मधुर
madhuraपुं · masc.In 21 kośas: 42 synonym verses, 13 as a nānārtha head word, 4 as a meaning of another word.
genderपुंmasc.
तारोऽत्युच्चैर्ध्वनिर्मन्द्रो गम्भीरो मधुरः कलः ॥ १४०९ ॥
अनुष्टुप्metre not read in every line
genderविadj.
चारु हारि रुचिरं मनोहरं वल्गु कान्तमभिरामबन्धुरे ।वामरुच्यसुषमाणि शोभनं मञ्जुमञ्जुलमनोरमाणि च ॥ १४४४ ॥साधुरम्यमनोज्ञानि पेशलं हृद्यसुन्दरे ।काम्यं कम्रं कमनीयं सौम्यं च मधुरं प्रियम् ॥ १४४५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 म (wrong syllable)
genderविadj.
तुवरस्तु कषायोऽस्त्री मधुरो लवणः कटुः ।तिक्तोऽम्लश्च रसाः पुंसि तद्वत्सु षडमी त्रिषु ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
उच्चैस्तरो ध्वनिस्तारो मन्द्रो गम्भीर उच्यते ।कलश्च मधुरोऽव्यक्तो विक्रुष्टो निष्ठुरो मतः ॥ १४० ॥
अनुष्टुप्
genderविadj.
प्राग्र्यं प्राग्रहरं प्रवेकमपरं वर्यं वरेण्यं वरं,श्रेष्ठं प्रेष्ठमनुत्तमं च मधुरं मञ्जु प्रियं मञ्जुलम् ।हृद्यं हारि मनोहरं च रुचिरं कान्तं परं सुन्दरं,सौम्यं साधु च वल्गु चारु सुषमं वामं शुभं पेशलम् ॥ ६८९ ॥
शार्दूलविक्रीडितम्
genderविadj.
क्षवः क्षुधाधिजननो मधुरः सुकुमारकः ।वृत्तबीजो दीर्घशिम्बी चपलोप्यथ नेः परः ॥ ६४ ॥
अनुष्टुप्
genderपुंmasc.
मधुरो मधुशिग्रुः स्यात्सुगन्धो बहुलच्छदः ।अपि केसरिपर्यायोप्यथ वेणुर्महाबलः ॥ १२१ ॥
अनुष्टुप्
genderपुंmasc.
अपि क्षुद्रगुडोथ स्याद्गुडः स्वादुश्च मोदकी ।मधुरो रसपाकोत्थक्वाथोथ क्षुद्रशर्करा ॥ २१५ ॥
अनुष्टुप्
genderपुंmasc.
गुल्यस्तु मधुरो मिष्टः स्वादुज्येष्ठो मधूलकः ।व्याप्नुवल्लिम्पतीवास्यं सचेक्ष्वादावथाम्लकः ॥ ३१४ ॥
अनुष्टुप्
genderपुंmasc.
प्रियाम्बुरथ राजाम्रो राजपर्यायतः फलः ।स्मराम्रो मधुरोऽथ स्यान्महाराजफलस्तु सः ॥ ५३ ॥
अनुष्टुप्
genderपुंmasc.
मुखशोधी रोचनको जाड्यारिर्मधुरोऽपरः ।मधुजम्भो रसद्रावी पित्तद्रावी विराभिधः ॥ १२८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रो (wrong syllable)
genderपुंmasc.
जीवको जीवनो जीव्यः शृङ्गाख्यः प्राणदः प्रियः ।चिरञ्जीवी च मधुरो मङ्गल्यः कूर्चशीर्षकः ॥ ५३५ ॥
अनुष्टुप्
genderपुंmasc.
शतपरुः सूक्ष्मपत्र उत्कटा मधुरा द्वयोः ।ह्रस्वमूलाऽथ तन्मूले मोरटश्चेक्षुलोचनम् ॥ ५८८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 प (wrong syllable)
genderपुंस्त्रीm. f.
अडुतालस्ततो रास एकताली क्रमादिमे ।जयन्तः शेखरोत्साहौ तद्वन्मधुरनिर्मलौ ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
व्यक्तं पूर्णं प्रसन्नं च सुकुमारमलङ्कृतम् ।समं सुरक्तं सुश्लक्ष्णं विक्रुष्टं मधुरं तथा ॥ ४२ ॥
अनुष्टुप्
genderक्लीneut.
स्वादुर्गुल्यो मधुरो मधु(धू)ल-कोमलवद्रसज्येष्ठः ।अम्लोम्ब्लो दन्तशठोऽक्षिभ्रुवकोचीच(?)पाचनाह्वः स्यात् ॥ ४७ ॥
उद्गीतिःmetre not read in every line
genderविadj.
विशेष्यलिङ्गास्तु परे शुभा वाक्-कल्पा च कल्या रुशती त्वभव्या ।तथा रुशन्ती मधुरं तु भूयःसान्त्वं वचोऽवाच्यमनक्षरं स्यात् ॥ ५१ ॥
उपजातिः
genderविadj.
हलपत्रो वक्त्रभङ्गः स्त्रियां मूलकपर्ण्यपि ।रक्तोऽसौ मधुशिग्रुः [स्या]न्मधुरो मधुशृङ्गकः ॥ ७२ ॥
अनुष्टुप्
genderपुंmasc.
मनोरमं मञ्जुल-मञ्जु-वल्गु-काम्यानि सौम्यं मधुरं च हारि ।स्याच्छोभनं चारु च साधु कम्रंरम्यं सुरूपं सुषमं च दृश्यम् ॥ ६१ ॥
उपजातिः
genderविadj.
अभीष्टेऽभीप्सितं हृद्यं दयितं वल्लभं प्रियम् ।मिष्टं मृष्टं मधुरं स्वाद्यं स्वादिष्ठ-भल्लवत् ॥ ६३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderविadj.
ऐरावते चतुर्दन्तो मन्दकः पीलुनामकः ।मधुरो मञ्जुलतरुर्मन्दारतरुपञ्चके ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
क्षीरोदे कलशाब्धिः स्यान्मधुरो माधवालयः ।लक्ष्मीगुरुर्वदान्यश्च हरिश्वशुर इष्यते ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
गुल्यस्वादू च मधुरो रसज्येष्ठो मधूलकः ।अम्लो दन्तशठः प्रोक्तः पाचनोऽपि निरीक्ष्यते ॥ २८१ ॥
अनुष्टुप्
genderपुंmasc.
क्षीजनं वंशजे शब्दे टुट्टुरो भेरिसंभवे ।तारोऽत्युच्चैर्ध्वनिर्मन्द्रो गम्भीरो मधुरः कलः ॥ ३०१ ॥
अनुष्टुप्
genderपुंmasc.
विष्वक्सेनो वरो गोप्ता मधुरो विष्टरश्रवाः ।वनमाली विधुर्विश्वंभरोङ्कारौ गदाग्रजः ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
दम्बरो बदरी कोलः कर्कन्धूश्च क्रकण्टकः ।स्तनबीजो राजकोलो मधुरो हिमफेनिलः ॥ १७९ ॥
अनुष्टुप्
genderपुंmasc.
जम्बीरको दन्तशठो जम्भो जम्बीरजम्भलौ ।मधुरो मधुजं वीरो माधवी मधुजम्बकः ॥ १८२ ॥
अनुष्टुप्
genderपुंmasc.
सुस्वादो मधुरो मिष्टः चुक्रोऽम्लः कटुकः कटुः ।कषायस्तूबरः क्षारी लवणः तिक्ततीक्ष्णकौ ॥ ३०६ ॥
अनुष्टुप्
genderविadj.
मिष्टं स्वादुश्च मधुरः कषायस्तुवरो रसः ।पाचनोऽम्लो दन्तशठः कटुकः कटुरुषणः ॥ ७९ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
मधुरो मधुलः स्वादुः गुलयो मधूलकस्तथा ॥ २५२२ ॥
अनुष्टुप्metre not read in every line
genderविadj.
मनोज्ञं मधुरं रम्यमऽभिरामं मनोरमम् ।कमनीयं प्रियं काम्यं कम्रञ्च सुषमं पुनः ॥ २६२४ ॥
अनुष्टुप्
genderविadj.
अस्त्री कषायो मधुरो लवणः कटुरेव च ।तिक्तोऽम्लश्च षट्पुमांसो रसाः स्युर्गुणवाचकाः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 श्च (wrong syllable)
genderपुंmasc.
स्योनाकः कुटन्नटवद् नटोऽथ चिरजीवकः ।जीवको मधुरकश्च मधुरः कूर्चशीर्षके ॥ २०१ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 कु (wrong syllable); pāda 3, syllable 6 र (wrong syllable)
genderपुंmasc.
कक्खडः खक्खटस्तद्वत्, कोमले मृदुलो मृदुः ।सोमालः सुकुमारश्च, मधूलो मधुरान्विता ॥ १२ ॥
अनुष्टुप्
genderविadj.
कषाये तुवरः स्वादौ मधुरो लवणः कटुः ।अम्लस्तिक्तो रसाः पुंसि षडेते तद्वति त्रिषु ॥ २९४ ॥
अनुष्टुप्
genderपुंmasc.
अलसं वलितं वक्रं मधुरं मन्दमन्थरम् ।कूणितोत्कण्ठिते मन्दमभिलाषि विलासि च ॥ ९६५ ॥
अनुष्टुप्
genderविadj.
कल्याणे मङ्गलं भौमे मङ्गलो मन्थरस्त्रिषु ।मन्दगामिनि मन्थाने सूचके मधुरस्त्रिषु ॥ २१४९ ॥
अनुष्टुप्
genderविadj.
पुण्ड्रेक्षौ पुण्ड्रकः सेव्यः पुण्ड्रकोऽतिरसो मधुः ।श्वेतकाण्डो भीरुकस्तु हरितो मधुरो महान् ॥
अनुष्टुप्
genderपुंmasc.
मधुरं क्लीतकं यष्टिमधुका मधुयष्टिका ।लवंगं देवकुसुमं श्रीसंज्ञं च वरालकम् ॥ १०३ ॥
अनुष्टुप्
genderक्लीneut.
अवन्तिसोमं रक्षोघ्नं शुक्ताभिषुतकुञ्जलम् ।गोलकुल्माषसन्धानान्यौदरो मधुरा न षण् ॥ ८२ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
कृष्णरक्तसितः शारः क्रिमिरः सितलोहितः ।मधुरस्तु रसज्येष्टो गुली स्वादुर्भधूलकः ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.
स्वादौ प्रिये स्याद्रसभाजि भेषेमेदामधूलीमधुयष्टिकासु ।स्त्रियां शताह्वानगरीभिदोश्चमिश्रेयिकायामपि तद्वदेव ॥ १६ ॥
उपजातिः
मधुका श्यामकङ्गौ स्यान्मधुपर्ण्यां च भाषिता ।रभसेन बहुज्ञेन मधुरस्तु पुमान् रसे ॥ १३३५ ॥
अनुष्टुप्
meaningsरस
मेदायां चेति रभसः क्लीबं तु गरलेऽभ्यधात् ।अना तु काञ्जिकेऽथ स्यात् त्रयोदश्यां तिथौ स्त्रियाम् ॥ १३३८ ॥
अनुष्टुप्
doubtful
मसूरमसुरौ पुंसि द्वावेतावपि चैतयोः ।मधुरं विषे स्त्रियां द्राक्षामिश्रेयामागधीषु च ॥ ४०७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
meaningsविष
स्वादौ हृद्ये मयूखस्तु ज्वालायां किरणे त्विषि ।मलिनी वृत्तवाहिन्योर्मोदको भक्ष्यहर्षयोः ॥ २१५० ॥
अनुष्टुप्
doubtful
मधुर as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् स्वादुत्रिष्विष्टमधुरौ स्वादू मृदू चातीक्ष्णकोमलौ ॥ ९४ ॥ Amarakośa 3.3.94
- कोषकल्पतरु स्वादुस्वादुर्मनोज्ञे मधुरे त्रयेऽथा- [तीक्ष्णे मृदुः स्या]त्त्रि[षु] कोमले च ॥ २५ ॥ Koṣakalpataru 6.19.25
- नानार्थार्णवसंक्षेप वल्गुवसिराख्ये च भैषज्ये क्षीरस्वामी वचोऽपठीत् । वल्गु तु त्रिषु चारौ च मधुरे वाचि तु स्त्रियाम् ॥ १२०६ ॥ Nānārthārṇavasaṃkṣepa 2.5.1206
- वैजयन्ती स्वादुसन्नमल्पे विशीर्णादौ स्वादुर्मधुरमृष्टयोः । स्फुटाः स्पष्टव्याप्तफुल्लाः स्थूलौ तु जडपीवरौ ॥ १९ ॥ Vaijayantī 6.4.19