुंसि घटोऽस्त्री कलशो द्वयोः ॥ १०२ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
कलशं सिंहलं वन्यं वराङ्गी मुखशोधनम् ।बहुगन्धं च सुरसमुत्कटं रामवल्लभम् ॥ ४०२ ॥
अनुष्टुप्
genderक्लीneut.
कलशस्य कटाहस्य रश्मिषष्ट्योरितीहदिक् ।परलिङ्गं स्वप्रधाने द्वन्द्वे तत्पुरुषेऽपि तत् ॥ २०४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
वार्द्धनी कारकोऽस्त्री स करङ्को नालिकेरजः ।* * * * * * * * कुम्भी कुम्भीरुखा कुला ।चरुर्ना पिठरस्त्रय्यां कलशः कलसस्त्रिषु ।घटः कुम्भः करीरो ना न स्त्री कुट-निपावुभौ ।घटः कुम्भश्च मिथुने करीरोऽस्त्री कुटो निपः ॥ ६४ ॥
अनुष्टुप्metre not read in every line
genderविadj.
नल्वणः कलशस्त्रय्यां राशिर्नोन्मनमन्तिमे ।द्रोणाभ्यां शूर्पकुम्भौ *[ च ] चतुःषष्टिशरावकः ॥ १३ ॥
अनुष्टुप्
genderविadj.
पूलावहेलौ समृणालनालौसशृङ्खलौ मण्डल-कन्दलौ च ।तद्वत्प्रदिष्टः कलशस्तथेषुस्तथा कटाहं च समामनन्ति ॥ ९० ॥
उपजातिः
genderपुंस्त्रीक्लीm. f. n.
एते शब्दाः स्त्रियांभवन्ति । इयमीर्ष्याऽसूया । रुचिर्दीप्तिः अभिलाषो वा । स्फुलिङ्गा अग्निकणाः । शय्या शयनीयम् । निःश्रेणी अधिरोहणी । कोटिः सङ्ख्या । कुटी गृहम् । वाणी वाक् । पेशी मांसपिण्डी । वरूथिनी सेना । कुथा उर्णाकृता । नाडिका कालपरिमाणम् । कन्था जीर्णवासःप्रावरणम् ।नाड्युपपदं व्रणं पुंसि वृक्षजनपांसुकन्दुककलशाश्च ।पञ्जरपलितद्वन्द्वाक्षराणि विद्यादितरजातौ ॥ ६२ ॥
metre not recognised
genderपुंmasc.
कुठारो मदविष्कम्भो मन्थपात्रं तु गर्गरी ।कलशः कलशी चापि पारिकुम्भी च कुम्भिका ॥ २५० ॥
अनुष्टुप्
genderपुंmasc.
कलशोऽलिञ्जरेऽथ स्यान्महाघटमणीवकौ ।दर्विस्तु कम्बिखजकौ हसन्यङ्गारपात्रिका ॥ २९८ ॥
अनुष्टुप्
genderपुंmasc.
कोशः खड्गपिधाने स्याच्छिम्बायां च निरीक्ष्यते ।कटाहकलशौ पूलकन्दलार्गलशृङ्खलाः ॥ १७५ ॥
अनुष्टुप्
genderविadj.
कलशस्त्रिषु रावे तु शरावो वर्धमानकः ।ऋचि(ची?)षं स्रुतपानं तु कंसपात्रे प्रकीर्तितम् ॥ ४४८ ॥
अनुष्टुप्
genderविadj.
कुम्भकारः कुलालश्च कुम्भस्तु कलशो घटः ।स्वर्णकारः कलादश्च मालाकारस्तु मालिकः ॥ ५७ ॥
अनुष्टुप्
genderपुंmasc.
घटः कुम्भः करीरश्च कलशः कलसः कुटः ।निपश्चेत्यादिनामानि मन्यन्ते पण्डितै जनैः ॥ १७५३ ॥
अनुष्टुप्
genderपुंmasc.
द्वयोर्घटः कुटनिवापस्त्री तु कलशस्त्रिषु ।कलसश्च द्वयोः कुम्भः कुम्भी च कलसी घटी ॥
अनुष्टुप्
genderविadj.
कलसः कलशः कुम्भस्त्रिष्वङ्गारकपात्रिका ।हसन्तिका हसन्ती च हसनी चाम्बरीषवत् ॥ ६१ ॥
अनुष्टुप्
genderपुंmasc.
अलिञ्जरो द्वयोः कुम्भघटौ पुंसि निपः कुटः ।कलशं त्रिषु वा क्लीबे करीरः कर्करी स्त्रियाम् ॥ ८९७ ॥
अनुष्टुप्
genderपुंस्त्रीक्लीm. f. n.
नटी भ्राणञ्जकं वाटी विभण्डं द्रमिडी द्रुहम् ।कैवर्ती धीवरं रन्ध्री कलशं यवनी क्षुदम् ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
वैदेही कलशं द्रोही भ्रेणकं छाणकी लुषम् ।रथकारी मन्दुपालं मागधी मड्डुकैरिकम् ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
भृङ्गारो हेमकरकः करंको नालिकेरजः ।निपो घटः कुटः कुंभः करीरः कलशी त्रयी ॥ ५८ ॥
अनुष्टुप्
genderपुंस्त्रीक्लीm. f. n.
पात्रं शूर्पावरं पिष्टं सेहिका द्व्याढकोऽस्त्रियाम् ।कंसं चाथ चतुष्के स्युर्द्रोणोऽस्त्री कलशो घटः ॥ ५५ ॥
अनुष्टुप्
genderपुंmasc.
वर्णे तद्वति तु त्रिः क्ली मध्वासव इति श्रुते ।मद्यभेदेऽथ कलशः कुम्भे लिङ्गद्वयान्वितः ॥ ३१२ ॥
अनुष्टुप्
meaningsकुम्भ
कलश as a meaning in nānārtha verses
- धरणिकोश करीरमसूरश्च मसूरी च व्रीहौ पापरुजि क्रमात् । करीरस्तरुभेदः स्यात्कलशे वैणवाङ्कुरे ॥ Dharaṇikośa 26.2.62
- कोषकल्पतरु पलिघकाचकलशे च कलशे पलिघः प्राकारगोपुरे तद्वत् । परिघो योगविशेषे- ऽर्गलघातास्त्रेषु संदिष्टः ॥ ३६ ॥ Koṣakalpataru 6.4.36
- कोषकल्पतरु करीरपुमान्करीरः कलशे द्रुभेदे स्त्री चीरिकायां करिदन्तमूले । शौटीर उक्तः सुभटे वदान्ये किर्मीरमाहुर्नरि नागरङ्गे ॥ ५५ ॥ Koṣakalpataru 6.27.55
- नानार्थार्णवसंक्षेप कुटकट्फलादेस्तु मूले च प्रसवे च नपुंसकम् । यथाप्रयोगं बोद्धव्यं कुटस्तु कलशे पुमान् ॥ २२१ ॥ Nānārthārṇavasaṃkṣepa 2.5.221
- नानार्थार्णवसंक्षेप पवित्रमन्त्रे दध्नि ब्रह्मसूत्रे हेम्न्यर्थे कलशेऽम्बुजे । क्षीरे दर्भाङ्गुलीये तु पुन्नपुंसकयोरथ ॥ १०५३ ॥ Nānārthārṇavasaṃkṣepa 4.1053
- नानार्थार्णवसंक्षेप प्रग्रीवप्रतीकोऽवयवे ना त्रिः प्रतिकूलानुरूपयोः । प्रग्रीवमस्त्री कलशे ग्रीवाप्रासादयोरपि ॥ १०९५ ॥ Nānārthārṇavasaṃkṣepa 4.1095
- परमानन्दीयनाममाला करीरकशिपुर्भोजने वस्त्रे करीरः स्याद्द्रुमान्तरे । कलशे वैणवाङ्कूरे कपिलो वासवे मुनौ ॥ ११५ ॥ Paramānandīyanāmamālā 5.7.115
- परमानन्दीयनाममाला घटघटो गजशिरःकूटे कलशे लसतोषयोः । कर्पूरे घनसारः स्यात्पानीये मोरटेऽपि च ॥ १७४ ॥ Paramānandīyanāmamālā 5.10.174
- शब्दरत्नावली पलिघउल्लाघः प्रयते कृष्णे नीरोगदक्षयोस्त्रिषु । निदाघः स्वेदसलिले ग्रीष्मकाले तयोष्मनि ॥ पलिघः कलशे काचघटगोपुरसद्मसु । परिघोऽर्मलघाताऽस्त्रयोगभेदेषु कीर्तितः ॥ प्रतिघः प्रतिघातेऽपि क्रोधमूर्छनयोरपि ॥ Śabdaratnāvalī 7.4.8
- शब्दरत्नाकर पवित्रचतुष्पथे क्रमान्निम्ने प्रवरः शालिमुख्ययोः । पवित्रः पावके विष्णौ पवित्रं कलशे कुशे ॥ २१३४ ॥ Śabdaratnākara 4.1.2134
- शब्दरत्नाकर प्रग्रीवप्रग्रीवमस्त्री ग्रीवायां प्रासादे कलशेऽपि च । त्रिषूर्ध्वबाहुपुंमाने स्त्रीणां पुंवद्धृतिस्थितौ ॥ २१३६ ॥ Śabdaratnākara 4.1.2136
- वैजयन्ती प्रग्रीवप्रग्रीवमस्त्री कलशे ग्रीवाप्रासादयोरपि । पाटला गवि पाटल्यामाशुव्रीहिस्तु पाटलः ॥ ५६ ॥ Vaijayantī 7.5.56
- वैजयन्ती पवित्रमन्त्रे दघ्नि ब्रह्मसूत्रे हेम्न्यर्थे कलशे कुशे । पुलस्त्यवंश्ये पुरुषे पौलस्त्यः क्ली तु संयुगे ॥ ५९ ॥ Vaijayantī 7.5.59