स्नुषा
snuṣāस्त्री · fem.In 14 kośas: 13 synonym verses, 8 as a meaning of another word.
प्रजावती भ्रातुर्जाया सूनोः स्नुषा जनी वधूः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्नु (wrong syllable)
genderस्त्रीfem.
स्ववासिनी चरिण्टी च चिरिण्टी च चरण्ट्यपि ।वधूट्यां पत्न्यां करात्ती गेहिनी सहधर्मिणी ॥ ४० ॥सधर्मचारिणी चापि स्नुषायां तु वधूट्यपि ।
अनुष्टुप्
genderस्त्रीfem.
समाः स्नुषाजनीवध्वश्चिरिण्टी तु सुवासिनी ।
अनुष्टुप्
genderस्त्रीfem.
अम्बा सवित्री जननी च माता,वप्ता च तातो जनकः पिता च ।स्नुषा जनी पुत्रवधूर्वधूः स्यात्,प्रजावती भ्रातृवधूः स्मृता च ॥ ५०४ ॥
उपजातिः
genderस्त्रीfem.
वधूः स्नुषा सुतस्त्री स्याच्चिरण्टी तु स्ववासिनी ।पतिप्रिया वधूटी च सुभगा च सुवासि[75a]नी ॥ २० ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
ऊर्मिश्च ध्वनिश्च अञ्जलिश्च ऊर्म्मिध्वन्यञ्जलयः । एते शब्दाः पुंसि भवन्ति । अयमूर्म्मिस्तरङ्गः । अयं ध्वनिः शब्दः ।अयमञ्जलिः करपुटः । ओष्ठकपोलगुल्फसञ्ज्ञाश्च । सञ्ज्ञाशब्दः प्रत्येकमभिसम्बध्यते । ओष्ठश्च कपोलश्च गुल्फश्च ओष्ठकपोलगुल्फाः । एतेषां सञ्ज्ञाः पर्यायास्ते पुंसि भवन्ति । अयमोष्ठः अधरः दन्तच्छदः । अयं कपोलः गण्ड इत्येवमादयः । अयं गुल्फः पादग्रन्थिः घुठः घूंठ इत्येवमादयः । घञ्च एरच्च ऋदोरप्च । "पदरुजवेगस्पृशो घञि"त्येवमादिना प्रकरणे घञो विहित इति । "येन विधिस्तदन्तस्ये"ति घञ्प्रत्ययान्ताः शब्दाः पुंसि भवन्ति । तद्यथा । पादः रोगः वेगः स्पर्शः पाकः त्यागः योगः प्रसादः भेदः छेदः दाहः दोषः प्रकारविकार इत्येवमादयः । "एरजि"ति । एरजीवर्णान्तादच्प्रत्ययः स्यात् । अयं जयः नयः । तथा "ऋदोरप्" । ऋवर्णान्तादुवर्णान्ताच्च धातोरप्प्रत्ययः स्यात् । तत्र ऋवर्णान्तात् । अयं करः वरः भरः शरः नरः । इत्येवमादयः । उवर्णान्तात् । अयं प्लवः पवः भवः इत्येवमादयः । घञन्तादन्धकारशब्दस्यापि नित्यं पुंस्त्वं स्यादित्याह । बहुलमन्धकारश्च । अन्धकारो बहुलं पुंलिङ्गे भवति । विभाषा भवतीत्यर्थः । इदं अन्धकारम् । अयं अन्धकारः । तथा चोक्तम् । "नेहागमोऽस्ति शलभस्य न मारुतस्य स्नेहक्षयोऽपि न भवेत्प्रथमे प्रदोषे । अव्यक्तवस्तुपुरुषप्रतिबोधितेन पारावतेन पतता कृतमन्धकारम् ।"प्राण्यङ्गमिदन्तं वस्तिकुक्षिपाणीन्विमुच्य सर्वं स्त्री ।जङ्घा शिरा स्नुषा नासिका चूडा वसा चैव ॥ १७ ॥
वसन्ततिलकाmetre not read in every line
ऊर्मिपुंतरङ्गपुंध्वनिपुंशब्दपुंअञ्जलिपुंकरपुटपुंओष्ठपुंअधरपुंदन्तच्छदपुंकपोलपुंगण्डपुंगुल्फपुंपादग्रन्थिपुंघुठपुंघूंठपुंपादपुंरोगपुंवेगपुंस्पर्शपुंपाकपुंत्यागपुंयोगपुंप्रसादपुंभेदपुंछेदपुंदाहपुंदोषपुंप्रकारपुंविकारपुंजयपुंनयपुंकरपुंवरपुंभरपुंशरपुंनरपुंप्लवपुंपवपुंभवपुंअन्धकारपुंक्लीवस्तिपुंकुक्षिपुंपाणिपुंजङ्घास्त्रीशिरास्त्रीस्नुषास्त्रीनासिकास्त्रीचूडास्त्रीवसास्त्री
genderस्त्रीfem.
प्राणो नाम वायुः सोऽस्यास्तीति प्राणी तस्याङ्गं प्राण्यङ्ग इकारः अन्ते यस्य तदिदन्तम् । तत्सर्वं स्त्रीलिङ्गं भवति । तद्यथा । इयं कटिः श्रोणिः अङ्गुलिः पङ्क्तिरित्यादि वस्तिकुक्षिपाणीनामपीदन्तत्वाच्च स्त्रीत्वे प्राप्ते बाधः क्रियते । एतान्विमुच्य वर्जयित्वेत्यर्थः । पुंसीत्यधिकारात्तेषां पुंस्त्वमेव भवति । अयं वस्तिः नाभेरधः । अयं कुक्षिरुदरस्थानम् । अयं पाणिर्हस्त इति । जङ्घादयः शब्दाः स्त्रियां भवन्ति । इयं जङ्घा जानुनोरधस्तात् । पादस्योपरिस्था च । इयं शिरा देहधारिणी । इयं स्नुषा पुत्रवधूः ।इयं नासिका गन्धहारिणी । इयं चूडा शिखा । इयं वसा शोणितविकारः स्नेहश्च ।स्रक्स्रुक्स्फिक्त्वग्वाग्योषितो हि विद्यात्स्त्रियां द्युनावौ च ।दीधितिमेकां[का] मुक्त्वा रश्म्यभिधानं तु पुंस्येव ॥ १८ ॥
metre not recognised
genderस्त्रीfem.
द्वितीयोढा कलत्रं स्यात्कुटुम्बिन्यां पुरन्ध्र्यपि ।भ्रातृजाया प्रजावत्यां पुत्रभार्या जनी स्नुषा ॥ १८० ॥
अनुष्टुप्
genderस्त्रीfem.
सूनोः स्नुषा वधूटी च जनी वधूश्च मन्यते ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
genderस्त्रीfem.
दिक्करी वनिका चेति धनीकापि च कुत्रचित् ।स्नुषा वधुर्वधूटी स्याद् जनी च जनिरित्यपि ॥
अनुष्टुप्
genderस्त्रीfem.
पतिवत्नी भर्तृमती प्राज्ञा प्राज्ञी च धीमती ।समाः स्नुषावधूजन्यास्तरुणी युवतिः समे ॥ १०३९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भ (wrong syllable)
genderस्त्रीfem.
स्नुषा वधूटी मधुरनिस्वना हंसगद्गदा ।सुखोष्णशीता तुहिनग्रीष्मयोर्वरवर्णिनी ।क्रोधना भामिनी चण्डी दारुस्त्रीशालभञ्जिका ॥ ३ ॥
अनुष्टुप्
genderस्त्रीfem.
जाया प्रजावती भ्रातुर्ज्येष्ठभ्रातुः प्रिया वधूः ।स्नुषा वधूर्जनी सूनोर्मातुलानी तु मातुली ॥ ३६ ॥
अनुष्टुप्
genderस्त्रीfem.
स्नुषा as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् वधूवधूर्जाया स्नुषा स्त्री च सुधा लेपोऽमृतं स्नुही । Amarakośa 3.3.196
- धरणिकोश वधूवधूर्नवोढयोषायां स्नुषाभार्याङ्गनासु च । दधि क्षीरोद्भवं वस्तु तारे दधि च वासके ॥ Dharaṇikośa 18.2.3
- कोषकल्पतरु वधूसाधुर्भवेद्वार्धुषिके मनोज्ञे स्यात्सज्जने पुंसि तु बन्धुजीवे । स्याद्बान्धवे भ्रातरि चापि बन्धु- र्वधूर्नवोढागृहिणीस्नुषासु ॥ ६७ ॥ Koṣakalpataru 6.20.67
- कोषकल्पतरु जनीपरे महर्लोकत ईरितोऽपि लोकेऽत्र लोकेऽपि जनश्च नीचे । जनी स्नुषायां स्याज्जनने घनस्तु मेघे दृढे विस्तृतिसान्द्रयोश्च । दृढेऽप्ययोमुद्गरके * गात्रे वाद्ये पुनर्मध्यमनृत्यकेऽन्त्ये ॥ ८४ ॥ Koṣakalpataru 6.21.84
- नानार्थार्णवसंक्षेप वधूऊर्मौ च गृहदारौ च वधूः स्त्रीमात्रभार्ययोः । नवोढयोषास्नुषयोः भार्यायां पूर्वजस्य च ॥ ९५ ॥ Nānārthārṇavasaṃkṣepa 2.1.95
- नानार्थार्णवसंक्षेप जनीजतुकृत्संज्ञवल्ल्यां च स्नुषातिबलयोरपि । जनिस्तु पत्न्यामुत्पत्तौ वरयोषिति च स्त्रियाम् ॥ ४६५ ॥ Nānārthārṇavasaṃkṣepa 2.5.465
- परमानन्दीयनाममाला वधूवर्तिर्दीपदशायां स्याद्विधिः कर्तव्यवेधसोः । वधूः पत्न्यां स्नुषायां च विदा ज्ञानधियोरपि ॥ ३५२ ॥ Paramānandīyanāmamālā 5.24.352
- शब्दरत्नावली उत्तराउदारो दातृमहतोरनुकूलेऽभिधेयवत् । उत्तरा स्त्री तु दिग्भेदे स्नुषायां फाल्गुणस्य च ॥ विराटतनये पुंसि क्रूरे दिव्युत्रये त्रिषु । प्रतिवाक्ये क्लीबलिङ्गमुत्तरन्तु निगद्यते ॥ एकाग्रं वाच्यलिङ्गं स्यादनाकुलैकतानयोः । औशीरमासने क्लीबं स्वापचामरदण्डयोः ॥ कृकरः पक्षिभेदे स्यात् क्रकचे पक्षिदीनयोः(?) । कदरः क्रकचव्याधिभिदोश्च खदिरे सिते ॥ कर्वुरो राक्षसे पापे जलहेम्नोर्नपुंसकम् ॥ Śabdaratnāvalī 7.27.59