कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

द्यूत

dyūtaपुंक्ली · m. n.

In 16 kośas: 17 synonym verses, 48 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.190 · p. 22
दुरोदरं कैतवं स्याद्द्यूतमक्षवती पणः ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शूद्रवर्गः Amarakośa 2.10.44
द्यूतोऽस्त्रियामक्षवती कैतवं पण इत्यपि ॥ ४४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.388 · p. 45
पोगण्डो विकलाङ्गः स्याल्लोहलोऽव्यक्तवाग्भवेत् ।कितवः स्याद्द्यूतकारो द्यूतमक्षवती भवेत् ।अक्षो दुरोदरं प्रोक्तं सभिको द्यूतकारकः ॥ ३८८ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.512 · p. 189
मनः समस्यारचनं छलं कोषाद्यभिज्ञता ।वस्त्रान्यथाकृतिर्द्यूतमाकर्षः शिशुचेष्टितम् ॥ ५१२ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव शूद्रादिप्रकाण्डः Kalpadrukośa 1.8.101 · p. 213
लग्नकः प्रतिभूर्द्यूतकारकस्तृणमत्कुणः ।द्यूतोस्त्रियामक्षवती दरोदरदुरोदरे ॥ १०१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.160 · p. 479
मुहूर्त्तरतमुस्तानां शतस्यैवायुतस्य च ।द्यूतपुस्तघृतानां च वरूथप्रस्थयोरपि ॥ १६० ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शूद्रवर्गः Koṣakalpataru 2.4.68 · p. 301
क्षीबश्चामी विशेष्यघ्ना मद्यरोगो मदात्ययः ।पणो ना स्यादक्षवती कैतवं च दुरोदरम् ।दरोदरं द्यूतमस्त्री * * * * * * * * ॥ ६८ ॥
अनुष्टुप्metre not read in every line
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.48 · p. 112
genderपुंक्लीm. n.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.149 · p. 120
द्यूतकर्ताक्षधूर्तश्चाक्षदेवी सभिकश्च सः ।द्यूतं दुरोदरं चाक्षवती कैतवमित्यपि ॥ १४९ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.358 · p. 146
द्यूतं मांसं परस्त्री च सुराचौर्यपणाङ्गनाः ।पापर्धिरथ वा राज्ञां मृगयाक्षाः स्त्रियः पुनः ॥ ३५८ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.141 · p. 228
genderपुंक्लीm. n.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.629 · p. 107
स्यात्तु यः स्वगृहे द्यूतं कारयत्यतिमोहितः ।अक्षे द्यूतः प्रासकश्च पाशः पाशक इत्यपि ॥ ६२९ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति शूद्रवर्गः Śāradīyākhyanāmamālā 3.4.64 · p. 40
द्यूतकारोऽक्षदेवी चाक्षधूर्तः कितवश्व सः ।द्यूतं दुरोदरं चाक्षवती पणश्च कैतवम् ॥ ६४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.752 · p. 106
अक्षवती पणः द्यूतं कैतवं स्याद्दुरोदरम् ॥ ७५२ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश शूद्रवर्गप्रक्लाशः Śabdaratnāvalī 3.8.77 · p. 158
द्यूतोऽस्त्री कैतवञ्चाक्षवती पण-दुरोदरौ ।पणोऽक्षेषु ग्लहः पुंसि अक्षदेवनपाशकाः ॥
अनुष्टुप्
genderपुंक्लीm. n.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शूद्राध्यायः Śabdaratnākara 3.5.1568 · p. 189
द्यूतकृत् कितवो धूर्तश्चाक्षदेव्यक्षदेवनः ।स्यादेवाक्षवती द्यूतमस्त्रियां कैतवं पणः ॥ १५६८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.59 · p. 140
चौरिकश्चाक्षजीवी च सभिका द्यूतकारकाः ।द्यूतोऽस्त्रियामक्षवती तद्भेदाः पञ्चिकादयः ॥ ५९ ॥
अनुष्टुप्
genderपुंक्लीm. n.

द्यूत as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् दुरोदरदुरोदरो द्यूतकारे पणे द्यूते दुरोदरम् । Amarakośa 3.3.326
  • नामलिङ्गानुशासनम् आकर्षद्यूतेऽक्षे शारिफलकेऽप्याकर्षोऽथाक्षमिन्द्रिये ॥ २२२ ॥ ना द्यूताङ्गे कर्षे चक्रे व्यवहारे कलिद्रुमे । Amarakośa 3.3.428
  • हलायुधकोशः (अभिधानरत्नमाला) आकर्षद्यूताक्षसारिफलकास्त्रयोऽप्याकर्षसंज्ञकाः । संसर्गाभिभवाक्रोशेष्वभिषङ्गः प्रकीर्त्तितः ॥ ८४५ ॥ Abhidhānaratnamālā (Halāyudha) 5.845
  • धरणिकोश पणपणो माने वराटानां मूल्ये कार्षापणे धने । द्यूते विक्रय्यशाकादेर्बद्धमुष्टौ भृतौ गृहे ॥ Dharaṇikośa 14.3.2
  • धरणिकोश नन्दिकुन्दो भ्रमणयन्त्रे स्यान्निधिपुष्पप्रभेदयोः । नन्दिरानन्द उद्दिष्टो द्यूते शुभविशेषयोः ॥ Dharaṇikośa 17.2.3
  • धरणिकोश सभानाभी प्राण्यङ्गराजन्यौ चक्रान्तचक्रवर्तिनौ । सभा सभ्याः सभा गोष्ठी सभा द्यूतं सभा गृहम् ॥ Dharaṇikośa 23.2.2
  • धरणिकोश दुरोदरआडम्बरः समारम्मे गजगर्जिततूर्ययोः । दुरोदरं पणे द्यूते द्यूतकारो दुरोदरः ॥ Dharaṇikośa 26.2.67
  • धरणिकोश कैतवकैतवं च छले द्यूते दीदिवी मुनिगिष्पती । सचिवौ मन्त्रिसहायौ पुंगवौ वृषसत्तमौ ॥ Dharaṇikośa 28.1.4
  • धरणिकोश आकर्षआकर्षः शारिफलके द्यूतपाशकयोरपि । स्यादाकर्षणमाकर्षो धनुरभ्यासवस्तु च ॥ Dharaṇikośa 30.3.4
  • कोषकल्पतरु पणधान्यांशेऽतितनौ कणो नरि युगे त्वेष स्फुलिङ्गे लवे कृष्णाजीरकयोश्च नक्तजकृमौ च स्त्री रणस्तु क्वणे । कोणेऽस्त्री तु स संगरे नरि पुनः सत्वादिसंध्यादिक- श्वेताद्येषु वृकोदरे पचिकरे रत्यां च विद्यादिंषु । व्यायामेन्द्रियदानपोपरगते(?)धर्मे च ना स्याद्गुणो- ऽथ व्यापारमुहूर्तपर्वसु महे सूक्ष्मेऽपि काले क्षणः । ना द्यूतव्यवहारवित्तभृतिषु स्याच्छ्वेंतकानां मितौ मूल्ये चामिषशाककेऽपि च पणः कार्षापणेऽपीरितः । संख्यासैन्यविशेषयोः पशुपतेर्भृत्येषु संघे गणो घ्राते घ्राण[278b]मुदीरितं च परवत्तन्नासिकायां द्विमुक् । काणो ना करटे तथैकनयने त्रय्यां स्त्रियां त्वौषधौ बाणो ना दनुजे स्त्रियां कुसुमभित्काण्डाङ्गकाण्डेषु च ॥ ३ ॥ Koṣakalpataru 6.15.3
  • कोषकल्पतरु समाह्वयवार्ते तथा वीतगदे विशेष्ये समाह्वयो द्यूतविधौ हयाद्यैः । रणे, विहारे तु महालयः स्या- त्तीर्थे[43a]परात्मन्यपि संप्रदिष्टः ॥ ८४ ॥ Koṣakalpataru 6.26.84
  • कोषकल्पतरु हारिद्यूतेऽद्रयस्तु द्रुमशैलसूर्या ऐन्द्रिर्जयन्तेऽपि च वायसे च । शद्रिर्गजाम्भोधरजिष्णुवाची निद्राप्रमीलासु तु तन्द्रि-तन्द्रे ॥ ७४ ॥ Koṣakalpataru 6.27.74
  • कोषकल्पतरु दुरोदरद्यूते पणे द्यूतकरे तु पुंसि लम्बोदरो मेदुरकुक्षियुक्ते । गजाननेऽथ प्रतिजल्पहीने श्रेष्ठेऽधरेऽनुत्तरमामनन्ति ॥ ३ ॥ Koṣakalpataru 6.27.3
  • कोषकल्पतरु कैतवस्यात्केशवः[78b]केशवति त्रिलिङ्गो- ऽथो कैतवं द्यूत इहच्छले च । स्यात्फेरवः क्रोष्टरि रक्तपे च स्याद्रौरवो भीषणनारकार्थः ॥ १९ ॥ Koṣakalpataru 6.29.19
  • कोषकल्पतरु आकर्षउत्कोचसंभोगमनोज्ञमूर्ति- रूपादिकेषु प्रथितः प्रवीणैः । आकर्ष उक्तः फलके तु सारे द्यूते तथा पाशक इन्द्रिये च ॥ ५९ ॥ Koṣakalpataru 6.30.59
  • नानार्थार्णवसंक्षेप पणपणो विक्रय्यशाकादिबद्धमुष्टौ ग्लहे धने । द्यूतेऽशीतौ वराटानां कार्षिकव्यवहारयोः ॥ ७१ ॥ Nānārthārṇavasaṃkṣepa 2.2.71
  • नानार्थार्णवसंक्षेप जैत्रक्ली द्यूते जयनेऽथ त्रिर्जयशीले स्त्रियां पुनः । जैत्र्यास्फोताख्यवल्ल्यां स्याद् विष्णुक्रान्तान्यनामनि ॥ ४९२ ॥ Nānārthārṇavasaṃkṣepa 2.5.492
  • नानार्थार्णवसंक्षेप सभासभा सभ्येषु सङ्घाते द्यूते सदसि मन्दिरे । स्त्री त्रिस्तु तत्र यद्वस्तु व्योमाद्यं भेन संयुतम् ॥ १४४३ ॥ Nānārthārṇavasaṃkṣepa 2.5.1443
  • नानार्थार्णवसंक्षेप आकर्षउपदेशेऽप्यथाकर्षो द्यूते च द्यूतपाशके । आकृष्टौ शारिफलके हस्तिनोऽवयवान्तरे ॥ १३ ॥ Nānārthārṇavasaṃkṣepa 3.2.13
  • नानार्थार्णवसंक्षेप कटित्रद्यूते रमन्ते सुस्यूते तस्मिंश्चर्मणि किञ्च तत् । रशनायां च रभसः कटिवेष्टनचर्मणि ॥ १९ ॥ Nānārthārṇavasaṃkṣepa 3.3.19
  • नानार्थार्णवसंक्षेप कैतवकेतनं स्यादकार्ये च चापे कृत्येऽथ कैतवम् । द्यूते च कपटे चाथ कैवल्यं मोक्ष एव च ॥ २५ ॥ Nānārthārṇavasaṃkṣepa 3.3.25
  • नानार्थार्णवसंक्षेप व्यवहारव्यवहारो वाक्प्रयोगे सम्बन्धे द्यूतदण्डयोः । शासने वित्तसंवादे विवादेऽसिवणिज्ययोः ॥ १०६ ॥ Nānārthārṇavasaṃkṣepa 6.106
  • नानार्थार्णवसंक्षेप दुरोदरऋक्षाख्यश्वापदेऽत्रापि समासार्थादि पूर्ववत् । दुरोदरस्तु नृनपोः पणे द्यूते नपुंसकम् ॥ २८१ ॥ Nānārthārṇavasaṃkṣepa 6.281
  • नानार्थार्णवसंक्षेप प्रतिष्कशवैजयन्ती समाम्नासीद् द्यूते प्रतिभयं पुनः । भये नपुंसकं विद्यात् त्रिषु तु स्याद्भयानके ॥ ३३० ॥ Nānārthārṇavasaṃkṣepa 6.330
  • परमानन्दीयनाममाला दुरोदरदुरोदरः पणे द्यूते पाशके द्यूतकारके । दन्दशूको भुजंगे स्याद्राक्षसेऽपि मतः सताम् ॥ २४७ ॥ Paramānandīyanāmamālā 5.16.247
  • परमानन्दीयनाममाला नन्दिवृक्षमूले मृगे नेत्रे नन्दिर्द्युते गणान्तरे । हर्षे नन्दी वटे गर्दभाण्डे शंकरवेत्रिणि ॥ २६५ ॥ Paramānandīyanāmamālā 5.18.265
  • शब्दरत्नावली पणक्लीबे घ्राणं नासिकायां घ्राते स्यादभिधेयवत् । चूर्णो धूल्यां क्षारभेदे चूणं स्यात्पटयुक्तिषु ॥ जिष्णुर्महेन्द्रार्जुनयोर्जित्वरे वाच्यलिङ्गकः । झूणि गुवाकभेदे स्याद्दुटदैवश्रुतौ स्त्रियाम् ॥ त्राणं स्यात्त्रायमाणायां रक्षिते रक्षणेऽपि च । तीक्ष्णं स्याद्विषलौहाजिमुष्ककलवणेषु च ॥ आत्मत्यागिनि तीव्रे च त्रिषु क्लीबं यवाग्रके । द्रोणोऽस्त्रियामाढके तु भवेदाढाचतुष्टये ॥ देशभेदे भारद्वाजे दग्धकाके स्त्रियां क्वचित् । तथा काष्ठाम्बुवाहिन्यां गवादन्यामपि स्त्रियाम् ॥ पणो वराटर्के मूल्ये गृहे कार्षापणेऽपि च । क्रय्ये द्यूते भृतौ वित्ते व्यवहारेऽपि पुंस्ययम् ॥ पार्ष्णि द्वयोः सैन्यपृष्ठे पादग्रन्थ्यधरेऽपि च । स्त्रियामुन्मत्तकान्तायां पार्ष्णी पार्ष्णिरिति द्विधा ॥ प्राणोऽनिले बले काव्यजीवे हृदयमारुते ॥ Śabdaratnāvalī 7.15.9
  • शब्दरत्नावली सभादम्भः स्यात्कैतवे कल्के साटोपाहङ्कृतावपि । दृन्भूश्चवज्रचक्राहिमुख्यभूतिषु च स्त्रियाम् ॥ नाभिर्ना चक्रमध्ये च क्षत्रिये मुख्यभूपतौ । द्वयोः प्राण्यङ्गमध्ये तु स्त्रियां कस्तूरिकामदे ॥ निभो व्याजे तु पुंलिङ्गः प्रकाशे सदृशे त्रिषु । रम्भः कपौ च वंशे ना कदल्यप्सरसोः स्त्रियाम् ॥ विभुर्वृद्धे प्रभौ राज्ञि ब्रह्मशङ्करयोः पुमान् । शम्भुर्महेश्वरे सिद्धे सुगते परमेष्ठिने ॥ शुभं क्षेमे शुभोयोगे शुभा कान्तीच्छयोः स्त्रियाम् । सभाद्यूते मन्दिरे च गोष्ट्यां सामाजिके स्त्रियाम् ॥ स्वभूर्विष्णौ विधौ पुंसि स्तम्भः स्थूनाजडत्वयोः । Śabdaratnāvalī 7.24.7
  • शब्दरत्नावली समाह्वयआश्रये सदसि स्थाने प्रसिद्धे च प्रतिश्रयः । हुताशने विष्णुशङ्खे पाञ्चजन्यः समीरितः ॥ पुंसा कृते तद्विकारे पौरुषेयो भवेत्त्रिषु । पुंसि बृन्दे वधे चापि पुरुषस्य पदान्तरे ॥ प्रावृज्जे त्रिषु नीपे ना प्रावृषेण्यो निगद्यते । लाभे सुरालये हर्षे भवेत्पुंसि फलोदयः ॥ परमात्मनि तीर्थे च विहारे च महालयः । अपवर्गे चाधिपत्ये कान्यकुब्जे महोदयः ॥ शुद्धौ तु कायशोधे स्यान्मार्जनीयो भवेत्पुमान् । बलरामे बुधे पुंसि रौहिणेयो भवेदिवृ ॥ कर्कटे मूषिके सर्गे पुंलिङ्गे स्याद्विलेशयः । युद्धेऽप्यायदुत्तरे स्यात्सम्परायः पुमानयम् ॥ पशुपक्षियुधि द्यूते चाह्वाने च समाह्वयः ॥ Śabdaratnāvalī 7.26.57
  • शब्दरत्नावली कैतवअभावो मरणेऽसत्त्वे कैतवं द्यूतमिथ्ययोः । कारवी मधुरादीप्यत्वक्पत्रीकृष्णजीरके ॥ Śabdaratnāvalī 7.29.27
  • शब्दरत्नाकर दरोदरद्यूते दरोदरः संधिः श्लेषे शाणे भ्रमिर्भ्रमः । स्फूर्च्छा तु विस्मृतौ मूर्च्छा व्याप्तिरूर्जा त्वरुंधती ॥ १७२७ ॥ Śabdaratnākara 3.7.1727
  • शब्दरत्नाकर पणपणस्तु कार्षिके द्यूते ग्लहे मूल्ये भृतौ धने । स्यान्मानव्यवहाराक्षविक्रयद्रव्यमुष्टिषु ॥ १९५१ ॥ Śabdaratnākara 4.1.1951
  • शब्दरत्नाकर शारिशारिर्द्वयोः कुथे द्यूते पर्याणे ना खगे स्त्रियाम् । शंसनेऽस्त्रायसोः शस्त्रं श्यामा युवतिकन्ययोः ॥ २०१६ ॥ Śabdaratnākara 4.1.2016
  • शब्दरत्नाकर सभामृतिव्यवस्थयोः संस्था सभा तु द्यूतसंसदोः । संवित् संकेतसमयप्रतिज्ञाचारनामसु ॥ २०२४ ॥ Śabdaratnākara 4.1.2024
  • शब्दरत्नाकर आकर्षआलवालेऽधिकरणे स्यादाधारोऽम्बुबन्धने । आकर्षः शारिफलकद्यूताकृष्टिषु पाशके ॥ २०५१ ॥ Śabdaratnākara 4.1.2051
  • शब्दरत्नाकर कैतवकैतवं कपटे द्यूते कारणं हेतुजन्मनोः । बबादौ कारणे काये साधने रतिबन्धने ॥ २०७१ ॥ Śabdaratnākara 4.1.2071
  • शब्दरत्नाकर व्यवहारव्यवहारो वाक्प्रयोगे विवादे द्यूतदण्डयोः । शासने वित्तसंवादे संबन्धेऽसिवणिज्ययोः ॥ २२२५ ॥ Śabdaratnākara 4.1.2225
  • त्रिकाण्डशेष कैतवखलीने स्त्री कविः पुंसि काव्यकृच्छुक्रसूरिषु । कैतवन्तु छले द्यूते राजिकायां क्षुते क्षवः ॥ ४१४ ॥ Trikāṇḍaśeṣa 3.3.414
  • उत्पलिनी लट्वालट्वा तु तूलिका ख्याता लट्वा द्यूतेऽपि दृश्यते ॥ ६६ ॥ Utpalinī 66
  • वैजयन्ती पणद्यूते विक्रय्यशाकादिबद्धमुष्टौ भृतौ धने । पक्षः पार्श्वगरुत्साध्यसहायबलभित्तिषु ॥ ३५ ॥ Vaijayantī 6.1.35
  • वैजयन्ती सभासंभाषणे क्रियाकारे विज्ञाने तोषणेऽपि च । सभा तु संसदि द्यूते गृहे सामाजिकेषु च ॥ ४२ ॥ Vaijayantī 6.2.42
  • वैजयन्ती शारिमाल्याक्षतादिदाने स्त्री ना नागेशाप्रधानयोः । ना पर्याणे विहंगे स्त्री शारिर्द्यूते गुडे नषण् ॥ ८८ ॥ Vaijayantī 6.5.88
  • वैजयन्ती आकर्षआम्नायोऽध्ययने वेदे संप्रदाये कुलेऽपि च । आकर्षः शारिफलको द्यूत आकृष्टिपाशकौ ॥ ३ ॥ Vaijayantī 7.1.3
  • वैजयन्ती कैतवकुरीरं ग्राम्यधर्मेऽब्जे कुन्नानं कुण्डशिक्ययोः । कैतवं कपटे द्यूते कृपीटमुदरे जले ॥ ८ ॥ Vaijayantī 7.3.8
  • वैजयन्ती व्यवहारव्यवहारो वाक्प्रयोगे संबन्धे द्यूतदण्डयोः । शासने वित्तसंवादे विवादेऽसिवणिज्ययोः ॥ ४३ ॥ Vaijayantī 8.1.43
  • वैजयन्ती समाह्वयसमाहारस्तु संक्षेप एकत्र करणेऽपि च । समाह्वयस्तु पक्ष्याद्यैर्द्यूते नामनि संयुगे ॥ ४७ ॥ Vaijayantī 8.1.47
  • वैजयन्ती दुरोदरदुरोदरं नपुं द्यूते पणे द्यूतकरे तु ना । नारायणी शतावर्यां लक्ष्म्यां गौर्यां च ना हरौ ॥ १० ॥ Vaijayantī 8.5.10
  • वैजयन्ती प्रतिष्कशप्रतिष्कशः पुमान् द्यूते त्रिष्वग्रगसहाययोः । अस्त्री प्रतिसरो हस्तसूत्रे ना तु चमूकटौ ॥ १४ ॥ Vaijayantī 8.5.14