प्रजावती
prajāvatīस्त्री · fem.In 13 kośas: 13 synonym verses, 1 as a nānārtha head word.
प्रजावती भ्रातुर्जाया सूनोः स्नुषा जनी वधूः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्नु (wrong syllable)
genderस्त्रीfem.
प्रजावती भ्रातृजाया मातुलानी तु मातुली ॥ ३० ॥
अनुष्टुप्
genderस्त्रीfem.
अम्बा सवित्री जननी च माता,वप्ता च तातो जनकः पिता च ।स्नुषा जनी पुत्रवधूर्वधूः स्यात्,प्रजावती भ्रातृवधूः स्मृता च ॥ ५०४ ॥
उपजातिः
genderस्त्रीfem.
स्यात्पत्नीमातृपर्याया वीरात्तद्गुणसंयुता ।प्रजावती जाततोका प्रजाता च प्रसूतिका ॥ २९ ॥
अनुष्टुप्
genderस्त्रीfem.
पत्युः स्वसा ननन्दा स्यान्ननान्दा नन्दिनीति च ।प्रजावती भ्रातृजाया मातुलानी तु मातुली ॥ ६३ ॥
अनुष्टुप्
genderस्त्रीfem.
दौहित्री दुहितुः कन्या पौत्री नप्त्री सुतात्मजा ।प्रजावती भ्रातृजाया सपिण्डास्तु सनाभयः ॥ ९ ॥
अनुष्टुप्
genderस्त्रीfem.
द्वितीयोढा कलत्रं स्यात्कुटुम्बिन्यां पुरन्ध्र्यपि ।भ्रातृजाया प्रजावत्यां पुत्रभार्या जनी स्नुषा ॥ १८० ॥
अनुष्टुप्
genderस्त्रीfem.
भ्रातृवर्गस्य भार्यास्तु यातरः कथिता बुधैः ।प्रजावती भ्रातृजाया मातुलानी तु मातुली ॥ ९९ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रजावती भ्रातृजाया ननन्दा श्व[स्व]श्रुजस्वसा ।जनयित्री प्रसूर्माता जननी जन्मदायिनी ॥ ५२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
भ्रातुर्जाया तथा भ्रातृजाया स्याच्च प्रजावती ॥ ८०५ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
प्रजावती भ्रातृपत्नी मातुलानी तु मातुली ।पतिपत्न्योरम्विकायां श्वश्रूरपि च साश्रुधीः ॥
अनुष्टुप्
genderस्त्रीfem.
पतिपत्न्योः प्रसूः श्वश्रूः श्वशुरस्तु तयोः पिता ।ननान्दा भगिनी पत्युर्भ्रातृजाया प्रजावती ॥ ११२७ ॥
अनुष्टुप्
genderस्त्रीfem.
जाया प्रजावती भ्रातुर्ज्येष्ठभ्रातुः प्रिया वधूः ।स्नुषा वधूर्जनी सूनोर्मातुलानी तु मातुली ॥ ३६ ॥
अनुष्टुप्
genderस्त्रीfem.
स्त्री तु प्रजावती भ्रातृभार्यायां वैजयन्तिके ।पुनः पताकी त्रि स्त्री तु सेनायां स्यात् पताकिनी ॥ ११२१ ॥
अनुष्टुप्
meaningsभ्रातृभार्या