कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वारि

vāriक्ली · neut.

In 23 kośas: 33 synonym verses, 7 as a nānārtha head word, 31 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य जलकायः Abhidhānacintāmaṇi 4.2.1 · p. 42
नीरं वारि जलं दकं कमुदकं पानीयमम्भः कुशंतोयं जीवनजीवनीयसलिलार्णांस्यम्बु वाः संवरम् ।क्षीरं पुष्करमेघपुष्पकमलान्यापः पयःपाथसीकीलालं भुवनं वनं घनरसो यादोनिवासोऽमृतम् ॥ १०६९ ॥कुलीनसं कबन्धं च प्राणदं सर्वतोमुखम् ।
शार्दूलविक्रीडितम्
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1229 · p. 47
बिन्दुजालं पुनः पद्मं शृङ्खलो निगडोऽन्दुकः ।हिञ्जीरश्च पादपाशो वारिस्तु गजबन्धभूः ॥ १२२९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 श्च (wrong syllable)
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वारिवर्गः Amarakośa 1.10.2
आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलम् ।पयः कीलालममृतं जीवनं भुवनं वनम् ॥ ३ ॥कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम् ।अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बुशम्बरम् ॥ ४ ॥मेघपुष्पं घनरसस्त्रिषु द्वे आप्यमम्मयम् ।
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.648 · p. 74
आपस्तोयं घनरसपयः पुष्करं मेघपुष्पं,कं पानीयं सलिलमुदकं वारि वाः शम्बरं च ।अर्णः पाथः कुशजलवनं क्षीरमम्भोऽम्बु नीरं,प्रोक्तं प्राज्ञैर्भुवनममृतं जीवनीयं दकं च ॥ ६४८ ॥
मन्दाक्रान्ता
genderक्लीneut.
बालप्रबोधिका Bālaprabodhikā · नत्कीर नवमोपदेशः Bālaprabodhikā 9.163 · p. 81
जलन्तु सलिलं नीरं क्षीरं वारि शम्बरम् ।शरं सारं जडं कुम्भमम्भश्चापश्च कथ्यते ॥ १६३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.173 · p. 108
वारिर्वारी च प्राची च प्रारब्धिश्च स्त्रियामिमाः ।गात्रबन्धे तु त्रिपदी चैकस्मिन्नपरेऽपि च ॥ १७३ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 च (wrong syllable); pāda 3, syllable 5 तु (wrong syllable)
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.12 · p. 345
दैव्यं सलं विषं यादः पर्यायेभ्यो गृहार्थकम् ।ऋतमापो बन्धकं षण् न ना वारि कमव्ययम् ॥ १२ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.39 · p. 465
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वारिवर्गः Koṣakalpataru 1.7.1 · p. 98
स्त्रियामापो वारो बहुषु सलिलं वारि सरिलंजलं पाथः पीथं दकमुदकमम्भोऽम्बु च पयः ।कबन्धं कं पाथं घृतममृतमर्णो जनहितंकृपीटं पानीयं जलदकुसुमं पावन-वने ॥ १ ॥
शिखरिणी
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीलिङ्गाधिकारः Koṣakalpataru 4.2.34 · p. 98
स्रुग्गीतिवल्लीभिदि बन्धुता स्या-द्गजस्य बन्धे घटिकासु वारिः ।क्ष्वेडा तु शल्यध्वनिवाद्यभेदेस्याद्दुन्दुभिः पाशकबिन्दुवाची ॥ ३४ ॥
उपजातिः
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीपुंसलिङ्गाधिकारः Koṣakalpataru 4.4.23 · p. 109
वारिपर्ण-फण-शाण-पार्ष्णयःस्यात्सृणिर्द्रुभिदि वाण ईरितः ।स्यात्स्फुलिङ्गलववाचकः कणः ।स्यात्करेणुरिभयोर्हरेणुवत् ॥ २३ ॥
रथोद्धता
genderपुंस्त्रीm. f.
स्थूणोर्ण इति । स्थूणा चोर्णा च स्थूणोर्णे स्त्रीयोगे स्तः स्त्रीलिङ्गे भवत इत्यर्थः । इयं स्थूणा काष्ठमयी द्विकर्णिका । इयमूर्णा मेषलोमा । तयोरेव स्थूणोर्णयोर्यथासङ्ख्यगृहशशपूर्वकयोर्नपुंसकत्वम् । इदं गृहस्थूणम् । इदं शशोर्णम् । शशपूर्वकयोरिति किम् । इह मा भूत् इयं स्थालास्थूणा । इयं मेषोर्णा । सर्वशब्दो निर्विशेषवाची । सर्वमक्षिनाम जलनाम च नपुंसके भवति । अक्षिनाम तावत् । इदमक्षि लोचनं नेत्रं नयनं चक्षुर्दृगम्बकमीक्षणादि ।जलपर्याय इदं जलं तोयं सलिलमम्बु नीरं वार्वारि काननमुदकं वनमित्येवमादि । जलशब्दत्वादप्शब्दस्यापि नपुंसकत्वं प्राप्नोतीत्याह मुक्त्वापः अप्शब्दं वर्जयित्वेत्यर्थः । अस्य हि स्त्र्यधिकारात्स्त्रीत्वम् । इमा आपः बहुवचनान्तः सदैव ।जलकुसुमनाम सर्वं नपुंसकं स्यात्पद्मस्तु विभाषया ।अभ्रादृतेऽम्बुदाख्या हि केशनखदन्तसञ्ज्ञाश्च ॥ १४ ॥
metre not recognised
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 15 · p. 7
genderक्लीneut.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1241 · p. 149
वातिस्तु वायौ ना धातौ गतिगन्धनकर्मणि ।स्त्री तु तत्क्रिययोः शोषे वारिस्तु स्त्री मतङ्गजाः ॥ १२४१ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.344 · p. 47
पानीयं जीवनं तोयं शंवरं नीरवारिणी ।पुष्करं कं जलं पाथः सलिलं सर्वतोमुखम् ॥ ३४४ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.143 · p. 70
शृङ्खलः पादपाशस्तु हिञ्जीरनिगडान्दुकाः ।वारिस्तु गजबन्धस्य भूमिः स्यात्त्रिपदी त्वथ ॥ १४३ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास स्त्रीलिङ्गसंग्रहः Paramānandīyanāmamālā 6.2.40 · p. 215
शल्यवाद्यभिदोः क्ष्वेडा वारिः स्त्री गजबन्धभूः ।अश्मन्ते त्वन्तिकारण्यानी यवानी हिमान्यपि ॥ ४० ॥
अनुष्टुप्
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.293 · p. 62
कुथे प्रवेण्यास्तरणं परिस्तोमः कुथापि च ।स्याद्वि(द्वी?)तं त्वबले दन्तिग्रहगर्ते तु वारि च ॥ २९३ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट पाताललोकसर्गः Paryāyaśabdaratna 3.27 · p. 125
वार्वारि कीलं कीलालं कमलं कि(को?)मलं जलम् ।जीवं च जीवनं चैव भुवनं वनमित्यपि ॥ २७ ॥
अनुष्टुप्
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त जलभानुः Pañcatattvaprakāśa 3.280 · p. 20
अमृतं जीवनं वारि सलिलं भुवनं पयः ।कबन्धमर्णोम्भस्त्योयमुदकं ककुशं शरम् ॥ २८० ॥
अनुष्टुप्
genderक्लीneut.
संसारावर्त Saṃsārāvarta · विक्रमादित्य Saṃsārāvarta 14 · p. 467
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.110 · p. 12
नीरं वारि जलं तोयं पानीयं सलिलं कुशम् ।अम्भोऽर्णोऽम्बु पयः पाथः शम्बरं जीवनं वनम् ॥ ११० ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि अप्कायनामानि Suśīlanāmamālā 5.2.1854 · p. 303
वारि वारं जलं क्षीरं नीरं नारं कुलीनसम् ।जीवनं जीवनीयं च भुवनं भवनं वनम् ॥ १८५४ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2225 · p. 364
गजस्य बन्धनस्थानं वारिर्वारी निगद्यते ।त्रिपदी गात्रयोर्बन्ध एकस्मिन्नपरेऽपि च ॥ २२२५ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.39 · p. 39
वार्वारि तोयमुदकं नीरपानीयसम्बरम् ।अम्भः क्षीराम्बु सलिलं सर्वतोमुखजीवनम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.244 · p. 127
अथ वारिश्च वारी स्यात् प्रारब्धिर्गजबन्धनी ।आरण्यादिकमातङ्गा बध्यन्ते यत्र रज्जुषु ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.295 · p. 242
शृङ्खलस्त्रिषु हिञ्जीरे निगडो निगलोऽन्दुकः ।अन्दूर्गजबन्धभूमौ वारिर्वारी च तोत्रके ॥ २९५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ज (wrong syllable)
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.318 · p. 43
अम्भःपुष्करवारितोयजलवाःपाथोवनार्णःपयः-पनीयोदकमेघपुष्पसलिलक्षीराम्बुनीरामृतम् ।कीलालं भुवनं कबन्धकमले तज्जीवनं शम्बरंनारः पुंसि कमव्यये धनरसो नापस्तु भूम्नि स्त्रियाम् ॥ ३१८ ॥
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्: pāda 2, syllable 1 प (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वसुंधराध्यायः Śabdaratnākara 2.1.398 · p. 53
पक्कणः शबरावासो घोष आभीरपल्लिका ।जाङ्गलो निर्जलो देशो विरलद्रुमपर्वतः ।अवपातस्तु वारिः स्त्री वारणग्रहणक्षितौ ॥ ३९८ ॥
अनुष्टुप्
genderस्त्रीfem.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मातृकानिघण्टु Tantrābhidhāna 5.55 · p. 40
वातो मरुच्चाग्निवह्निधरा क्ष्मा जल-वारिणी ।विभुः खञ्च चरः शुचिर्भूर्वनं स्वञ्च शक्तियुक् ॥ ५५ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 7 शु (wrong syllable)
genderक्लीneut.
तन्त्राभिधान Tantrābhidhāna · अज्ञात क्ष Tantrābhidhāna 8.52.59 · p. 60
जलं वारि वनं वा कं पाथस्तोयं रसोऽम्बु हृत् ।दशानां जलवर्णानां संज्ञोक्ता पूर्वसूरिभिः ॥ ५९ ॥
अनुष्टुप्
genderक्लीneut.
तन्त्राभिधान Tantrābhidhāna · अज्ञात जलवर्णाः Tantrābhidhāna 9.4.1 · p. 60
जलं-ऋ, वारि-ॠ, वनं-औ, वाः-घ, कं-झ, पाथः-ढ, तोयं-ध, रसः-भ, अम्बु-व, हृत्-स
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश जलाध्यायः Vaijayantī 4.2.1 · p. 154
सलिलं मलिनं तोयं मरुलं मेघजं कतम् ।नीरं वारि पयोंऽभोऽर्णो मेघपुष्पं कुलीनसम् ॥ १ ॥
अनुष्टुप्
genderक्लीneut.
धरणिकोश Dharaṇikośa · धरणिदास रार्धश्लोकः Dharaṇikośa 26.2.6 · p. 166
वारि स्याद्वालके तोये वारिस्तु गजबन्धिनी ।कारा बन्धे तदागारे कारो निश्चयहिंसयोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.71 · p. 313
पूज्येऽन्यवत्स्यादथ राज्ञि पुंसिनदीपुरोः स्त्री च पुरिः प्रदिष्टः ।शिरिः पुमान्स्याच्छलभे शरारौविशेष्यवद्वारि तु बालकेऽन्त्ये ॥ ७१ ॥
उपजातिः
meaningsबालक
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.72 · p. 313
तोये स्त्रियां वाग्गजबन्धभूमी-घटीषु शारिस्तु पुमान्प्रदिष्टः ।द्यूतार्थमूर्त्तिष्वथ योषिति स्या-च्चित्रेक्षणायां(?) व्यवहारभेदे ॥ ७२ ॥
उपजातिः
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1242 · p. 149
यत्र देशेषु गृह्यन्ते तत्र त्वाहाजयः कृती ।कलश्याप्सु तु न क्लीबे वाशिस्तु नरि पावके ॥ १२४२ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.36 · p. 267
देशभेदे पुमानेव पिङ्गलेऽपि च वाच्यवत् ।वक्रः शनौ पुटे क्लीबं कुटिलक्रूरयोस्त्रिषु ॥वारी मतङ्गवन्धन्यां कलस्यामपि च स्त्रियाम् ।वारिर्वाणीभ-वन्धन्योः स्त्रियां क्लीबेऽम्बुवालयौः ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1996 · p. 243
व्युष्टिः फले समृद्धत्वे वेगः किंपाकरंहसोः ।क्लीबे वारिजले स्त्री तु वारणग्रहणस्थले ॥ १९९६ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 6.5.82 · p. 236
वीरो राहौ हरे शक्रे शूरे स्कन्दकुबेरयोः ।गजग्रहणभूमौ स्त्री वारिः स्यात्सलिले नपुम् ॥ ८२ ॥
अनुष्टुप्

वारि as a meaning in nānārtha verses