रोगभेद
rogabhedaIn 4 kośas: 0 synonym verses, 23 as a meaning of another word.
रोगभेद as a meaning in nānārtha verses
- कोषकल्पतरु भस्मकदुण्डकस्तिन्दुके वाच्यवन्निष्ठुरे भस्मकं रूप्यके जन्तुहारिण्यपि । रोगभेदे पुमांश्चुम्बकस्त्वादिमे स्यादयस्कान्तके ****** ॥ Koṣakalpataru 6.1.99
- कोषकल्पतरु विदारधूर्तेऽथ मन्दारतरौ गजेऽथ रणे विदारो नरि दारणे च । स्त्री शालपर्ण्यामपि रोगभेदे तथेक्षुगन्धार्थक ईरितोऽपि ॥ ४२ ॥ Koṣakalpataru 6.27.42
- नानार्थार्णवसंक्षेप चारिरोगभेदे पशूनां च लक्षणीयेऽथ मूर्धनि । चूडा शिखावलभ्योश्च चूलिस्तु धनुषोऽटनौ ॥ ३५ ॥ Nānārthārṇavasaṃkṣepa 2.1.35
- नानार्थार्णवसंक्षेप ग्रन्थिसन्धौ ग्रन्थनदेशे च रज्जुवस्त्रादिवस्तुनः । रोगभेदेऽप्यथ गरुत् पक्षिपक्षे च तेजसि ॥ ४५ ॥ Nānārthārṇavasaṃkṣepa 2.2.45
- नानार्थार्णवसंक्षेप विषूचीतदा विषूची स्त्री त्वेव रोगभेदे विषूच्यथ । इदं सर्वत इत्यर्थे स्यादव्ययमथो विराट् ॥ १२६० ॥ Nānārthārṇavasaṃkṣepa 2.5.1260
- नानार्थार्णवसंक्षेप शर्करारोगभेदे सितायां च शकलाल्पकपालयोः । शर्करावत्प्रदेशे च गुडे चाप्याह यादवः ॥ ९० ॥ Nānārthārṇavasaṃkṣepa 3.1.90
- नानार्थार्णवसंक्षेप पनसरभसस्त्वाह शब्दज्ञः कण्टकेऽपि स्त्रियां पुनः । रोगभेदेऽथ वृक्षस्य पनसस्य फले नपि ॥ ११०५ ॥ Nānārthārṇavasaṃkṣepa 4.1105
- नानार्थार्णवसंक्षेप उपनाहउपनाहस्तु वैरानुबन्धे वीणानि?धने । पद्मलोचनसन्धिस्थरोगभेदे च मन्वते ॥ ४७ ॥ Nānārthārṇavasaṃkṣepa 6.47
- नानार्थार्णवसंक्षेप उपद्रवचतुर्थ्यां सामभक्तौ स्याड्डमरे चाप्युपद्रुतौ । प्रधानरोगानुचरे रोगभेदे त्रिषु त्वयम् ॥ ९५ ॥ Nānārthārṇavasaṃkṣepa 6.95
- परमानन्दीयनाममाला ककुभककुभो भूरुहे रोगभेदे वीणाप्रसेवके । कञ्चुको वृक्षनिर्मोकवारबाणेषु कञ्चुके ॥ १२३ ॥ Paramānandīyanāmamālā 5.7.123
- शब्दरत्नावली वल्मीकवल्मीको रोगभेदे ना तथा नाकौ च न स्त्रियाम् । बन्धूकः पीतशाले स्यात् बन्धूकं बन्धूजीवके ॥ Śabdaratnāvalī 7.1.110
- शब्दरत्नावली भङ्गभङ्गा शस्यभेदे भङ्गः पराजयतरङ्गयोः । रोगभेदे भये पुंसि भङ्गिस्त्रियामनुक्रमे ॥ Śabdaratnāvalī 7.3.12
- शब्दरत्नावली उपसर्गतथा विधुन्तुदे चैव ग्रहणे चन्द्रसूर्ययोः । उपसर्गो रोगभेदे प्राणिषु स्यादुपप्लवे । कटभङ्गः शस्यहस्तछेदे चैव नृपात्यये ॥ Śabdaratnāvalī 7.3.54
- शब्दरत्नावली गर्तकुन्ती पृथायां शल्लक्यां गुग्गुलौ बाणभेदके । कृतं स्यादलमर्थे च विहिते युगभेदके ॥ हिंसिते त्रिषु च क्लीबे कृत्तन्तु छिन्नचेष्टिते । स्यात्कृतिः करणे चैव हिंसायामपि च स्त्रियाम् ॥ कृत्तिश्चर्मणि भूर्जे च कृतिकायां त्वचि स्त्रियाम् । केतुः पुंसि पताकारुक्ग्रहोत्पातलक्षणेषु च ॥ गर्तोऽवटे त्रिगर्ते च रोगभेदे कुकुन्दरे । ग्रस्तं लुप्तवर्णपदे क्लीबं ग्रासीकृतेऽपि च ॥ Śabdaratnāvalī 7.16.9
- शब्दरत्नावली दरत्तरत्प्लवे स्त्रियामेव कारण्डविहायसि । दरत्प्रपाते भीतौ च रोगभेदे च पर्वते ॥ दारदः पारदे पुंसि विषभेदे च हिङ्गुले । दायादस्तनये पुंसि सपिण्डे च सगोत्रके ॥ नलदं स्यादूशीरे च मांस्यां पुष्परसेऽपि च ॥ Śabdaratnāvalī 7.18.15
- शब्दरत्नावली पूतनाक्लीबलिङ्गं पुमानयं भवेदाम्रातके मतः । पूतना दानवीपथ्यारोगभेदेषु च स्त्रियाम् ॥ पृतना तु स्त्रियां सेनामात्रे सेनाविशेषके । प्रेमाऽस्त्री नर्मणि स्नेहे प्रेमा ना रतिशक्रयोः ॥ Śabdaratnāvalī 7.20.61
- शब्दरत्नावली विष्टम्भवल्लभोऽध्यक्षदयितशुभलक्षपावाजिषु । वर्षाभूः स्त्री तु शोथघ्न्या भूवल्ली भेकयोः पुमान् ॥ विष्कम्भः प्रतिबन्धे च विस्तारयोगभेदयोः । योगिबन्धभेदेऽर्गलारूपकाङ्गप्रभेदयोः ॥ विस्रम्भः प्रणये केलिकोपविश्वासयोरपि । विष्टभ्यो रोगभेदे स्यात्प्रतिबन्धे भवेत्पुमान् ॥ वैदर्भं वाक्यवक्तत्वे वेदर्भी रीतिभिद्यपि । शरभः पशुभेदे स्यात्करमे वानरेऽपि च ॥ सनाभिः सदृशे पुंसि ज्ञातौ स्नेहयुतेऽपि च । सुरभिः शल्लकीमातृसुरागोष्वपि च स्त्रियाम् ॥ वसन्ते चम्पके जातीफलगन्धफले पुमान् । क्लीबं गन्धाश्मनि स्वर्गे सुगन्धिकान्तयोस्त्रिषु ॥ Śabdaratnāvalī 7.24.13
- शब्दरत्नावली आमआमोऽपक्वेऽन्यलिङ्गः स्याद्रोगरोगभिदोः पुमान् । उमा गौर्य्यतसी कीर्तिहरिद्राकान्तिशान्तिषु ॥ Śabdaratnāvalī 7.25.2
- शब्दरत्नावली प्रदरपवित्रं कुशताम्राप्सु क्लीबं मेद्ये तु वाच्यवत् । प्रदरो भङ्गशरयो रोगभेदविदारयोः ॥ Śabdaratnāvalī 7.27.83
- शब्दरत्नावली विदारीविदारी रोगभेदे स्याच्छालपर्णीक्षुगन्धयोः । विवरं दूषणे गर्ते विसरः प्रसरे व्रजे ॥ विहारी भमणे स्कन्धे सुगतालमलीलयोः । शल्वरः(?) शङ्करम्लेच्छविशेषखलभित्सु च ॥ Śabdaratnāvalī 7.27.101
- शब्दरत्नावली औदुम्बरउपकारस्तूपकृतौ विकीर्णकुसुमादिके । औदुम्बरो रोगभेदे भवेद्वैवस्वते पुमान् । कर्मकरो यमे भृत्ये वेतनाजीवितेऽपि च ॥ Śabdaratnāvalī 7.27.119
- शब्दरत्नावली द्वंद्वसमासे तु भवेत्पुंसि रोगभेदे च कुत्रचित् । दार्वी दारुहरिद्रायां स्त्रियां गोजिह्विकौषधौ ॥ Śabdaratnāvalī 7.29.10
- शब्दरत्नावली पनसापनसा रोगभेदे स्याद्वानरीराक्षसीभिदोः । पयः क्षीराम्बुनोः क्लीबं पुक्कसश्वपचेऽधने ॥ Śabdaratnāvalī 7.32.26