कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

आलान

ālānaक्ली · neut.

In 13 kośas: 12 synonym verses, 3 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1230 · p. 47
तोत्त्रं वेणुकमालानं बन्धस्तम्भोऽङ्कुशः सृणिः ॥ १२३० ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.41
तोत्रं वेणुकमालानं बन्धस्तम्भेऽथ शृङ्खले ।अन्दुको निगडोऽस्त्री स्यादङ्कुशोऽस्त्री सृणिः स्त्रियाम् ॥ ४१ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.221 · p. 27
सज्जितः कल्पितो ज्ञेयो बहूनां घटना घटा ।चूषा कक्ष्या वरत्रा स्यादालानं स्तम्भ उच्यते ॥ २२१ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.174 · p. 108
तोत्रं वेण्डकमालानं निर्वाणं वैणुकं पुनः ।नालिकाकर्णवेधिन्यामथ स्यादङ्कुशोऽस्त्रियाम् ॥ १७४ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.2 · p. 253
प्रारब्धिः प्रतिमा हस्तिबन्धो वारीभबन्धभूः ।आलानं त्वस्त्रियां बन्धस्तम्भोऽथ तलभं भवेत् ॥ २ ॥
अनुष्टुप्
genderपुंक्लीm. n.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.144 · p. 70
गात्रयोर्बन्ध इत्येवं वैणुकं तोत्रमुच्यते ।बन्धस्तम्भस्तथालानमङ्कुशः सृणिरित्यपि ॥ १४४ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2226 · p. 364
वेणुकं वैणुकं तोत्रं वेणुकस्येति नाम वै ।आलानं नाम मातङ्गबन्धस्तम्भश्च मन्यते ॥ २२२६ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.240 · p. 127
शङ्कुरालानमक्षोडो बन्धस्तम्भे च हस्तिनाम् ।हिञ्जीरो निगडोऽस्त्री स्यादन्दुकः शृङ्खलं त्रिषु ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.710 · p. 91
शृङ्गारोऽलंक्रिया तोत्रं वैणुकं कदली ध्वजः ।आलानं बन्धनस्तम्भे कीलशङ्कुध्रुवाः समाः ॥ ७१० ॥
अनुष्टुप्
genderक्लीneut.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव क्षत्त्रियवर्गः Trikāṇḍaśeṣa 2.8.39 · p. 67
न ना गात्रावरे नाली कर्णारा कर्णवेधनी ।आलानं शङ्कुरक्षोभः प्रारब्धिर्गजबन्धनी ॥ ३९ ॥
अनुष्टुप्
genderक्लीneut.
उत्पलिनी Utpalinī · व्याडि Utpalinī 15 · p. 47
महाकपाल आलानः सन्तापनविलापनौ ।महाकपोल ऐलोजः शङ्खकर्णः खरस्तपः ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.82 · p. 110
मुखे पृषन्ति पद्मानि वमथुः करशीकरः ।प्रवृत्तिर्मद आलानं स्तंभस्तोत्रं तु वेणुकम् ॥ ८२ ॥
अनुष्टुप्
genderक्लीneut.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नपुंसकलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.3.8 · p. 33
आस्पदं तु भवेत् कृत्ये स्थाने चालानवाक् पुनः ।आदाने स्तम्भमात्रे च बन्धनार्थे च हस्तिनाम् ॥ ८ ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2047 · p. 248
आसनं वारणस्कन्धे आस्पदं स्थानकृत्ययोः ।स्तम्भमात्रेऽपि चालानमाशंसा स्तववाञ्छयोः ॥ २०४७ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नपुंसकलिङ्गाध्यायः Vaijayantī 7.3.3 · p. 250
अनूकमन्वये शीलेऽप्यास्पदं स्थानकृत्ययोः ।स्तंभमात्रेऽपि चालानं हस्तिनोंऽसेऽपि चासनम् ॥ ३ ॥
अनुष्टुप्