कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अश्रु

aśruक्ली · neut.

In 18 kośas: 19 synonym verses, 14 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.307 · p. 16
वैवर्ण्यं कालिकाथाश्रु बाष्पो नेत्राम्बु रोदनम् ।अस्रमस्रु प्रलयस्त्वचेष्टतेत्यष्ट सात्त्विकाः ॥ ३०७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.93
लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी ।दृग्दृष्टी चास्रु नेत्राम्बु रोदनं चास्रमश्रु च ॥ ९३ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.519 · p. 59
दृग्दृष्टिनेत्रलोचनचक्षुर्नयनाम्बकेक्षणाक्षीणि ।अश्रूणि वाष्परोदननयनजलाश्रास्रुनामानि ॥ ५१९ ॥
आर्या
genderक्लीneut.
बालप्रबोधिका Bālaprabodhikā · नत्कीर सप्तमोपदेशः Bālaprabodhikā 7.133 · p. 78
स्वरभेदस्तु तल्लत्वं स्वरकम्पस्तु वेपथुः ।क्रन्दितं रुदितं क्रुष्टं लोतोश्रुनयनोदकम् ॥ १३३ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.150 · p. 37
नेत्रार्थादम्बुपर्यायं बाष्पास्रावश्रु रोदनम् ।नालोतम स्त्रियामक्ष्णोरूर्ध्वं ये रोमपद्धती ॥ १५० ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.108 · p. 429
स्तम्भः स्वेदश्च रोमाञ्चः स्वरभङ्गश्च वेपथुः ।वैवर्ण्यमश्रुप्रलय इत्यष्टौ सात्त्विका गुणाः ॥ १०८ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.112 · p. 429
अस्रं चास्त्र्यस्रुबाष्पाश्रूण्यथ स्यात्प्रलयः पुमान् ।नष्टचेतस्त्वमथ च स्त्रियां चिन्ता तु चिन्तिया ॥ ११२ ॥
अनुष्टुप्
genderक्लीneut.doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.208 · p. 98
विवर्णता तु कालिका दृगम्बुबाष्पमस्त्रियाम् ।तथैव लोतमस्रु चाश्रु मुस्रमश्र-रोदने ॥ २०८ ॥
पञ्चचामरम्
genderक्लीneut.
एते शब्दाः स्त्रियां भवन्ति । इयं त्रुटिः स्वल्पः । इयं सीमा ग्राममर्यादा । इयं सन्ध्या दिनावसानम् । इयं रात्रिः शर्वरी । इयं धूलिः पांसुः । इयं वेणी केशरचना । इयं खारी परिमाणविशेषः । निशीथशब्दः पुंसि भवति । अयं निशीथोऽर्धरात्रः । ज्योत्स्नादयाशलाकाः स्त्रियां भवन्ति । इयं ज्योत्स्ना चन्द्रप्रभा । इयं दया करुणा । इयं शलाका लोहधमनी । नित्यग्रहणं विभाषानिवृत्त्यर्थम् ।पुंयोगे कर्णहनू नपुंसके श्मश्रुजानुगुदशब्दाः ।एकाभिधानता स्यादस्राश्रुणोर्नित्यम् ॥ २१ ॥
metre not recognised
genderक्लीneut.
पुंसो योगः पुंयोगः तस्मिन् कर्णहनू भवतः । यथा अयं कर्णः श्रोत्रं कुन्तीपुत्रश्च । हनुः कपोलप्रदेशः । श्मश्रुजानुगुदशब्दाः नपुंसके भवन्ति । इदं श्मश्रु मुखैकदेशरोमराजिः । इदं जानु जङ्घामध्यस्थानम् । इदं गुदमपानम् । अभिधीयतेऽनेनेत्यभिधानं एकं च तदभिधानं च तस्य भावः एकाभिधानता स्यात् भवेदित्यर्थः । अस्राश्रुणोर्नित्यं नपुंसकता भवति । इदमस्त्रम् । इदमश्रु । नयनजलमिति । एक एवार्थः नित्यवचनं पूर्ववत् ।घुसकिरुपसर्गपूर्वः पुंस्यन्योपपदे वेषुपूर्वः स्त्री ।येभ्यो नञ्तान्पुंस्युक्तान्याञ्चा विना विद्धि ॥ २२ ॥
metre not recognised
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.133 · p. 42
श्लेष्माश्रुदूषिकास्वेदा द्वादशैते नृणां मलाः ।पुरीतत्पुरितदिति स्यादान्त्रे चाथ इष्यते ॥ १३३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 त्पु (wrong syllable)
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संयोगादिवर्गः Śāradīyākhyanāmamālā 2.2.94 · p. 28
बाष्पो श्रमांशु (?) नेत्राम्बु घर्मः स्वेदः श्रमाम्बु च ।पुलकः कण्टको रोमहर्षो रोमाञ्च इत्यपि ॥ ९४ ॥
अनुष्टुप्
genderक्लीneut.doubtful
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.452 · p. 57
अस्रमस्रु च नेत्राम्बु बाष्पो लोतस्तथाऽश्रु वै ।मूर्च्छा तु प्रलयश्चैवासात्विकाऽचेष्टिताऽखित्वा ॥ ४५२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 खि (wrong syllable)
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.317 · p. 103
दैवदीपो दर्शनञ्च दृशिर्दृशी … ।अश्रू चास्रञ्च नेत्राम्वु रोदनं वाष्पमस्रू च ॥
metre not recognised
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.120 · p. 187
शमथोऽप्यथ रोमाञ्चे पुलकः पुलसंयुतः ।बाष्पेऽश्वस्रू अस्रमश्रं, चित् तान्ता चेतना मतौ ॥ १२० ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण नाट्याध्यायः Śabdaratnākara 2.8.958 · p. 120
वैवर्ण्यमश्रु प्रलय इति भावाश्च सात्त्विकाः ।निर्वेदो ग्लानिशङ्कास्मृतिधृतिमतयः प्रीतिनिद्रावहित्थाव्रीडेर्ष्यासुप्त्यसूया मरणमलसतोन्मादहर्षावमर्षाः ।तर्कापस्मारमोहश्रममदजडिमव्याधिवेगा विषादोगर्वश्चिन्तौग्य्रदैन्ये भयमपि चपलत्वं च संचारिभावाः ॥ ९५८ ॥
अनुष्टुप्two metres in one verse
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण नाट्याध्यायः Śabdaratnākara 2.8.964 · p. 121
सर्वस्वभूतः पञ्चेषोः शृङ्गारः शुचिरुज्वलः ।स्निग्धं निष्पन्दमन्दस्तिमितविहसितन्यञ्चिताकुञ्चितानिस्मेरानन्दिप्रसन्नस्थिरमसृणमहीत्यश्रुविष्फारितानि ।प्रेङ्खोलोल्लासिलोलप्रणयिविलुलितप्रेमगर्भत्रिभङ्गि-व्यासङ्गिस्फीतकान्तीन्यलसमदनकह्लादिरूक्षाञ्चितानि ॥ ९६४ ॥
अनुष्टुप्two metres in one verse
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण नाट्याध्यायः Śabdaratnākara 2.8.1012 · p. 126
दशनक्षतरेखाश्चेत् संहताः क्रोडचर्वितम् ।अवहित्थं न नाकारगुप्तिरश्रु तु रोदनम् ॥ १०१२ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.87 · p. 143
क्रन्दितं रुदितं क्रुष्टं लोतोऽश्रु नयनोदकम् ।अस्रु रोदनमास्त्रं च क्रीडा खेला च कूर्दनम् ॥ ८७ ॥
अनुष्टुप्
genderक्लीneut.

अश्रु as a meaning in nānārtha verses