शनैश्चर
śanaiścaraपुं · masc.In 18 kośas: 14 synonym verses, 26 as a meaning of another word.
शुक्रो मघाभवः काव्य उशना भार्गवः कविः ॥ ११९ ॥षोडशार्चिर्दैत्यगुरुर्धिष्ण्यः शनैश्चरः शनिः ।छायासुतोऽसितः सौरिः सप्तार्ची रेवतीभवः ॥ १२० ॥मन्दः क्रोडो नीलवासाः स्वर्भाणुस्तु विधुंतुदः ।तमो राहुः सैंहिकेयो भरणीभूरथाहिकः ॥ १२१ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
genderपुंmasc.
उशना शुक्रः काव्यो दैत्यगुरुर्भार्गवः कविर्धिष्ण्यः ।असितः क्रोडः पङ्गुश्छायातनयः शनैश्चरः शौरिः ॥ ४८ ॥
गीतिः
genderपुंmasc.
शुक्रो दितो दिवाचारः पूर्वदेवगुरुः कविः ।मन्दः खोडोऽसितक्रोडः छायापुत्रः शनैश्चरः ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.
शनैश्चरो यमः शौरी शौरार्कतनयोऽर्कजः ।रविजोभास्करिश्चार्कि छायासूतो रवेः सुतः ॥ ७२ ॥
अनुष्टुप्
genderपुंmasc.
इनो भृगुः षोडशार्चिः शतपर्वेश इत्यपि ।शनैश्चरस्तु लौहित्यः सप्तार्चिः क्रूरदृक्पथः ॥ २०८ ॥
अनुष्टुप्
genderपुंmasc.
शुक्रो दैत्यगुरुः काव्यः षोडशार्चिर्मघाभवः ।भार्गवश्च कविर्ज्ञेय उशनाश्च शनैश्चरे ॥ ११६ ॥
अनुष्टुप्
genderपुंmasc.
काव्यो दैत्यगुरुः शुक्रः षोडशार्चिर्मघाभवः ।मन्दः शनैश्चरः क्रोडः पातङ्गिः क्रूरलोचनः ॥ ३२१ ॥
अनुष्टुप्
genderपुंmasc.
शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः ।शनिः शनैश्चरः शौरिर्मन्दश्छायासुतोऽसितः ॥ ७५ ॥
अनुष्टुप्
genderपुंmasc.
उशनाश्च भृगुश्चैव दैत्यगुरुर्मघाभवः ।शनैश्चरः शनिः सौरिः सप्तार्चिःरेवतीभवः ॥ ११० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 गु (wrong syllable)
genderपुंmasc.
भार्गवेऽप्यर्कपुत्रे तु शनैश्चर-शनी-शनैः ।अव्ययं, सौरि-सौरौ द्वौ, दन्त्य-तालव्यपूर्वकौ ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
उशना भार्गवः शुक्रः काव्यो दैत्यगुरुः कविः ।शनिश्छायात्मजो मन्दः सौरिः पङ्गुः शनैश्चरः ॥ १८६ ॥
अनुष्टुप्
genderपुंmasc.
स्यात्पञ्चार्चिः श्रविष्ठाजः श्यामाङ्गैकाङ्गरोधनाः ।शनैश्चरो नीलवासा मन्दश्छायात्मजः शनिः ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
मन्दः खोडोऽसितः क्रोडश्छायापुत्रः शनैश्चरः ।सौरिः स्थिरगतिः कोणो दीर्णांगो युगवर्तकः ॥ ३५ ॥
अनुष्टुप्
genderपुंmasc.
शनैश्चर as a meaning in nānārtha verses
- धरणिकोश क्रोडरण्डा मृतधवा नारी रण्डा मूषिकपर्ण्यपि । क्रोडः शनैश्चरः प्रोक्तः क्रोडौ शूकरवक्षसी ॥ Dharaṇikośa 12.1.4
- धरणिकोश मन्दमन्दाः स्वैराल्परोगार्तमूढाभाग्यशनैश्चराः । [50] हस्तिजातिप्रभेदे च मन्दो मन्दरतो नरः ॥ Dharaṇikośa 17.3.4
- धरणिकोश ब्रह्मण्यहिरण्यं मानभेदे स्याद्धने हेमन्यकुप्यके । ब्रह्मण्यो ब्रह्मसाधुः स्याद्ब्रह्मण्यश्च शनैश्चरः ॥ Dharaṇikośa 25.2.37
- धरणिकोश वक्रइन्द्रः शक्रे च योगे च कुटजादित्यरात्रिषु । वक्रः शनैश्चरो ज्ञेयो वक्रमनृजुदुष्टयोः ॥ Dharaṇikośa 26.2.14
- धरणिकोश नीलाम्बरऔडुम्बरः श्राद्धदेवे गदमेदे च [84] कीर्तितः । नीलाम्बरौ समाख्यातौ रौहिणेयशनैश्चरौ ॥ Dharaṇikośa 26.2.72
- धरणिकोश सप्तार्चिस्सप्तार्चिर्वह्निराख्यातः सप्तार्चिश्च शनैश्चरः । अगौकाश्च नगौकाश्च शरभे सिंहपक्षिणोः ॥ Dharaṇikośa 31.2.20
- धरणिकोश शनैस्सु पूजायां तथाधिक्ये आस्तु स्यात्कोपपीडयोः । [शनैः] शनैश्चरे स्वैरे नीचैः स्वैराल्पयोः स्मृतम् ॥ Dharaṇikośa 34.20.1
- कोषकल्पतरु मन्दशर्मण्यपि स्यादथ मन्दमीष- ज्जडाविजातेषु खलेऽप्यभाग्ये । पुमांस्तु दन्तावलजातिभेदे शनैश्चरे ना तु घने च कन्दः ॥ २१ ॥ Koṣakalpataru 6.19.21
- कोषकल्पतरु ब्रह्मण्यगर्जद्वारिदवारिदस्तनितयोः स्याद्ब्रह्मसाधौ पुन- र्ब्रह्मण्योऽपि शनैश्चरे निगदितस्तूदद्रुमे तादृशः । ब्राह्मण्यं द्विजभावकर्मसु मतं स्याद्ब्राह्मणौ[41a]घे तथा शीर्षण्यं विशदे कचे च गदितं स्याच्छीर्षके चान्तिमे ॥ ६९ ॥ Koṣakalpataru 6.26.69
- कोषकल्पतरु वक्रनक्रस्तु कुम्भीरकवाचको ना क्लीबेऽग्रदारुण्यपि नासिकायाम् शनैश्चरे वक्रमुशन्ति पुंसि क्लीबं न ते स्यात्पुटभेदके च ॥ ४२ ॥ Koṣakalpataru 6.27.42
- कोषकल्पतरु क्रूरदृश्स्याद्वेष्टनेऽथाचमनाप्लवार्थः स्यात्स्पर्शमात्रेऽथ नरे च वैश्ये । भूमिस्पृगुक्तोऽथ खलेऽन्यवत्स्या- च्छनैश्चरे क्रूरदृगादिलिङ्गः ॥ ३० ॥ Koṣakalpataru 6.30.30
- नानार्थार्णवसंक्षेप कोणशनैश्चरेऽश्रौ लगुडे शब्दे कोणा तु नृस्त्रियोः । वाद्यवादनदण्डे द्वे महिषे क्षोमवाक् पुनः ॥ २९२ ॥ Nānārthārṇavasaṃkṣepa 2.5.292
- नानार्थार्णवसंक्षेप क्रोडक्रोडं क्ली कर्षमाने स्यादुत्सङ्गे द्वे तु सूकरे । क्रोडा न ना स्यादुरसि स्यात् तु पुंसि शनैश्चरे ॥ २९४ ॥ Nānārthārṇavasaṃkṣepa 2.5.294
- नानार्थार्णवसंक्षेप नीचनीचः शनैश्चरे नीचैःस्वरे च त्रि तु तद्वति । वामने च निकृष्टे च नीडं त्वस्त्री कुलायके ॥ ६९३ ॥ Nānārthārṇavasaṃkṣepa 2.5.693
- नानार्थार्णवसंक्षेप मन्दशनैश्चरे त्रि तु स्वल्पे तथाज्ञापटुरोगिषु । निर्भाग्ये च कनिष्ठे च दधिभेदे तु नप्यदः ॥ ९२९ ॥ Nānārthārṇavasaṃkṣepa 2.5.929
- नानार्थार्णवसंक्षेप यमदेवजात्यन्तरे तु द्वे स्वाषेयाख्ये तथा शुनि । यमो वैवस्वते पुंसि यमने च शनैश्चरे ॥ १०४० ॥ Nānārthārṇavasaṃkṣepa 2.5.1040
- नानार्थार्णवसंक्षेप वक्रदुश्चर्मणीति कोऽप्याहच्छिन्नपुच्छपशावपि । केचित् त्वल्पेऽथ वक्रो ना विष्णावपि शनैश्चरे ॥ ११९० ॥ Nānārthārṇavasaṃkṣepa 2.5.1190
- नानार्थार्णवसंक्षेप नीलवासस्नीलकेशी स्त्रियां नील्यां समासाद्यत्र पूर्ववत् । नीलवासास्तु पुंस्येव बलभद्रे शनैश्चरे ॥ ३२५ ॥ Nānārthārṇavasaṃkṣepa 6.325
- नानार्थार्णवसंक्षेप श्रुतकर्मन्अत्रापि पूर्ववत् सादि श्रुतकर्मा शनैश्चरे । पुमानर्थसमासादि पूर्ववत् तर्कयेदिह ॥ ६२१ ॥ Nānārthārṇavasaṃkṣepa 6.621
- शब्दरत्नावली आरअद्रिः पुंसि द्रुमे शैले मावभेदे च भास्करे । आरः शनैश्चरे भौमे त्वग्भेदिन्यामपि स्त्रियाम् ॥ Śabdaratnāvalī 7.27.4
- शब्दरत्नावली नीलाम्बरनीलाम्बरो रौहिणेये राक्षसे च शनैश्चरे । परिकरः समारम्भे पर्यङ्कवृन्दयोरपि ॥ Śabdaratnāvalī 7.27.131
- शब्दरत्नाकर शनैस्स्वः स्वर्गे सुखमार्तण्डपरलोकेष्वपि, शनैः । शनैश्चरेऽप्यथोर्ध्वे तु उपरिष्ठादुपर्यपि ॥ ९२ ॥ Śabdaratnākara 6.92
- शब्दरत्नाकर कालकालः शनैश्चरेऽनेहस्यन्तकेऽत्ययवर्णयोः । शिक्ये दृग्रुचि मृद्भेदे काचः काशः शरे त्विषि ॥ १८८० ॥ Śabdaratnākara 4.1.1880
- त्रिकाण्डशेष मन्दविप्रुट् ज्ञाता च बिन्दुः स्यान्मन्दौ स्वैरशनैश्चरौ । हस्तिभेदश्चाऽथ मदः स्यात्कस्तूरीभदानयोः ॥ २०९ ॥ Trikāṇḍaśeṣa 3.3.209
- त्रिकाण्डशेष आरआसारः स्यात्प्रसरणे वेगवृष्टौ सुहृद्बले । आरः शनैश्चरे भौमे इन्द्र आत्मनि वासवे ॥ ३३१ ॥ Trikāṇḍaśeṣa 3.3.331
- त्रिकाण्डशेष वक्रवरो जामातरि वृतौ कुङ्कुमे च नपुंसकम् । वक्रः शनैश्चरे क्रूरे पुटभेदे तथा नृजौ ॥ ३६५ ॥ Trikāṇḍaśeṣa 3.3.365