कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अष्ठीवत्

aṣṭhīvatपुंक्ली · m. n.

In 12 kośas: 13 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.353 · p. 26
ऊरुसंधिर्वङ्क्षणः स्यात्सक्थ्यूरुस्तस्य पर्व तु ॥ ६१३ ॥जानुर्नलकीलोऽष्ठीवान्पश्चाद्भागोऽस्य मन्दिरः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 की (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.72
जङ्घा तु प्रसृता जानूरुपर्वाष्ठीवदस्त्रियाम् ॥ ७२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.515 · p. 59
जानुः स्यादष्ठीवान् प्रसृता जङ्घा च घुण्टको गुल्फः ।ऊरुः सक्थि पिचण्डं जठरोदरतुन्दकुक्षिगर्भाः स्युः ॥ ५१५ ॥
गीतिः
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.215 · p. 44
अस्त्र्यष्ठीवत्तस्य पर्व वारकीलोथ तस्य तु ।पश्चाद्भागे मन्दिरः स्यात्प्रत्यग्रं तदधः पुनः ॥ २१५ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.195 · p. 483
कर्माष्ठीवद्गुरुदन्तोममहिम्नां नाम पक्ष्मणोः ।धनुषः स्यादिति क्लीबपुंसयोः प्रकृतिस्थिताः ॥ १९५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.153 · p. 213
टङ्के नलकिनी टङ्गो अष्ठीवज्जानु चास्त्रियौ ।नलकीलश्चोरुपर्व पश्चाद्भागोऽस्य मन्दिरः ॥ १५३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.166 · p. 231
ब्रह्म कर्म धनुर्नामाष्ठीवत्पक्ष्मविहायसी ।शिग्रुर्भूममहिम्नी चेत्यादयः पुंनपुंसकाः ॥ १६६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.142 · p. 43
अष्ठीवच्चाथ चोरौ तु सक्थीति परिकीर्तितम् ।वङ्क्षणं तूरुसन्धौ स्याद्गुदे पायुरिति स्मृतः ॥ १४२ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.43 · p. 24
जानूरुपर्व चाष्ठीवत्प्रतिजङ्घा तु पिण्डिका ।पादः पदोंऽह्रिश्चरणश्चलनः क्रमणः क्रमः ॥ ४३ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.990 · p. 152
अष्ठीवान्नलकीलश्च जानुर्नाम त्रयं भवेत् ।पश्चाद्भागोऽस्य मन्दिरः कपोली त्वग्रिमः पुनः ॥ ९९० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 न्दि (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.269 · p. 100
टङ्का टङ्कञ्च प्रसृता स्याज्जङ्घा टङ्किकापि च ।द्वेऽष्ठीवान् अस्त्रियामेव क्लीबे जानूरुपर्वणि ॥
अनुष्टुप्
genderपुंक्लीm. n.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1063 · p. 132
अष्ठीवदस्त्री जानूर्वोः पर्वोर्वष्ठीवमित्यदः ।ऊरुश्चाष्ठीवदित्येते सक्थ्यूरुः पुंसि वङ्क्षणः ॥ १०६३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.59 · p. 177
नलतीरं तूरुपर्व जानुरष्ठीवदस्त्रियौ ।सक्थि क्लीबं पुमान्वोरुरूरुमूलानि वंक्षणाः ॥ ५९ ॥
अनुष्टुप्
genderपुंक्लीm. n.