कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śivakoṣa

शिवकोष Śivakoṣa

587 verses · 4,629 words tagged · 786 marked doubtful (dashed)

दान्ताः · दच

कटुकन्दो गृष्टिकन्दे पलाण्डौ च महौषधे ॥ २२८ ॥
14.3.228 · p. 21
कुरुविन्दोऽष्ठकुल्माषमाणिक्यव्रीहिभित्सु च ।क्लीबं तु काचलवणे रक्तपर्णे च हिङ्गुले ॥ २२९ ॥
14.3.229 · p. 21
अनुष्टुप्
अथ कोकनदं रक्तकुमुदे रक्तपङ्कजे ।खरच्छदो महापत्रे पटोले रक्तबिन्दुके ॥ २३० ॥
14.3.230 · p. 21
अनुष्टुप्
गोधापदी तालपत्र्यां हंसपद्यां च योषिति ।महाकन्दः शृङ्गवेरे रसोने शालनक्षमे ॥ २३१ ॥
14.3.231 · p. 22
अनुष्टुप्
माणके मूलके स्त्री तु विदारीकन्दरम्भयोः ।सप्तच्छदं सप्तपर्णे भेदे विचिकिलस्य च ॥ २३२ ॥
14.3.232 · p. 22
अनुष्टुप्